गरुड उवाच:
सख्यं मेऽस्तु त्वय़ा देव यथेच्छसि पुरन्दर |
१ क
गरुड उवाच:
वलं तु मम जानीहि महच्चासह्यमेव च ||
१ ख
गरुड उवाच:
कामं नैतत्प्रशंसन्ति सन्तः स्ववलसंस्तवम् |
२ क
गरुड उवाच:
गुणसङ्कीर्तनं चापि स्वय़मेव शतक्रतो ||
२ ख
गरुड उवाच:
सखेति कृत्वा तु सखे पृष्टो वक्ष्याम्यहं त्वय़ा |
३ क
गरुड उवाच:
न ह्यात्मस्तवसंय़ुक्तं वक्तव्यमनिमित्ततः ||
३ ख
गरुड उवाच:
सपर्वतवनामुर्वीं ससागरवनामिमाम् |
४ क
गरुड उवाच:
पक्षनाड्यैकय़ा शक्र त्वां चैवात्रावलम्विनम् ||
४ ख
गरुड उवाच:
सर्वान्सम्पिण्डितान्वापि लोकान्सस्थाणुजङ्गमान् |
५ क
गरुड उवाच:
वहेय़मपरिश्रान्तो विद्धीदं मे महद्वलम् ||
५ ख
सूत उवाच:
इत्युक्तवचनं वीरं किरीटी श्रीमतां वरः |
६ क
सूत उवाच:
आह शौनक देवेन्द्रः सर्वभूतहितः प्रभुः ||
६ ख
सूत उवाच:
प्रतिगृह्यतामिदानीं मे सख्यमानन्त्यमुत्तमम् |
७ क
सूत उवाच:
न कार्यं तव सोमेन मम सोमः प्रदीय़ताम् |
७ ख
सूत उवाच:
अस्मांस्ते हि प्रवाधेय़ुर्येभ्यो दद्याद्भवानिमम् ||
७ ग
गरुड उवाच:
किञ्चित्कारणमुद्दिश्य सोमोऽय़ं नीय़ते मय़ा |
८ क
गरुड उवाच:
न दास्यामि समादातुं सोमं कस्मैचिदप्यहम् ||
८ ख
गरुड उवाच:
यत्रेमं तु सहस्राक्ष निक्षिपेय़महं स्वय़म् |
९ क
गरुड उवाच:
त्वमादाय़ ततस्तूर्णं हरेथास्त्रिदशेश्वर ||
९ ख
शक्र उवाच:
वाक्येनानेन तुष्टोऽहं यत्त्वय़ोक्तमिहाण्डज |
१० क
शक्र उवाच:
यदिच्छसि वरं मत्तस्तद्गृहाण खगोत्तम ||
१० ख
सूत उवाच:
इत्युक्तः प्रत्युवाचेदं कद्रूपुत्राननुस्मरन् |
११ क
सूत उवाच:
स्मृत्वा चैवोपधिकृतं मातुर्दास्यनिमित्ततः ||
११ ख
सूत उवाच:
ईशोऽहमपि सर्वस्य करिष्यामि तु तेऽर्थिताम् |
१२ क
सूत उवाच:
भवेय़ुर्भुजगाः शक्र मम भक्ष्या महावलाः ||
१२ ख
सूत उवाच:
तथेत्युक्त्वान्वगच्छत्तं ततो दानवसूदनः |
१३ क
सूत उवाच:
हरिष्यामि विनिक्षिप्तं सोममित्यनुभाष्य तम् ||
१३ ख
सूत उवाच:
आजगाम ततस्तूर्णं सुपर्णो मातुरन्तिकम् |
१४ क
सूत उवाच:
अथ सर्पानुवाचेदं सर्वान्परमहृष्टवत् ||
१४ ख
सूत उवाच:
इदमानीतममृतं निक्षेप्स्यामि कुशेषु वः |
१५ क
सूत उवाच:
स्नाता मङ्गलसंय़ुक्तास्ततः प्राश्नीत पन्नगाः ||
१५ ख
सूत उवाच:
अदासी चैव मातेय़मद्यप्रभृति चास्तु मे |
१६ क
सूत उवाच:
यथोक्तं भवतामेतद्वचो मे प्रतिपादितम् ||
१६ ख
सूत उवाच:
ततः स्नातुं गताः सर्पाः प्रत्युक्त्वा तं तथेत्युत |
१७ क
सूत उवाच:
शक्रोऽप्यमृतमाक्षिप्य जगाम त्रिदिवं पुनः ||
१७ ख
सूत उवाच:
अथागतास्तमुद्देशं सर्पाः सोमार्थिनस्तदा |
१८ क
सूत उवाच:
स्नाताश्च कृतजप्याश्च प्रहृष्टाः कृतमङ्गलाः ||
१८ ख
सूत उवाच:
तद्विज्ञाय़ हृतं सर्पाः प्रतिमाय़ाकृतं च तत् |
१९ क
सूत उवाच:
सोमस्थानमिदं चेति दर्भांस्ते लिलिहुस्तदा ||
१९ ख
सूत उवाच:
ततो द्वैधीकृता जिह्वा सर्पाणां तेन कर्मणा |
२० क
सूत उवाच:
अभवंश्चामृतस्पर्शाद्दर्भास्तेऽथ पवित्रिणः ||
२० ख
सूत उवाच:
ततः सुपर्णः परमप्रहृष्टवा; न्विहृत्य मात्रा सह तत्र कानने |
२१ क
सूत उवाच:
भुजङ्गभक्षः परमार्चितः खगै; रहीनकीर्तिर्विनतामनन्दय़त् ||
२१ ख
सूत उवाच:
इमां कथां यः शृणुय़ान्नरः सदा; पठेत वा द्विजजनमुख्यसंसदि |
२२ क
सूत उवाच:
असंशय़ं त्रिदिवमिय़ात्स पुण्यभा; ङ्महात्मनः पतगपतेः प्रकीर्तनात् ||
२२ ख