वैशम्पाय़न उवाच:
शौनकेनैवमुक्तस्तु कुन्तीपुत्रो युधिष्ठिरः |
१ क
वैशम्पाय़न उवाच:
पुरोहितमुपागम्य भ्रातृमध्येऽव्रवीदिदम् ||
१ ख
वैशम्पाय़न उवाच:
प्रस्थितं मानुय़ान्तीमे व्राह्मणा वेदपारगाः |
२ क
वैशम्पाय़न उवाच:
न चास्मि पालने शक्तो वहुदुःखसमन्वितः ||
२ ख
वैशम्पाय़न उवाच:
परित्यक्तुं न शक्नोमि दानशक्तिश्च नास्ति मे |
३ क
वैशम्पाय़न उवाच:
कथमत्र मय़ा कार्यं भगवांस्तद्व्रवीतु मे ||
३ ख
वैशम्पाय़न उवाच:
मुहूर्तमिव स ध्यात्वा धर्मेणान्विष्य तां गतिम् |
४ क
वैशम्पाय़न उवाच:
युधिष्ठिरमुवाचेदं धौम्यो धर्मभृतां वरः ||
४ ख
वैशम्पाय़न उवाच:
पुरा सृष्टानि भूतानि पीड्यन्ते क्षुधय़ा भृशम् |
५ क
वैशम्पाय़न उवाच:
ततोऽनुकम्पय़ा तेषां सविता स्वपिता इव ||
५ ख
वैशम्पाय़न उवाच:
गत्वोत्तराय़णं तेजोरसानुद्धृत्य रश्मिभिः |
६ क
वैशम्पाय़न उवाच:
दक्षिणाय़नमावृत्तो महीं निविशते रविः ||
६ ख
वैशम्पाय़न उवाच:
क्षेत्रभूते ततस्तस्मिन्नोषधीरोषधीपतिः |
७ क
वैशम्पाय़न उवाच:
दिवस्तेजः समुद्धृत्य जनय़ामास वारिणा ||
७ ख
वैशम्पाय़न उवाच:
निषिक्तश्चन्द्रतेजोभिः सूय़ते भूगतो रविः |
८ क
वैशम्पाय़न उवाच:
ओषध्यः षड्रसा मेध्यास्तदन्नं प्राणिनां भुवि ||
८ ख
वैशम्पाय़न उवाच:
एवं भानुमय़ं ह्यन्नं भूतानां प्राणधारणम् |
९ क
वैशम्पाय़न उवाच:
पितैष सर्वभूतानां तस्मात्तं शरणं व्रज ||
९ ख
वैशम्पाय़न उवाच:
राजानो हि महात्मानो योनिकर्मविशोधिताः |
१० क
वैशम्पाय़न उवाच:
उद्धरन्ति प्रजाः सर्वास्तप आस्थाय़ पुष्कलम् ||
१० ख
वैशम्पाय़न उवाच:
भीमेन कार्तवीर्येण वैन्येन नहुषेण च |
११ क
वैशम्पाय़न उवाच:
तपोय़ोगसमाधिस्थैरुद्धृता ह्यापदः प्रजाः ||
११ ख
वैशम्पाय़न उवाच:
तथा त्वमपि धर्मात्मन्कर्मणा च विशोधितः |
१२ क
वैशम्पाय़न उवाच:
तप आस्थाय़ धर्मेण द्विजातीन्भर भारत ||
१२ ख
वैशम्पाय़न उवाच:
एवमुक्तस्तु धौम्येन तत्कालसदृशं वचः |
१३ क
वैशम्पाय़न उवाच:
धर्मराजो विशुद्धात्मा तप आतिष्ठदुत्तमम् ||
१३ ख
वैशम्पाय़न उवाच:
पुष्पोपहारैर्वलिभिरर्चय़ित्वा दिवाकरम् |
१४ क
वैशम्पाय़न उवाच:
योगमास्थाय़ धर्मात्मा वाय़ुभक्षो जितेन्द्रिय़ः |
१४ ख
वैशम्पाय़न उवाच:
गाङ्गेय़ं वार्युपस्पृष्य प्राणाय़ामेन तस्थिवान् ||
१४ ग
जनमेजय़ उवाच:
कथं कुरूणामृषभः स तु राजा युधिष्ठिरः |
१५ क
जनमेजय़ उवाच:
विप्रार्थमाराधितवान्सूर्यमद्भुतविक्रमम् ||
१५ ख
वैशम्पाय़न उवाच:
शृणुष्वावहितो राजञ्शुचिर्भूत्वा समाहितः |
१६ क
वैशम्पाय़न उवाच:
क्षणं च कुरु राजेन्द्र सर्वं वक्ष्याम्यशेषतः ||
१६ ख
वैशम्पाय़न उवाच:
धौम्येन तु यथ प्रोक्तं पार्थाय़ सुमहात्मने |
१७ क
वैशम्पाय़न उवाच:
नाम्नामष्टशतं पुण्यं तच्छृणुष्व महामते ||
१७ ख
वैशम्पाय़न उवाच:
सूर्योऽर्यमा भगस्त्वष्टा पूषार्कः सविता रविः |
१८ क
वैशम्पाय़न उवाच:
गभस्तिमानजः कालो मृत्युर्धाता प्रभाकरः ||
१८ ख
वैशम्पाय़न उवाच:
पृथिव्यापश्च तेजश्च खं वाय़ुश्च पराय़णम् |
१९ क
वैशम्पाय़न उवाच:
सोमो वृहस्पतिः शुक्रो वुधोऽङ्गारक एव च ||
१९ ख
वैशम्पाय़न उवाच:
इन्द्रो विवस्वान्दीप्तांशुः शुचिः शौरिः शनैश्चरः |
२० क
वैशम्पाय़न उवाच:
व्रह्मा विष्णुश्च रुद्रश्च स्कन्दो वैश्रवणो यमः ||
२० ख
वैशम्पाय़न उवाच:
वैद्युतो जाठरश्चाग्निरैन्धनस्तेजसां पतिः |
२१ क
वैशम्पाय़न उवाच:
धर्मध्वजो वेदकर्ता वेदाङ्गो वेदवाहनः ||
२१ ख
वैशम्पाय़न उवाच:
कृतं त्रेता द्वापरश्च कलिः सर्वामराश्रय़ः |
२२ क
वैशम्पाय़न उवाच:
कला काष्ठा मुहूर्ताश्च पक्षा मासा ऋतुस्तथा ||
२२ ख
वैशम्पाय़न उवाच:
संवत्सरकरोऽश्वत्थः कालचक्रो विभावसुः |
२३ क
वैशम्पाय़न उवाच:
पुरुषः शाश्वतो योगी व्यक्ताव्यक्तः सनातनः ||
२३ ख
वैशम्पाय़न उवाच:
लोकाध्यक्षः प्रजाध्यक्षो विश्वकर्मा तमोनुदः |
२४ क
वैशम्पाय़न उवाच:
वरुणः सागरोंऽशुश्च जीमूतो जीवनोऽरिहा ||
२४ ख
वैशम्पाय़न उवाच:
भूताश्रय़ो भूतपतिः सर्वभूतनिषेवितः |
२५ क
वैशम्पाय़न उवाच:
मणिः सुवर्णो भूतादिः कामदः सर्वतोमुखः ||
२५ ख
वैशम्पाय़न उवाच:
जय़ो विशालो वरदः शीघ्रगः प्राणधारणः |
२६ क
वैशम्पाय़न उवाच:
धन्वन्तरिर्धूमकेतुरादिदेवोऽदितेः सुतः ||
२६ ख
वैशम्पाय़न उवाच:
द्वादशात्मारविन्दाक्षः पिता माता पितामहः |
२७ क
वैशम्पाय़न उवाच:
स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् ||
२७ ख
वैशम्पाय़न उवाच:
देहकर्ता प्रशान्तात्मा विश्वात्मा विश्वतोमुखः |
२८ क
वैशम्पाय़न उवाच:
चराचरात्मा सूक्ष्मात्मा मैत्रेण वपुषान्वितः ||
२८ ख
वैशम्पाय़न उवाच:
एतद्वै कीर्तनीय़स्य सूर्यस्यैव महात्मनः |
२९ क
वैशम्पाय़न उवाच:
नाम्नामष्टशतं पुण्यं शक्रेणोक्तं महात्मना ||
२९ ख
वैशम्पाय़न उवाच:
शक्राच्च नारदः प्राप्तो धौम्यश्च तदनन्तरम् |
३० क
वैशम्पाय़न उवाच:
धौम्याद्युधिष्ठिरः प्राप्य सर्वान्कामानवाप्तवान् ||
३० ख
वैशम्पाय़न उवाच:
सुरपितृगणय़क्षसेवितं; ह्यसुरनिशाचरसिद्धवन्दितम् |
३१ क
वैशम्पाय़न उवाच:
वरकनकहुताशनप्रभं; त्वमपि मनस्यभिधेहि भास्करम् ||
३१ ख
वैशम्पाय़न उवाच:
सूर्योदय़े यस्तु समाहितः पठे; त्स पुत्रलाभं धनरत्नसञ्चय़ान् |
३२ क
वैशम्पाय़न उवाच:
लभेत जातिस्मरतां सदा नरः; स्मृतिं च मेधां च स विन्दते पराम् ||
३२ ख
वैशम्पाय़न उवाच:
इमं स्तवं देववरस्य यो नरः; प्रकीर्तय़ेच्छुचिसुमनाः समाहितः |
३३ क
वैशम्पाय़न उवाच:
स मुच्यते शोकदवाग्निसागरा; ल्लभेत कामान्मनसा यथेप्सितान् ||
३३ ख