chevron_left वन पर्व अध्याय ३०
युधिष्ठिर उवाच:
क्रोधो हन्ता मनुष्याणां क्रोधो भावय़िता पुनः |
१ क
युधिष्ठिर उवाच:
इति विद्धि महाप्राज्ञे क्रोधमूलौ भवाभवौ ||
१ ख
युधिष्ठिर उवाच:
यो हि संहरते क्रोधं भावस्तस्य सुशोभने |
२ क
युधिष्ठिर उवाच:
यः पुनः पुरुषः क्रोधं नित्यं न सहते शुभे |
२ ख
युधिष्ठिर उवाच:
तस्याभावाय़ भवति क्रोधः परमदारुणः ||
२ ग
युधिष्ठिर उवाच:
क्रोधमूलो विनाशो हि प्रजानामिह दृश्यते |
३ क
युधिष्ठिर उवाच:
तत्कथं मादृशः क्रोधमुत्सृजेल्लोकनाशनम् ||
३ ख
युधिष्ठिर उवाच:
क्रुद्धः पापं नरः कुर्यात्क्रुद्धो हन्याद्गुरूनपि |
४ क
युधिष्ठिर उवाच:
क्रुद्धः परुषय़ा वाचा श्रेय़सोऽप्यवमन्यते ||
४ ख
युधिष्ठिर उवाच:
वाच्यावाच्ये हि कुपितो न प्रजानाति कर्हिचित् |
५ क
युधिष्ठिर उवाच:
नाकार्यमस्ति क्रुद्धस्य नावाच्यं विद्यते तथा ||
५ ख
युधिष्ठिर उवाच:
हिंस्यात्क्रोधादवध्यांश्च वध्यान्सम्पूजय़ेदपि |
६ क
युधिष्ठिर उवाच:
आत्मानमपि च क्रुद्धः प्रेषय़ेद्यमसादनम् ||
६ ख
युधिष्ठिर उवाच:
एतान्दोषान्प्रपश्यद्भिर्जितः क्रोधो मनीषिभिः |
७ क
युधिष्ठिर उवाच:
इच्छद्भिः परमं श्रेय़ इह चामुत्र चोत्तमम् ||
७ ख
युधिष्ठिर उवाच:
तं क्रोधं वर्जितं धीरैः कथमस्मद्विधश्चरेत् |
८ क
युधिष्ठिर उवाच:
एतद्द्रौपदि सन्धाय़ न मे मन्युः प्रवर्धते ||
८ ख
युधिष्ठिर उवाच:
आत्मानं च परं चैव त्राय़ते महतो भय़ात् |
९ क
युधिष्ठिर उवाच:
क्रुध्यन्तमप्रतिक्रुध्यन्द्वय़ोरेष चिकित्सकः ||
९ ख
युधिष्ठिर उवाच:
मूढो यदि क्लिश्यमानः क्रुध्यतेऽशक्तिमान्नरः |
१० क
युधिष्ठिर उवाच:
वलीय़सां मनुष्याणां त्यजत्यात्मानमन्ततः ||
१० ख
युधिष्ठिर उवाच:
तस्यात्मानं सन्त्यजतो लोका नश्यन्त्यनात्मनः |
११ क
युधिष्ठिर उवाच:
तस्माद्द्रौपद्यशक्तस्य मन्योर्निय़मनं स्मृतम् ||
११ ख
युधिष्ठिर उवाच:
विद्वांस्तथैव यः शक्तः क्लिश्यमानो न कुप्यति |
१२ क
युधिष्ठिर उवाच:
स नाशय़ित्वा क्लेष्टारं परलोके च नन्दति ||
१२ ख
युधिष्ठिर उवाच:
तस्माद्वलवता चैव दुर्वलेन च नित्यदा |
१३ क
युधिष्ठिर उवाच:
क्षन्तव्यं पुरुषेणाहुरापत्स्वपि विजानता ||
१३ ख
युधिष्ठिर उवाच:
मन्योर्हि विजय़ं कृष्णे प्रशंसन्तीह साधवः |
१४ क
युधिष्ठिर उवाच:
क्षमावतो जय़ो नित्यं साधोरिह सतां मतम् ||
१४ ख
युधिष्ठिर उवाच:
सत्यं चानृततः श्रेय़ो नृशंसाच्चानृशंसता |
१५ क
युधिष्ठिर उवाच:
तमेवं वहुदोषं तु क्रोधं साधुविवर्जितम् |
१५ ख
युधिष्ठिर उवाच:
मादृशः प्रसृजेत्कस्मात्सुय़ोधनवधादपि ||
१५ ग
युधिष्ठिर उवाच:
तेजस्वीति यमाहुर्वै पण्डिता दीर्घदर्शिनः |
१६ क
युधिष्ठिर उवाच:
न क्रोधोऽभ्यन्तरस्तस्य भवतीति विनिश्चितम् ||
१६ ख
युधिष्ठिर उवाच:
यस्तु क्रोधं समुत्पन्नं प्रज्ञय़ा प्रतिवाधते |
१७ क
युधिष्ठिर उवाच:
तेजस्विनं तं विद्वांसो मन्यन्ते तत्त्वदर्शिनः ||
१७ ख
युधिष्ठिर उवाच:
क्रुद्धो हि कार्यं सुश्रोणि न यथावत्प्रपश्यति |
१८ क
युधिष्ठिर उवाच:
न कार्यं न च मर्यादां नरः क्रुद्धोऽनुपश्यति ||
१८ ख
युधिष्ठिर उवाच:
हन्त्यवध्यानपि क्रुद्धो गुरून्रूक्षैस्तुदत्यपि |
१९ क
युधिष्ठिर उवाच:
तस्मात्तेजसि कर्तव्ये क्रोधो दूरात्प्रतिष्ठितः ||
१९ ख
युधिष्ठिर उवाच:
दाक्ष्यं ह्यमर्षः शौर्यं च शीघ्रत्वमिति तेजसः |
२० क
युधिष्ठिर उवाच:
गुणाः क्रोधाभिभूतेन न शक्याः प्राप्तुमञ्जसा ||
२० ख
युधिष्ठिर उवाच:
क्रोधं त्यक्त्वा तु पुरुषः सम्यक्तेजोऽभिपद्यते |
२१ क
युधिष्ठिर उवाच:
कालय़ुक्तं महाप्राज्ञे क्रुद्धैस्तेजः सुदुःसहम् ||
२१ ख
युधिष्ठिर उवाच:
क्रोधस्त्वपण्डितैः शश्वत्तेज इत्यभिधीय़ते |
२२ क
युधिष्ठिर उवाच:
रजस्तल्लोकनाशाय़ विहितं मानुषान्प्रति ||
२२ ख
युधिष्ठिर उवाच:
तस्माच्छश्वत्त्यजेत्क्रोधं पुरुषः सम्यगाचरन् |
२३ क
युधिष्ठिर उवाच:
श्रेय़ान्स्वधर्मानपगो न क्रुद्ध इति निश्चितम् ||
२३ ख
युधिष्ठिर उवाच:
यदि सर्वमवुद्धीनामतिक्रान्तममेधसाम् |
२४ क
युधिष्ठिर उवाच:
अतिक्रमो मद्विधस्य कथं स्वित्स्यादनिन्दिते ||
२४ ख
युधिष्ठिर उवाच:
यदि न स्युर्मनुष्येषु क्षमिणः पृथिवीसमाः |
२५ क
युधिष्ठिर उवाच:
न स्यात्सन्धिर्मनुष्याणां क्रोधमूलो हि विग्रहः ||
२५ ख
युधिष्ठिर उवाच:
अभिषक्तो ह्यभिषजेदाहन्याद्गुरुणा हतः |
२६ क
युधिष्ठिर उवाच:
एवं विनाशो भूतानामधर्मः प्रथितो भवेत् ||
२६ ख
युधिष्ठिर उवाच:
आक्रुष्टः पुरुषः सर्वः प्रत्याक्रोशेदनन्तरम् |
२७ क
युधिष्ठिर उवाच:
प्रतिहन्याद्धतश्चैव तथा हिंस्याच्च हिंसितः ||
२७ ख
युधिष्ठिर उवाच:
हन्युर्हि पितरः पुत्रान्पुत्राश्चापि तथा पितॄन् |
२८ क
युधिष्ठिर उवाच:
हन्युश्च पतय़ो भार्याः पतीन्भार्यास्तथैव च ||
२८ ख
युधिष्ठिर उवाच:
एवं सङ्कुपिते लोके जन्म कृष्णे न विद्यते |
२९ क
युधिष्ठिर उवाच:
प्रजानां सन्धिमूलं हि जन्म विद्धि शुभानने ||
२९ ख
युधिष्ठिर उवाच:
ताः क्षीय़ेरन्प्रजाः सर्वाः क्षिप्रं द्रौपदि तादृशे |
३० क
युधिष्ठिर उवाच:
तस्मान्मन्युर्विनाशाय़ प्रजानामभवाय़ च ||
३० ख
युधिष्ठिर उवाच:
यस्मात्तु लोके दृश्यन्ते क्षमिणः पृथिवीसमाः |
३१ क
युधिष्ठिर उवाच:
तस्माज्जन्म च भूतानां भवश्च प्रतिपद्यते ||
३१ ख
युधिष्ठिर उवाच:
क्षन्तव्यं पुरुषेणेह सर्वास्वापत्सु शोभने |
३२ क
युधिष्ठिर उवाच:
क्षमा भवो हि भूतानां जन्म चैव प्रकीर्तितम् ||
३२ ख
युधिष्ठिर उवाच:
आक्रुष्टस्ताडितः क्रुद्धः क्षमते यो वलीय़सा |
३३ क
युधिष्ठिर उवाच:
यश्च नित्यं जितक्रोधो विद्वानुत्तमपूरुषः ||
३३ ख
युधिष्ठिर उवाच:
प्रभाववानपि नरस्तस्य लोकाः सनातनाः |
३४ क
युधिष्ठिर उवाच:
क्रोधनस्त्वल्पविज्ञानः प्रेत्य चेह च नश्यति ||
३४ ख
युधिष्ठिर उवाच:
अत्राप्युदाहरन्तीमा गाथा नित्यं क्षमावताम् |
३५ क
युधिष्ठिर उवाच:
गीताः क्षमावता कृष्णे काश्यपेन महात्मना ||
३५ ख
युधिष्ठिर उवाच:
क्षमा धर्मः क्षमा यज्ञः क्षमा वेदाः क्षमा श्रुतम् |
३६ क
युधिष्ठिर उवाच:
यस्तामेवं विजानाति स सर्वं क्षन्तुमर्हति ||
३६ ख
युधिष्ठिर उवाच:
क्षमा व्रह्म क्षमा सत्यं क्षमा भूतं च भावि च |
३७ क
युधिष्ठिर उवाच:
क्षमा तपः क्षमा शौचं क्षमय़ा चोद्धृतं जगत् ||
३७ ख
युधिष्ठिर उवाच:
अति व्रह्मविदां लोकानति चापि तपस्विनाम् |
३८ क
युधिष्ठिर उवाच:
अति यज्ञविदां चैव क्षमिणः प्राप्नुवन्ति तान् ||
३८ ख
युधिष्ठिर उवाच:
क्षमा तेजस्विनां तेजः क्षमा व्रह्म तपस्विनाम् |
३९ क
युधिष्ठिर उवाच:
क्षमा सत्यं सत्यवतां क्षमा दानं क्षमा यशः ||
३९ ख
युधिष्ठिर उवाच:
तां क्षमामीदृशीं कृष्णे कथमस्मद्विधस्त्यजेत् |
४० क
युधिष्ठिर उवाच:
यस्यां व्रह्म च सत्यं च यज्ञा लोकाश्च विष्ठिताः |
४० ख
युधिष्ठिर उवाच:
भुज्यन्ते यज्वनां लोकाः क्षमिणामपरे तथा ||
४० ग
युधिष्ठिर उवाच:
क्षन्तव्यमेव सततं पुरुषेण विजानता |
४१ क
युधिष्ठिर उवाच:
यदा हि क्षमते सर्वं व्रह्म सम्पद्यते तदा ||
४१ ख
युधिष्ठिर उवाच:
क्षमावतामय़ं लोकः परश्चैव क्षमावताम् |
४२ क
युधिष्ठिर उवाच:
इह संमानमृच्छन्ति परत्र च शुभां गतिम् ||
४२ ख
युधिष्ठिर उवाच:
येषां मन्युर्मनुष्याणां क्षमय़ा निहतः सदा |
४३ क
युधिष्ठिर उवाच:
तेषां परतरे लोकास्तस्मात्क्षान्तिः परा मता ||
४३ ख
युधिष्ठिर उवाच:
इति गीताः काश्यपेन गाथा नित्यं क्षमावताम् |
४४ क
युधिष्ठिर उवाच:
श्रुत्वा गाथाः क्षमाय़ास्त्वं तुष्य द्रौपदि मा क्रुधः ||
४४ ख
युधिष्ठिर उवाच:
पितामहः शान्तनवः शमं सम्पूजय़िष्यति |
४५ क
युधिष्ठिर उवाच:
आचार्यो विदुरः क्षत्ता शममेव वदिष्यतः |
४५ ख
युधिष्ठिर उवाच:
कृपश्च सञ्जय़श्चैव शममेव वदिष्यतः ||
४५ ग
युधिष्ठिर उवाच:
सोमदत्तो युय़ुत्सुश्च द्रोणपुत्रस्तथैव च |
४६ क
युधिष्ठिर उवाच:
पितामहश्च नो व्यासः शमं वदति नित्यशः ||
४६ ख
युधिष्ठिर उवाच:
एतैर्हि राजा निय़तं चोद्यमानः शमं प्रति |
४७ क
युधिष्ठिर उवाच:
राज्यं दातेति मे वुद्धिर्न चेल्लोभान्नशिष्यति ||
४७ ख
युधिष्ठिर उवाच:
कालोऽय़ं दारुणः प्राप्तो भरतानामभूतय़े |
४८ क
युधिष्ठिर उवाच:
निश्चितं मे सदैवैतत्पुरस्तादपि भामिनि ||
४८ ख