सञ्जय़ उवाच:
शृणु राजन्नवहितो यथा वृत्तो महान्क्षय़ः |
१ क
सञ्जय़ उवाच:
कुरूणां पाण्डवानां च समासाद्य परस्परम् ||
१ ख
सञ्जय़ उवाच:
निहते सूतपुत्रे तु पाण्डवेन महात्मना |
२ क
सञ्जय़ उवाच:
विद्रुतेषु च सैन्येषु समानीतेषु चासकृत् ||
२ ख
सञ्जय़ उवाच:
विमुखे तव पुत्रे तु शोकोपहतचेतसि |
३ क
सञ्जय़ उवाच:
भृशोद्विग्नेषु सैन्येषु दृष्ट्वा पार्थस्य विक्रमम् ||
३ ख
सञ्जय़ उवाच:
ध्याय़मानेषु सैन्येषु दुःखं प्राप्तेषु भारत |
४ क
सञ्जय़ उवाच:
वलानां मथ्यमानानां श्रुत्वा निनदमुत्तमम् ||
४ ख
सञ्जय़ उवाच:
अभिज्ञानं नरेन्द्राणां विकृतं प्रेक्ष्य संय़ुगे |
५ क
सञ्जय़ उवाच:
पतितान्रथनीडांश्च रथांश्चापि महात्मनाम् ||
५ ख
सञ्जय़ उवाच:
रणे विनिहतान्नागान्दृष्ट्वा पत्तींश्च मारिष |
६ क
सञ्जय़ उवाच:
आय़ोधनं चातिघोरं रुद्रस्याक्रीडसंनिभम् ||
६ ख
सञ्जय़ उवाच:
अप्रख्यातिं गतानां तु राज्ञां शतसहस्रशः |
७ क
सञ्जय़ उवाच:
कृपाविष्टः कृपो राजन्वय़ःशीलसमन्वितः ||
७ ख
सञ्जय़ उवाच:
अव्रवीत्तत्र तेजस्वी सोऽभिसृत्य जनाधिपम् |
८ क
सञ्जय़ उवाच:
दुर्योधनं मन्युवशाद्वचनं वचनक्षमः ||
८ ख
सञ्जय़ उवाच:
दुर्योधन निवोधेदं यत्त्वा वक्ष्यामि कौरव |
९ क
सञ्जय़ उवाच:
श्रुत्वा कुरु महाराज यदि ते रोचतेऽनघ ||
९ ख
सञ्जय़ उवाच:
न युद्धधर्माच्छ्रेय़ान्वै पन्था राजेन्द्र विद्यते |
१० क
सञ्जय़ उवाच:
यं समाश्रित्य युध्यन्ते क्षत्रिय़ाः क्षत्रिय़र्षभ ||
१० ख
सञ्जय़ उवाच:
पुत्रो भ्राता पिता चैव स्वस्रेय़ो मातुलस्तथा |
११ क
सञ्जय़ उवाच:
सम्वन्धिवान्धवाश्चैव योध्या वै क्षत्रजीविना ||
११ ख
सञ्जय़ उवाच:
वधे चैव परो धर्मस्तथाधर्मः पलाय़ने |
१२ क
सञ्जय़ उवाच:
ते स्म घोरां समापन्ना जीविकां जीवितार्थिनः ||
१२ ख
सञ्जय़ उवाच:
तत्र त्वां प्रतिवक्ष्यामि किञ्चिदेव हितं वचः |
१३ क
सञ्जय़ उवाच:
हते भीष्मे च द्रोणे च कर्णे चैव महारथे ||
१३ ख
सञ्जय़ उवाच:
जय़द्रथे च निहते तव भ्रातृषु चानघ |
१४ क
सञ्जय़ उवाच:
लक्ष्मणे तव पुत्रे च किं शेषं पर्युपास्महे ||
१४ ख
सञ्जय़ उवाच:
येषु भारं समासज्य राज्ये मतिमकुर्महि |
१५ क
सञ्जय़ उवाच:
ते सन्त्यज्य तनूर्याताः शूरा व्रह्मविदां गतिम् ||
१५ ख
सञ्जय़ उवाच:
वय़ं त्विह विनाभूता गुणवद्भिर्महारथैः |
१६ क
सञ्जय़ उवाच:
कृपणं वर्तय़िष्याम पातय़ित्वा नृपान्वहून् ||
१६ ख
सञ्जय़ उवाच:
सर्वैरपि च जीवद्भिर्वीभत्सुरपराजितः |
१७ क
सञ्जय़ उवाच:
कृष्णनेत्रो महावाहुर्देवैरपि दुरासदः ||
१७ ख
सञ्जय़ उवाच:
इन्द्रकार्मुकवज्राभमिन्द्रकेतुमिवोच्छ्रितम् |
१८ क
सञ्जय़ उवाच:
वानरं केतुमासाद्य सञ्चचाल महाचमूः ||
१८ ख
सञ्जय़ उवाच:
सिंहनादेन भीमस्य पाञ्चजन्यस्वनेन च |
१९ क
सञ्जय़ उवाच:
गाण्डीवस्य च निर्घोषात्संहृष्यन्ति मनांसि नः ||
१९ ख
सञ्जय़ उवाच:
चरन्तीव महाविद्युन्मुष्णन्ति नय़नप्रभाम् |
२० क
सञ्जय़ उवाच:
अलातमिव चाविद्धं गाण्डीवं समदृश्यत ||
२० ख
सञ्जय़ उवाच:
जाम्वूनदविचित्रं च धूय़मानं महद्धनुः |
२१ क
सञ्जय़ उवाच:
दृश्यते दिक्षु सर्वासु विद्युदभ्रघनेष्विव ||
२१ ख
सञ्जय़ उवाच:
उह्यमानश्च कृष्णेन वाय़ुनेव वलाहकः |
२२ क
सञ्जय़ उवाच:
तावकं तद्वलं राजन्नर्जुनोऽस्त्रविदां वरः |
२२ ख
सञ्जय़ उवाच:
गहनं शिशिरे कक्षं ददाहाग्निरिवोत्थितः ||
२२ ग
सञ्जय़ उवाच:
गाहमानमनीकानि महेन्द्रसदृशप्रभम् |
२३ क
सञ्जय़ उवाच:
धनञ्जय़मपश्याम चतुर्दन्तमिव द्विपम् ||
२३ ख
सञ्जय़ उवाच:
विक्षोभय़न्तं सेनां ते त्रासय़न्तं च पार्थिवान् |
२४ क
सञ्जय़ उवाच:
धनञ्जय़मपश्याम नलिनीमिव कुञ्जरम् ||
२४ ख
सञ्जय़ उवाच:
त्रासय़न्तं तथा योधान्धनुर्घोषेण पाण्डवम् |
२५ क
सञ्जय़ उवाच:
भूय़ एनमपश्याम सिंहं मृगगणा इव ||
२५ ख
सञ्जय़ उवाच:
सर्वलोकमहेष्वासौ वृषभौ सर्वधन्विनाम् |
२६ क
सञ्जय़ उवाच:
आमुक्तकवचौ कृष्णौ लोकमध्ये विरेजतुः ||
२६ ख
सञ्जय़ उवाच:
अद्य सप्तदशाहानि वर्तमानस्य भारत |
२७ क
सञ्जय़ उवाच:
सङ्ग्रामस्यातिघोरस्य वध्यतां चाभितो युधि ||
२७ ख
सञ्जय़ उवाच:
वाय़ुनेव विधूतानि तवानीकानि सर्वशः |
२८ क
सञ्जय़ उवाच:
शरदम्भोदजालानि व्यशीर्यन्त समन्ततः ||
२८ ख
सञ्जय़ उवाच:
तां नावमिव पर्यस्तां भ्रान्तवातां महार्णवे |
२९ क
सञ्जय़ उवाच:
तव सेनां महाराज सव्यसाची व्यकम्पय़त् ||
२९ ख
सञ्जय़ उवाच:
क्व नु ते सूतपुत्रोऽभूत्क्व नु द्रोणः सहानुगः |
३० क
सञ्जय़ उवाच:
अहं क्व च क्व चात्मा ते हार्दिक्यश्च तथा क्व नु |
३० ख
सञ्जय़ उवाच:
दुःशासनश्च भ्राता ते भ्रातृभिः सहितः क्व नु ||
३० ग
सञ्जय़ उवाच:
वाणगोचरसम्प्राप्तं प्रेक्ष्य चैव जय़द्रथम् |
३१ क
सञ्जय़ उवाच:
सम्वन्धिनस्ते भ्रातॄंश्च सहाय़ान्मातुलांस्तथा ||
३१ ख
सञ्जय़ उवाच:
सर्वान्विक्रम्य मिषतो लोकांश्चाक्रम्य मूर्धनि |
३२ क
सञ्जय़ उवाच:
जय़द्रथो हतो राजन्किं नु शेषमुपास्महे ||
३२ ख
सञ्जय़ उवाच:
को वेह स पुमानस्ति यो विजेष्यति पाण्डवम् |
३३ क
सञ्जय़ उवाच:
तस्य चास्त्राणि दिव्यानि विविधानि महात्मनः |
३३ ख
सञ्जय़ उवाच:
गाण्डीवस्य च निर्घोषो वीर्याणि हरते हि नः ||
३३ ग
सञ्जय़ उवाच:
नष्टचन्द्रा यथा रात्रिः सेनेय़ं हतनाय़का |
३४ क
सञ्जय़ उवाच:
नागभग्नद्रुमा शुष्का नदीवाकुलतां गता ||
३४ ख
सञ्जय़ उवाच:
ध्वजिन्यां हतनेत्राय़ां यथेष्टं श्वेतवाहनः |
३५ क
सञ्जय़ उवाच:
चरिष्यति महावाहुः कक्षेऽग्निरिव सञ्ज्वलन् ||
३५ ख
सञ्जय़ उवाच:
सात्यकेश्चैव यो वेगो भीमसेनस्य चोभय़ोः |
३६ क
सञ्जय़ उवाच:
दारय़ेत गिरीन्सर्वाञ्शोषय़ेत च सागरान् ||
३६ ख
सञ्जय़ उवाच:
उवाच वाक्यं यद्भीमः सभामध्ये विशां पते |
३७ क
सञ्जय़ उवाच:
कृतं तत्सकलं तेन भूय़श्चैव करिष्यति ||
३७ ख
सञ्जय़ उवाच:
प्रमुखस्थे तदा कर्णे वलं पाण्डवरक्षितम् |
३८ क
सञ्जय़ उवाच:
दुरासदं तथा गुप्तं गूढं गाण्डीवधन्वना ||
३८ ख
सञ्जय़ उवाच:
युष्माभिस्तानि चीर्णानि यान्यसाधूनि साधुषु |
३९ क
सञ्जय़ उवाच:
अकारणकृतान्येव तेषां वः फलमागतम् ||
३९ ख
सञ्जय़ उवाच:
आत्मनोऽर्थे त्वय़ा लोको यत्नतः सर्व आहृतः |
४० क
सञ्जय़ उवाच:
स ते संशय़ितस्तात आत्मा च भरतर्षभ ||
४० ख
सञ्जय़ उवाच:
रक्ष दुर्योधनात्मानमात्मा सर्वस्य भाजनम् |
४१ क
सञ्जय़ उवाच:
भिन्ने हि भाजने तात दिशो गच्छति तद्गतम् ||
४१ ख
सञ्जय़ उवाच:
हीय़मानेन वै सन्धिः पर्येष्टव्यः समेन च |
४२ क
सञ्जय़ उवाच:
विग्रहो वर्धमानेन नीतिरेषा वृहस्पतेः ||
४२ ख
सञ्जय़ उवाच:
ते वय़ं पाण्डुपुत्रेभ्यो हीनाः स्ववलशक्तितः |
४३ क
सञ्जय़ उवाच:
अत्र ते पाण्डवैः सार्धं सन्धिं मन्ये क्षमं प्रभो ||
४३ ख
सञ्जय़ उवाच:
न जानीते हि यः श्रेय़ः श्रेय़सश्चावमन्यते |
४४ क
सञ्जय़ उवाच:
स क्षिप्रं भ्रश्यते राज्यान्न च श्रेय़ोऽनुविन्दति ||
४४ ख
सञ्जय़ उवाच:
प्रणिपत्य हि राजानं राज्यं यदि लभेमहि |
४५ क
सञ्जय़ उवाच:
श्रेय़ः स्यान्न तु मौढ्येन राजन्गन्तुं पराभवम् ||
४५ ख
सञ्जय़ उवाच:
वैचित्रवीर्यवचनात्कृपाशीलो युधिष्ठिरः |
४६ क
सञ्जय़ उवाच:
विनिय़ुञ्जीत राज्ये त्वां गोविन्दवचनेन च ||
४६ ख
सञ्जय़ उवाच:
यद्व्रूय़ाद्धि हृषीकेशो राजानमपराजितम् |
४७ क
सञ्जय़ उवाच:
अर्जुनं भीमसेनं च सर्वं कुर्युरसंशय़म् ||
४७ ख
सञ्जय़ उवाच:
नातिक्रमिष्यते कृष्णो वचनं कौरवस्य ह |
४८ क
सञ्जय़ उवाच:
धृतराष्ट्रस्य मन्येऽहं नापि कृष्णस्य पाण्डवः ||
४८ ख
सञ्जय़ उवाच:
एतत्क्षममहं मन्ये तव पार्थैरविग्रहम् |
४९ क