chevron_left द्रोण पर्व अध्याय ३
सञ्जय़ उवाच:
शरतल्पे महात्मानं शय़ानममितौजसम् |
१ क
सञ्जय़ उवाच:
महावातसमूहेन समुद्रमिव शोषितम् ||
१ ख
सञ्जय़ उवाच:
दिव्यैरस्त्रैर्महेष्वासं पातितं सव्यसाचिना |
२ क
सञ्जय़ उवाच:
जय़ाशां तव पुत्राणां सम्भग्नां शर्म वर्म च ||
२ ख
सञ्जय़ उवाच:
अपाराणामिव द्वीपमगाधे गाधमिच्छताम् |
३ क
सञ्जय़ उवाच:
स्रोतसा यामुनेनेव शरौघेण परिप्लुतम् ||
३ ख
सञ्जय़ उवाच:
महान्तमिव मैनाकमसह्यं भुवि पातितम् |
४ क
सञ्जय़ उवाच:
नभश्च्युतमिवादित्यं पतितं धरणीतले ||
४ ख
सञ्जय़ उवाच:
शतक्रतोरिवाचिन्त्यं पुरा वृत्रेण निर्जय़म् |
५ क
सञ्जय़ उवाच:
मोहनं सर्वसैन्यस्य युधि भीष्मस्य पातनम् ||
५ ख
सञ्जय़ उवाच:
ककुदं सर्वसैन्यानां लक्ष्म सर्वधनुष्मताम् |
६ क
सञ्जय़ उवाच:
धनञ्जय़शरव्याप्तं पितरं ते महाव्रतम् ||
६ ख
सञ्जय़ उवाच:
तं वीरशय़ने वीरं शय़ानं पुरुषर्षभम् |
७ क
सञ्जय़ उवाच:
भीष्ममाधिरथिर्दृष्ट्वा भरतानाममध्यमम् ||
७ ख
सञ्जय़ उवाच:
अवतीर्य रथादार्तो वाष्पव्याकुलिताक्षरम् |
८ क
सञ्जय़ उवाच:
अभिवाद्याञ्जलिं वद्ध्वा वन्दमानोऽभ्यभाषत ||
८ ख
सञ्जय़ उवाच:
कर्णोऽहमस्मि भद्रं ते अद्य मा वद भारत |
९ क
सञ्जय़ उवाच:
पुण्यया क्षेमय़ा वाचा चक्षुषा चावलोकय़ ||
९ ख
सञ्जय़ उवाच:
न नूनं सुकृतस्येह फलं कश्चित्समश्नुते |
१० क
सञ्जय़ उवाच:
यत्र धर्मपरो वृद्धः शेते भुवि भवानिह ||
१० ख
सञ्जय़ उवाच:
कोशसञ्जनने मन्त्रे व्यूहप्रहरणेषु च |
११ क
सञ्जय़ उवाच:
नाथमन्यं न पश्यामि कुरूणां कुरुसत्तम ||
११ ख
सञ्जय़ उवाच:
वुद्ध्या विशुद्धय़ा युक्तो यः कुरूंस्तारय़ेद्भय़ात् |
१२ क
सञ्जय़ उवाच:
योधांस्त्वमप्लवे हित्वा पितृलोकं गमिष्यसि ||
१२ ख
सञ्जय़ उवाच:
अद्य प्रभृति सङ्क्रुद्धा व्याघ्रा इव मृगक्षय़म् |
१३ क
सञ्जय़ उवाच:
पाण्डवा भरतश्रेष्ठ करिष्यन्ति कुरुक्षय़म् ||
१३ ख
सञ्जय़ उवाच:
अद्य गाण्डीवघोषस्य वीर्यज्ञाः सव्यसाचिनः |
१४ क
सञ्जय़ उवाच:
कुरवः सन्त्रसिष्यन्ति वज्रपाणेरिवासुराः ||
१४ ख
सञ्जय़ उवाच:
अद्य गाण्डीवमुक्तानामशनीनामिव स्वनः |
१५ क
सञ्जय़ उवाच:
त्रासय़िष्यति सङ्ग्रामे कुरूनन्यांश्च पार्थिवान् ||
१५ ख
सञ्जय़ उवाच:
समिद्धोऽग्निर्यथा वीर महाज्वालो द्रुमान्दहेत् |
१६ क
सञ्जय़ उवाच:
धार्तराष्ट्रान्प्रधक्ष्यन्ति तथा वाणाः किरीटिनः ||
१६ ख
सञ्जय़ उवाच:
येन येन प्रसरतो वाय़्वग्नी सहितौ वने |
१७ क
सञ्जय़ उवाच:
तेन तेन प्रदहतो भगवन्तौ यदिच्छतः ||
१७ ख
सञ्जय़ उवाच:
यादृशोऽग्निः समिद्धो हि तादृक्पार्थो न संशय़ः |
१८ क
सञ्जय़ उवाच:
यथा वाय़ुर्नरव्याघ्र तथा कृष्णो न संशय़ः ||
१८ ख
सञ्जय़ उवाच:
नदतः पाञ्चजन्यस्य रसतो गाण्डिवस्य च |
१९ क
सञ्जय़ उवाच:
श्रुत्वा सर्वाणि सैन्यानि त्रासं यास्यन्ति भारत ||
१९ ख
सञ्जय़ उवाच:
कपिध्वजस्य चोत्पाते रथस्यामित्रकर्शिनः |
२० क
सञ्जय़ उवाच:
शव्दं सोढुं न शक्ष्यन्ति त्वामृते वीर पार्थिवाः ||
२० ख
सञ्जय़ उवाच:
को ह्यर्जुनं रणे योद्धुं त्वदन्यः पार्थिवोऽर्हति |
२१ क
सञ्जय़ उवाच:
यस्य दिव्यानि कर्माणि प्रवदन्ति मनीषिणः ||
२१ ख
सञ्जय़ उवाच:
अमानुषश्च सङ्ग्रामस्त्र्यम्वकेन च धीमतः |
२२ क
सञ्जय़ उवाच:
तस्माच्चैव वरः प्राप्तो दुष्प्रापश्चाकृतात्मभिः ||
२२ ख
सञ्जय़ उवाच:
तमद्याहं पाण्डवं युद्धशौण्ड; ममृष्यमाणो भवतानुशिष्टः |
२३ क
सञ्जय़ उवाच:
आशीविषं दृष्टिहरं सुघोर; मिय़ां पुरस्कृत्य वधं जय़ं वा ||
२३ ख