युधिष्ठिर उवाच:
किं त्वं नकुल कुर्वाणस्तत्र तात चरिष्यसि |
१ क
युधिष्ठिर उवाच:
सुकुमारश्च शूरश्च दर्शनीय़ः सुखोचितः ||
१ ख
नकुल उवाच:
अश्ववन्धो भविष्यामि विराटनृपतेरहम् |
२ क
नकुल उवाच:
ग्रन्थिको नाम नाम्नाहं कर्मैतत्सुप्रिय़ं मम ||
२ ख
नकुल उवाच:
कुशलोऽस्म्यश्वशिक्षाय़ां तथैवाश्वचिकित्सिते |
३ क
नकुल उवाच:
प्रिय़ाश्च सततं मेऽश्वाः कुरुराज यथा तव ||
३ ख
नकुल उवाच:
ये मामामन्त्रय़िष्यन्ति विराटनगरे जनाः |
४ क
नकुल उवाच:
तेभ्य एवं प्रवक्ष्यामि विहरिष्याम्यहं यथा ||
४ ख
युधिष्ठिर उवाच:
सहदेव कथं तस्य समीपे विहरिष्यसि |
५ क
युधिष्ठिर उवाच:
किं वा त्वं तात कुर्वाणः प्रच्छन्नो विचरिष्यसि ||
५ ख
सहदेव उवाच:
गोसङ्ख्याता भविष्यामि विराटस्य महीपतेः |
६ क
सहदेव उवाच:
प्रतिषेद्धा च दोग्धा च सङ्ख्याने कुशलो गवाम् ||
६ ख
सहदेव उवाच:
तन्तिपाल इति ख्यातो नाम्ना विदितमस्तु ते |
७ क
सहदेव उवाच:
निपुणं च चरिष्यामि व्येतु ते मानसो ज्वरः ||
७ ख
सहदेव उवाच:
अहं हि भवता गोषु सततं प्रकृतः पुरा |
८ क
सहदेव उवाच:
तत्र मे कौशलं कर्म अववुद्धं विशां पते ||
८ ख
सहदेव उवाच:
लक्षणं चरितं चापि गवां यच्चापि मङ्गलम् |
९ क
सहदेव उवाच:
तत्सर्वं मे सुविदितमन्यच्चापि महीपते ||
९ ख
सहदेव उवाच:
वृषभानपि जानामि राजन्पूजितलक्षणान् |
१० क
सहदेव उवाच:
येषां मूत्रमुपाघ्राय़ अपि वन्ध्या प्रसूय़ते ||
१० ख
सहदेव उवाच:
सोऽहमेवं चरिष्यामि प्रीतिरत्र हि मे सदा |
११ क
सहदेव उवाच:
न च मां वेत्स्यति परस्तत्ते रोचतु पार्थिव ||
११ ख
युधिष्ठिर उवाच:
इय़ं तु नः प्रिय़ा भार्या प्राणेभ्योऽपि गरीय़सी |
१२ क
युधिष्ठिर उवाच:
मातेव परिपाल्या च पूज्या ज्येष्ठेव च स्वसा ||
१२ ख
युधिष्ठिर उवाच:
केन स्म कर्मणा कृष्णा द्रौपदी विचरिष्यति |
१३ क
युधिष्ठिर उवाच:
न हि किञ्चिद्विजानाति कर्म कर्तुं यथा स्त्रिय़ः ||
१३ ख
युधिष्ठिर उवाच:
सुकुमारी च वाला च राजपुत्री यशस्विनी |
१४ क
युधिष्ठिर उवाच:
पतिव्रता महाभागा कथं नु विचरिष्यति ||
१४ ख
युधिष्ठिर उवाच:
माल्यगन्धानलङ्कारान्वस्त्राणि विविधानि च |
१५ क
युधिष्ठिर उवाच:
एतान्येवाभिजानाति यतो जाता हि भामिनी ||
१५ ख
द्रौपद्यु उवाच:
सैरन्ध्र्योऽरक्षिता लोके भुजिष्याः सन्ति भारत |
१६ क
द्रौपद्यु उवाच:
नैवमन्याः स्त्रिय़ो यान्ति इति लोकस्य निश्चय़ः ||
१६ ख
द्रौपद्यु उवाच:
साहं व्रुवाणा सैरन्ध्री कुशला केशकर्मणि |
१७ क
द्रौपद्यु उवाच:
आत्मगुप्ता चरिष्यामि यन्मां त्वमनुपृच्छसि ||
१७ ख
द्रौपद्यु उवाच:
सुदेष्णां प्रत्युपस्थास्ये राजभार्यां यशस्विनीम् |
१८ क
द्रौपद्यु उवाच:
सा रक्षिष्यति मां प्राप्तां मा ते भूद्दुःखमीदृशम् ||
१८ ख
युधिष्ठिर उवाच:
कल्याणं भाषसे कृष्णे कुले जाता यथा वदेत् |
१९ क
युधिष्ठिर उवाच:
न पापमभिजानासि साधु साध्वीव्रते स्थिता ||
१९ ख