व्यास उवाच:
खरा गोषु प्रजाय़न्ते रमन्ते मातृभिः सुताः |
१ क
व्यास उवाच:
अनार्तवं पुष्पफलं दर्शय़न्ति वने द्रुमाः ||
१ ख
व्यास उवाच:
गर्भिण्यो राजपुत्र्यश्च जनय़न्ति विभीषणान् |
२ क
व्यास उवाच:
क्रव्यादान्पक्षिणश्चैव गोमाय़ूनपरान्मृगान् ||
२ ख
व्यास उवाच:
त्रिविषाणाश्चतुर्नेत्राः पञ्चपादा द्विमेहनाः |
३ क
व्यास उवाच:
द्विशीर्षाश्च द्विपुच्छाश्च दंष्ट्रिणः पशवोऽशिवाः ||
३ ख
व्यास उवाच:
जाय़न्ते विवृतास्याश्च व्याहरन्तोऽशिवा गिरः |
४ क
व्यास उवाच:
त्रिपदाः शिखिनस्तार्क्ष्याश्चतुर्दंष्ट्रा विषाणिनः ||
४ ख
व्यास उवाच:
तथैवान्याश्च दृश्यन्ते स्त्रिय़श्च व्रह्मवादिनाम् |
५ क
व्यास उवाच:
वैनतेय़ान्मय़ूरांश्च जनय़न्त्यः पुरे तव ||
५ ख
व्यास उवाच:
गोवत्सं वडवा सूते श्वा सृगालं महीपते |
६ क
व्यास उवाच:
क्रकराञ्शारिकाश्चैव शुकांश्चाशुभवादिनः ||
६ ख
व्यास उवाच:
स्त्रिय़ः काश्चित्प्रजाय़न्ते चतस्रः पञ्च कन्यकाः |
७ क
व्यास उवाच:
ता जातमात्रा नृत्यन्ति गाय़न्ति च हसन्ति च ||
७ ख
व्यास उवाच:
पृथग्जनस्य कुडकाः स्तनपाः स्तेनवेश्मनि |
८ क
व्यास उवाच:
नृत्यन्ति परिगाय़न्ति वेदय़न्तो महद्भय़म् ||
८ ख
व्यास उवाच:
प्रतिमाश्चालिखन्त्यन्ये सशस्त्राः कालचोदिताः |
९ क
व्यास उवाच:
अन्योन्यमभिधावन्ति शिशवो दण्डपाणय़ः |
९ ख
व्यास उवाच:
उपरुन्धन्ति कृत्वा च नगराणि युय़ुत्सवः ||
९ ग
व्यास उवाच:
पद्मोत्पलानि वृक्षेषु जाय़न्ते कुमुदानि च |
१० क
व्यास उवाच:
विष्वग्वाताश्च वान्त्युग्रा रजो न व्युपशाम्यति ||
१० ख
व्यास उवाच:
अभीक्ष्णं कम्पते भूमिरर्कं राहुस्तथाग्रसत् |
११ क
व्यास उवाच:
श्वेतो ग्रहस्तथा चित्रां समतिक्रम्य तिष्ठति ||
११ ख
व्यास उवाच:
अभावं हि विशेषेण कुरूणां प्रतिपश्यति |
१२ क
व्यास उवाच:
धूमकेतुर्महाघोरः पुष्यमाक्रम्य तिष्ठति ||
१२ ख
व्यास उवाच:
सेनय़ोरशिवं घोरं करिष्यति महाग्रहः |
१३ क
व्यास उवाच:
मघास्वङ्गारको वक्रः श्रवणे च वृहस्पतिः ||
१३ ख
व्यास उवाच:
भाग्यं नक्षत्रमाक्रम्य सूर्यपुत्रेण पीड्यते |
१४ क
व्यास उवाच:
शुक्रः प्रोष्ठपदे पूर्वे समारुह्य विशां पते |
१४ ख
व्यास उवाच:
उत्तरे तु परिक्रम्य सहितः प्रत्युदीक्षते ||
१४ ग
व्यास उवाच:
श्यामो ग्रहः प्रज्वलितः सधूमः सहपावकः |
१५ क
व्यास उवाच:
ऐन्द्रं तेजस्वि नक्षत्रं ज्येष्ठामाक्रम्य तिष्ठति ||
१५ ख
व्यास उवाच:
ध्रुवः प्रज्वलितो घोरमपसव्यं प्रवर्तते |
१६ क
व्यास उवाच:
चित्रास्वात्यन्तरे चैव धिष्ठितः परुषो ग्रहः ||
१६ ख
व्यास उवाच:
वक्रानुवक्रं कृत्वा च श्रवणे पावकप्रभः |
१७ क
व्यास उवाच:
व्रह्मराशिं समावृत्य लोहिताङ्गो व्यवस्थितः ||
१७ ख
व्यास उवाच:
सर्वसस्यप्रतिच्छन्ना पृथिवी फलमालिनी |
१८ क
व्यास उवाच:
पञ्चशीर्षा यवाश्चैव शतशीर्षाश्च शालय़ः ||
१८ ख
व्यास उवाच:
प्रधानाः सर्वलोकस्य यास्वाय़त्तमिदं जगत् |
१९ क
व्यास उवाच:
ता गावः प्रस्नुता वत्सैः शोणितं प्रक्षरन्त्युत ||
१९ ख
व्यास उवाच:
निश्चेरुरपिधानेभ्यः खड्गाः प्रज्वलिता भृशम् |
२० क
व्यास उवाच:
व्यक्तं पश्यन्ति शस्त्राणि सङ्ग्रामं समुपस्थितम् ||
२० ख
व्यास उवाच:
अग्निवर्णा यथा भासः शस्त्राणामुदकस्य च |
२१ क
व्यास उवाच:
कवचानां ध्वजानां च भविष्यति महान्क्षय़ः ||
२१ ख
व्यास उवाच:
दिक्षु प्रज्वलितास्याश्च व्याहरन्ति मृगद्विजाः |
२२ क
व्यास उवाच:
अत्याहितं दर्शय़न्तो वेदय़न्ति महद्भय़म् ||
२२ ख
व्यास उवाच:
एकपक्षाक्षिचरणः शकुनिः खचरो निशि |
२३ क
व्यास उवाच:
रौद्रं वदति संरव्धः शोणितं छर्दय़न्मुहुः ||
२३ ख
व्यास उवाच:
ग्रहौ ताम्रारुणशिखौ प्रज्वलन्ताविव स्थितौ |
२४ क
व्यास उवाच:
सप्तर्षीणामुदाराणां समवच्छाद्य वै प्रभाम् ||
२४ ख
व्यास उवाच:
संवत्सरस्थाय़िनौ च ग्रहौ प्रज्वलितावुभौ |
२५ क
व्यास उवाच:
विशाखय़ोः समीपस्थौ वृहस्पतिशनैश्चरौ ||
२५ ख
व्यास उवाच:
कृत्तिकासु ग्रहस्तीव्रो नक्षत्रे प्रथमे ज्वलन् |
२६ क
व्यास उवाच:
वपूंष्यपहरन्भासा धूमकेतुरिव स्थितः ||
२६ ख
व्यास उवाच:
त्रिषु पूर्वेषु सर्वेषु नक्षत्रेषु विशां पते |
२७ क
व्यास उवाच:
वुधः सम्पततेऽभीक्ष्णं जनय़न्सुमहद्भय़म् ||
२७ ख
व्यास उवाच:
चतुर्दशीं पञ्चदशीं भूतपूर्वां च षोडशीम् |
२८ क
व्यास उवाच:
इमां तु नाभिजानामि अमावास्यां त्रय़ोदशीम् ||
२८ ख
व्यास उवाच:
चन्द्रसूर्यावुभौ ग्रस्तावेकमासे त्रय़ोदशीम् |
२९ क
व्यास उवाच:
अपर्वणि ग्रहावेतौ प्रजाः सङ्क्षपय़िष्यतः ||
२९ ख
व्यास उवाच:
रजोवृता दिशः सर्वाः पांसुवर्षैः समन्ततः |
३० क
व्यास उवाच:
उत्पातमेघा रौद्राश्च रात्रौ वर्षन्ति शोणितम् ||
३० ख
व्यास उवाच:
मांसवर्षं पुनस्तीव्रमासीत्कृष्णचतुर्दशीम् |
३१ क
व्यास उवाच:
अर्धरात्रे महाघोरमतृप्यंस्तत्र राक्षसाः ||
३१ ख
व्यास उवाच:
प्रतिस्रोतोऽवहन्नद्यः सरितः शोणितोदकाः |
३२ क
व्यास उवाच:
फेनाय़मानाः कूपाश्च नर्दन्ति वृषभा इव |
३२ ख
व्यास उवाच:
पतन्त्युल्काः सनिर्घाताः शुष्काशनिविमिश्रिताः ||
३२ ग
व्यास उवाच:
अद्य चैव निशां व्युष्टामुदय़े भानुराहतः |
३३ क
व्यास उवाच:
ज्वलन्तीभिर्महोल्काभिश्चतुर्भिः सर्वतोदिशम् ||
३३ ख
व्यास उवाच:
आदित्यमुपतिष्ठद्भिस्तत्र चोक्तं महर्षिभिः |
३४ क
व्यास उवाच:
भूमिपालसहस्राणां भूमिः पास्यति शोणितम् ||
३४ ख
व्यास उवाच:
कैलासमन्दराभ्यां तु तथा हिमवतो गिरेः |
३५ क
व्यास उवाच:
सहस्रशो महाशव्दं शिखराणि पतन्ति च ||
३५ ख
व्यास उवाच:
महाभूता भूमिकम्पे चतुरः सागरान्पृथक् |
३६ क
व्यास उवाच:
वेलामुद्वर्तय़न्ति स्म क्षोभय़न्तः पुनः पुनः ||
३६ ख
व्यास उवाच:
वृक्षानुन्मथ्य वान्त्युग्रा वाताः शर्करकर्षिणः |
३७ क
व्यास उवाच:
पतन्ति चैत्यवृक्षाश्च ग्रामेषु नगरेषु च ||
३७ ख
व्यास उवाच:
पीतलोहितनीलश्च ज्वलत्यग्निर्हुतो द्विजैः |
३८ क
व्यास उवाच:
वामार्चिः शावगन्धी च धूमप्राय़ः खरस्वनः |
३८ ख
व्यास उवाच:
स्पर्शा गन्धा रसाश्चैव विपरीता महीपते ||
३८ ग
व्यास उवाच:
धूमाय़न्ते ध्वजा राज्ञां कम्पमाना मुहुर्मुहुः |
३९ क
व्यास उवाच:
मुञ्चन्त्यङ्गारवर्षाणि भेर्योऽथ पटहास्तथा ||
३९ ख
व्यास उवाच:
प्रासादशिखराग्रेषु पुरद्वारेषु चैव हि |
४० क
व्यास उवाच:
गृध्राः परिपतन्त्युग्रा वामं मण्डलमाश्रिताः ||
४० ख
व्यास उवाच:
पक्वापक्वेति सुभृशं वावाश्यन्ते वय़ांसि च |
४१ क
व्यास उवाच:
निलीय़न्ते ध्वजाग्रेषु क्षय़ाय़ पृथिवीक्षिताम् ||
४१ ख
व्यास उवाच:
ध्याय़न्तः प्रकिरन्तश्च वालान्वेपथुसंय़ुताः |
४२ क
व्यास उवाच:
रुदन्ति दीनास्तुरगा मातङ्गाश्च सहस्रशः ||
४२ ख
व्यास उवाच:
एतच्छ्रुत्वा भवानत्र प्राप्तकालं व्यवस्यताम् |
४३ क
व्यास उवाच:
यथा लोकः समुच्छेदं नाय़ं गच्छेत भारत ||
४३ ख
वैशम्पाय़न उवाच:
पितुर्वचो निशम्यैतद्धृतराष्ट्रोऽव्रवीदिदम् |
४४ क
वैशम्पाय़न उवाच:
दिष्टमेतत्पुरा मन्ये भविष्यति न संशय़ः ||
४४ ख
वैशम्पाय़न उवाच:
क्षत्रिय़ाः क्षत्रधर्मेण वध्यन्ते यदि संय़ुगे |
४५ क
वैशम्पाय़न उवाच:
वीरलोकं समासाद्य सुखं प्राप्स्यन्ति केवलम् ||
४५ ख
वैशम्पाय़न उवाच:
इह कीर्तिं परे लोके दीर्घकालं महत्सुखम् |
४६ क
वैशम्पाय़न उवाच:
प्राप्स्यन्ति पुरुषव्याघ्राः प्राणांस्त्यक्त्वा महाहवे ||
४६ ख