सञ्जय़ उवाच:
मय़ा हिमवतः शृङ्गमेकेनाध्युषितं चिरम् |
५० क
सञ्जय़ उवाच:
दृष्टाश्च वहवो देशा नानाधर्मसमाकुलाः ||
५० ख
सञ्जय़ उवाच:
न च केन च धर्मेण विरुध्यन्ते प्रजा इमाः |
५१ क
सञ्जय़ उवाच:
सर्वे हि तेऽव्रुवन्धर्मं यथोक्तं वेदपारगैः ||
५१ ख
सञ्जय़ उवाच:
अटता तु सदा देशान्नानाधर्मसमाकुलान् |
५२ क
सञ्जय़ उवाच:
आगच्छता महाराज वाह्लीकेषु निशामितम् ||
५२ ख
सञ्जय़ उवाच:
तत्रैव व्राह्मणो भूत्वा ततो भवति क्षत्रिय़ः |
५३ क
सञ्जय़ उवाच:
वैश्यः शूद्रश्च वाह्लीकस्ततो भवति नापितः ||
५३ ख
सञ्जय़ उवाच:
नापितश्च ततो भूत्वा पुनर्भवति व्राह्मणः |
५४ क
सञ्जय़ उवाच:
द्विजो भूत्वा च तत्रैव पुनर्दासोऽपि जाय़ते ||
५४ ख
सञ्जय़ उवाच:
भवत्येकः कुले विप्रः शिष्टान्ये कामचारिणः |
५५ क
सञ्जय़ उवाच:
गान्धारा मद्रकाश्चैव वाह्लीकाः केऽप्यचेतसः ||
५५ ख
सञ्जय़ उवाच:
एतन्मय़ा श्रुतं तत्र धर्मसङ्करकारकम् |
५६ क
सञ्जय़ उवाच:
कृत्स्नामटित्वा पृथिवीं वाह्लीकेषु विपर्ययः ||
५६ ख
सञ्जय़ उवाच:
उत शल्य विजानीहि हन्त भूय़ो व्रवीमि ते |
५७ क
सञ्जय़ उवाच:
यदप्यन्योऽव्रवीद्वाक्यं वाह्लीकानां विकुत्सितम् ||
५७ ख
सञ्जय़ उवाच:
सती पुरा हृता काचिदारट्टा किल दस्युभिः |
५८ क
सञ्जय़ उवाच:
अधर्मतश्चोपय़ाता सा तानभ्यशपत्ततः ||
५८ ख
सञ्जय़ उवाच:
वालां वन्धुमतीं यन्मामधर्मेणोपगच्छथ |
५९ क
सञ्जय़ उवाच:
तस्मान्नार्यो भविष्यन्ति वन्धक्यो वै कुलेषु वः |
५९ ख
सञ्जय़ उवाच:
न चैवास्मात्प्रमोक्ष्यध्वं घोरात्पापान्नराधमाः ||
५९ ग
सञ्जय़ उवाच:
कुरवः सहपाञ्चालाः शाल्वा मत्स्याः सनैमिषाः |
६० क
सञ्जय़ उवाच:
कोसलाः काशय़ोऽङ्गाश्च कलिङ्गा मगधास्तथा ||
६० ख
सञ्जय़ उवाच:
चेदय़श्च महाभागा धर्मं जानन्ति शाश्वतम् |
६१ क
सञ्जय़ उवाच:
नानादेशेषु सन्तश्च प्राय़ो वाह्या लय़ादृते ||
६१ ख
सञ्जय़ उवाच:
आ मत्स्येभ्यः कुरुपाञ्चालदेश्या; आ नैमिषाच्चेदय़ो ये विशिष्टाः |
६२ क
सञ्जय़ उवाच:
धर्मं पुराणमुपजीवन्ति सन्तो; मद्रानृते पञ्चनदांश्च जिह्मान् ||
६२ ख
सञ्जय़ उवाच:
एवं विद्वन्धर्मकथांश्च राजं; स्तूष्णीम्भूतो जडवच्छल्य भूय़ाः |
६३ क
सञ्जय़ उवाच:
त्वं तस्य गोप्ता च जनस्य राजा; षड्भागहर्ता शुभदुष्कृतस्य ||
६३ ख
सञ्जय़ उवाच:
अथ वा दुष्कृतस्य त्वं हर्ता तेषामरक्षिता |
६४ क
सञ्जय़ उवाच:
रक्षिता पुण्यभाग्राजा प्रजानां त्वं त्वपुण्यभाक् ||
६४ ख
सञ्जय़ उवाच:
पूज्यमाने पुरा धर्मे सर्वदेशेषु शाश्वते |
६५ क
सञ्जय़ उवाच:
धर्मं पाञ्चनदं दृष्ट्वा धिगित्याह पितामहः ||
६५ ख
सञ्जय़ उवाच:
व्रात्यानां दाशमीय़ानां कृतेऽप्यशुभकर्मणाम् |
६६ क
सञ्जय़ उवाच:
इति पाञ्चनदं धर्ममवमेने पितामहः |
६६ ख
सञ्जय़ उवाच:
स्वधर्मस्थेषु वर्णेषु सोऽप्येतं नाभिपूजय़ेत् ||
६६ ग
सञ्जय़ उवाच:
उत शल्य विजानीहि हन्त भूय़ो व्रवीमि ते |
६७ क
सञ्जय़ उवाच:
कल्माषपादः सरसि निमज्जन्राक्षसोऽव्रवीत् ||
६७ ख
सञ्जय़ उवाच:
क्षत्रिय़स्य मलं भैक्षं व्राह्मणस्यानृतं मलम् |
६८ क
सञ्जय़ उवाच:
मलं पृथिव्या वाह्लीकाः स्त्रीणां मद्रस्त्रिय़ो मलम् ||
६८ ख
सञ्जय़ उवाच:
निमज्जमानमुद्धृत्य कश्चिद्राजा निशाचरम् |
६९ क
सञ्जय़ उवाच:
अपृच्छत्तेन चाख्यातं प्रोक्तवान्यन्निवोध तत् ||
६९ ख
सञ्जय़ उवाच:
मानुषाणां मलं म्लेच्छा म्लेच्छानां मौष्टिका मलम् |
७० क
सञ्जय़ उवाच:
मौष्टिकानां मलं शण्डाः शण्डानां राजय़ाजकाः ||
७० ख
सञ्जय़ उवाच:
राजय़ाजकय़ाज्यानां मद्रकाणां च यन्मलम् |
७१ क
सञ्जय़ उवाच:
तद्भवेद्वै तव मलं यद्यस्मान्न विमुञ्चसि ||
७१ ख
सञ्जय़ उवाच:
इति रक्षोपसृष्टेषु विषवीर्यहतेषु च |
७२ क
सञ्जय़ उवाच:
राक्षसं भेषजं प्रोक्तं संसिद्धं वचनोत्तरम् ||
७२ ख
सञ्जय़ उवाच:
व्राह्मं पाञ्चालाः कौरवेय़ाः स्वधर्मः; सत्यं मत्स्याः शूरसेनाश्च यज्ञः |
७३ क
सञ्जय़ उवाच:
प्राच्या दासा वृषला दाक्षिणात्याः; स्तेना वाह्लीकाः सङ्करा वै सुराष्ट्राः ||
७३ ख
सञ्जय़ उवाच:
कृतघ्नता परवित्तापहारः; सुरापानं गुरुदारावमर्शः |
७४ क
सञ्जय़ उवाच:
येषां धर्मस्तान्प्रति नास्त्यधर्म; आरट्टकान्पाञ्चनदान्धिगस्तु ||
७४ ख
सञ्जय़ उवाच:
आ पाञ्चालेभ्यः कुरवो नैमिषाश्च; मत्स्याश्चैवाप्यथ जानन्ति धर्मम् |
७५ क
सञ्जय़ उवाच:
कलिङ्गकाश्चाङ्गका मागधाश्च; शिष्टान्धर्मानुपजीवन्ति वृद्धाः ||
७५ ख
सञ्जय़ उवाच:
प्राचीं दिशं श्रिता देवा जातवेदःपुरोगमाः |
७६ क
सञ्जय़ उवाच:
दक्षिणां पितरो गुप्तां यमेन शुभकर्मणा ||
७६ ख
सञ्जय़ उवाच:
प्रतीचीं वरुणः पाति पालय़न्नसुरान्वली |
७७ क
सञ्जय़ उवाच:
उदीचीं भगवान्सोमो व्रह्मण्यो व्राह्मणैः सह ||
७७ ख
सञ्जय़ उवाच:
रक्षःपिशाचान्हिमवान्गुह्यकान्गन्धमादनः |
७८ क
सञ्जय़ उवाच:
ध्रुवः सर्वाणि भूतानि विष्णुर्लोकाञ्जनार्दनः ||
७८ ख
सञ्जय़ उवाच:
इङ्गितज्ञाश्च मगधाः प्रेक्षितज्ञाश्च कोसलाः |
७९ क
सञ्जय़ उवाच:
अर्धोक्ताः कुरुपाञ्चालाः शाल्वाः कृत्स्नानुशासनाः |
७९ ख
सञ्जय़ उवाच:
पार्वतीय़ाश्च विषमा यथैव गिरय़स्तथा ||
७९ ग
सञ्जय़ उवाच:
सर्वज्ञा यवना राजञ्शूराश्चैव विशेषतः |
८० क
सञ्जय़ उवाच:
म्लेच्छाः स्वसञ्ज्ञानिय़ता नानुक्त इतरो जनः ||
८० ख
सञ्जय़ उवाच:
प्रतिरव्धास्तु वाह्लीका न च केचन मद्रकाः |
८१ क
सञ्जय़ उवाच:
स त्वमेतादृशः शल्य नोत्तरं वक्तुमर्हसि ||
८१ ख
सञ्जय़ उवाच:
एतज्ज्ञात्वा जोषमास्स्व प्रतीपं मा स्म वै कृथाः |
८२ क
सञ्जय़ उवाच:
स त्वां पूर्वमहं हत्वा हनिष्ये केशवार्जुनौ ||
८२ ख
शल्य उवाच:
आतुराणां परित्यागः स्वदारसुतविक्रय़ः |
८३ क
शल्य उवाच:
अङ्गेषु वर्तते कर्ण येषामधिपतिर्भवान् ||
८३ ख
शल्य उवाच:
रथातिरथसङ्ख्याय़ां यत्त्वा भीष्मस्तदाव्रवीत् |
८४ क
शल्य उवाच:
तान्विदित्वात्मनो दोषान्निर्मन्युर्भव मा क्रुधः ||
८४ ख
शल्य उवाच:
सर्वत्र व्राह्मणाः सन्ति सन्ति सर्वत्र क्षत्रिय़ाः |
८५ क
शल्य उवाच:
वैश्याः शूद्रास्तथा कर्ण स्त्रिय़ः साध्व्यश्च सुव्रताः ||
८५ ख
शल्य उवाच:
रमन्ते चोपहासेन पुरुषाः पुरुषैः सह |
८६ क
शल्य उवाच:
अन्योन्यमवतक्षन्तो देशे देशे समैथुनाः ||
८६ ख
शल्य उवाच:
परवाच्येषु निपुणः सर्वो भवति सर्वदा |
८७ क
शल्य उवाच:
आत्मवाच्यं न जानीते जानन्नपि विमुह्यति ||
८७ ख
सञ्जय़ उवाच:
कर्णोऽपि नोत्तरं प्राह शल्योऽप्यभिमुखः परान् |
८८ क
सञ्जय़ उवाच:
पुनः प्रहस्य राधेय़ः पुनर्याहीत्यचोदय़त् ||
८८ ख