chevron_left उद्योग पर्व अध्याय ३
सात्यकिरु उवाच:
यादृशः पुरुषस्यात्मा तादृशं सम्प्रभाषते |
१ क
सात्यकिरु उवाच:
यथारूपोऽन्तरात्मा ते तथारूपं प्रभाषसे ||
१ ख
सात्यकिरु उवाच:
सन्ति वै पुरुषाः शूराः सन्ति कापुरुषास्तथा |
२ क
सात्यकिरु उवाच:
उभावेतौ दृढौ पक्षौ दृश्येते पुरुषान्प्रति ||
२ ख
सात्यकिरु उवाच:
एकस्मिन्नेव जाय़ेते कुले क्लीवमहारथौ |
३ क
सात्यकिरु उवाच:
फलाफलवती शाखे यथैकस्मिन्वनस्पतौ ||
३ ख
सात्यकिरु उवाच:
नाभ्यसूय़ामि ते वाक्यं व्रुवतो लाङ्गलध्वज |
४ क
सात्यकिरु उवाच:
ये तु शृण्वन्ति ते वाक्यं तानसूय़ामि माधव ||
४ ख
सात्यकिरु उवाच:
कथं हि धर्मराजस्य दोषमल्पमपि व्रुवन् |
५ क
सात्यकिरु उवाच:
लभते परिषन्मध्ये व्याहर्तुमकुतोभय़ः ||
५ ख
सात्यकिरु उवाच:
समाहूय़ महात्मानं जितवन्तोऽक्षकोविदाः |
६ क
सात्यकिरु उवाच:
अनक्षज्ञं यथाश्रद्धं तेषु धर्मजय़ः कुतः ||
६ ख
सात्यकिरु उवाच:
यदि कुन्तीसुतं गेहे क्रीडन्तं भ्रातृभिः सह |
७ क
सात्यकिरु उवाच:
अभिगम्य जय़ेय़ुस्ते तत्तेषां धर्मतो भवेत् ||
७ ख
सात्यकिरु उवाच:
समाहूय़ तु राजानं क्षत्रधर्मरतं सदा |
८ क
सात्यकिरु उवाच:
निकृत्या जितवन्तस्ते किं नु तेषां परं शुभम् ||
८ ख
सात्यकिरु उवाच:
कथं प्रणिपतेच्चाय़मिह कृत्वा पणं परम् |
९ क
सात्यकिरु उवाच:
वनवासाद्विमुक्तस्तु प्राप्तः पैतामहं पदम् ||
९ ख
सात्यकिरु उवाच:
यद्ययं परवित्तानि कामय़ेत युधिष्ठिरः |
१० क
सात्यकिरु उवाच:
एवमप्ययमत्यन्तं परान्नार्हति याचितुम् ||
१० ख
सात्यकिरु उवाच:
कथं च धर्मय़ुक्तास्ते न च राज्यं जिहीर्षवः |
११ क
सात्यकिरु उवाच:
निवृत्तवासान्कौन्तेय़ान्य आहुर्विदिता इति ||
११ ख
सात्यकिरु उवाच:
अनुनीता हि भीष्मेण द्रोणेन च महात्मना |
१२ क
सात्यकिरु उवाच:
न व्यवस्यन्ति पाण्डूनां प्रदातुं पैतृकं वसु ||
१२ ख
सात्यकिरु उवाच:
अहं तु ताञ्शितैर्वाणैरनुनीय़ रणे वलात् |
१३ क
सात्यकिरु उवाच:
पादय़ोः पातय़िष्यामि कौन्तेय़स्य महात्मनः ||
१३ ख
सात्यकिरु उवाच:
अथ ते न व्यवस्यन्ति प्रणिपाताय़ धीमतः |
१४ क
सात्यकिरु उवाच:
गमिष्यन्ति सहामात्या यमस्य सदनं प्रति ||
१४ ख
सात्यकिरु उवाच:
न हि ते युय़ुधानस्य संरव्धस्य युय़ुत्सतः |
१५ क
सात्यकिरु उवाच:
वेगं समर्थाः संसोढुं वज्रस्येव महीधराः ||
१५ ख
सात्यकिरु उवाच:
को हि गाण्डीवधन्वानं कश्च चक्राय़ुधं युधि |
१६ क
सात्यकिरु उवाच:
मां चापि विषहेत्को नु कश्च भीमं दुरासदम् ||
१६ ख
सात्यकिरु उवाच:
यमौ च दृढधन्वानौ यमकल्पौ महाद्युती |
१७ क
सात्यकिरु उवाच:
को जिजीविषुरासीदेद्धृष्टद्युम्नं च पार्षतम् ||
१७ ख
सात्यकिरु उवाच:
पञ्चेमान्पाण्डवेय़ांश्च द्रौपद्याः कीर्तिवर्धनान् |
१८ क
सात्यकिरु उवाच:
समप्रमाणान्पाण्डूनां समवीर्यान्मदोत्कटान् ||
१८ ख
सात्यकिरु उवाच:
सौभद्रं च महेष्वासममरैरपि दुःसहम् |
१९ क
सात्यकिरु उवाच:
गदप्रद्युम्नसाम्वांश्च कालवज्रानलोपमान् ||
१९ ख
सात्यकिरु उवाच:
ते वय़ं धृतराष्ट्रस्य पुत्रं शकुनिना सह |
२० क
सात्यकिरु उवाच:
कर्णेन च निहत्याजावभिषेक्ष्याम पाण्डवम् ||
२० ख
सात्यकिरु उवाच:
नाधर्मो विद्यते कश्चिच्छत्रून्हत्वातताय़िनः |
२१ क
सात्यकिरु उवाच:
अधर्म्यमय़शस्यं च शात्रवाणां प्रय़ाचनम् ||
२१ ख
सात्यकिरु उवाच:
हृद्गतस्तस्य यः कामस्तं कुरुध्वमतन्द्रिताः |
२२ क
सात्यकिरु उवाच:
निसृष्टं धृतराष्ट्रेण राज्यं प्राप्नोतु पाण्डवः ||
२२ ख
सात्यकिरु उवाच:
अद्य पाण्डुसुतो राज्यं लभतां वा युधिष्ठिरः |
२३ क
सात्यकिरु उवाच:
निहता वा रणे सर्वे स्वप्स्यन्ति वसुधातले ||
२३ ख