chevron_left शान्ति पर्व अध्याय ३०
युधिष्ठिर उवाच:
स कथं काञ्चनष्ठीवी सृञ्जय़स्य सुतोऽभवत् |
१ क
युधिष्ठिर उवाच:
पर्वतेन किमर्थं च दत्तः केन ममार च ||
१ ख
युधिष्ठिर उवाच:
यदा वर्षसहस्राय़ुस्तदा भवति मानवः |
२ क
युधिष्ठिर उवाच:
कथमप्राप्तकौमारः सृञ्जय़स्य सुतो मृतः ||
२ ख
युधिष्ठिर उवाच:
उताहो नाममात्रं वै सुवर्णष्ठीविनोऽभवत् |
३ क
युधिष्ठिर उवाच:
तथ्यं वा काञ्चनष्ठीवीत्येतदिच्छामि वेदितुम् ||
३ ख
वासुदेव उवाच:
अत्र ते कथय़िष्यामि यथा वृत्तं जनेश्वर |
४ क
वासुदेव उवाच:
नारदः पर्वतश्चैव प्रागृषी लोकपूजितौ ||
४ ख
वासुदेव उवाच:
मातुलो भागिनेय़श्च देवलोकादिहागतौ |
५ क
वासुदेव उवाच:
विहर्तुकामौ सम्प्रीत्या मानुष्येषु पुरा प्रभू ||
५ ख
वासुदेव उवाच:
हविःपवित्रभोज्येन देव भोज्येन चैव ह |
६ क
वासुदेव उवाच:
नारदो मातुलश्चैव भागिनेय़श्च पर्वतः ||
६ ख
वासुदेव उवाच:
तावुभौ तपसोपेताववनीतलचारिणौ |
७ क
वासुदेव उवाच:
भुञ्जानौ मानुषान्भोगान्यथावत्पर्यधावताम् ||
७ ख
वासुदेव उवाच:
प्रीतिमन्तौ मुदा युक्तौ समय़ं तत्र चक्रतुः |
८ क
वासुदेव उवाच:
यो भवेद्धृदि सङ्कल्पः शुभो वा यदि वाशुभः |
८ ख
वासुदेव उवाच:
अन्योन्यस्य स आख्येय़ो मृषा शापोऽन्यथा भवेत् ||
८ ग
वासुदेव उवाच:
तौ तथेति प्रतिज्ञाय़ महर्षी लोकपूजितौ |
९ क
वासुदेव उवाच:
सृञ्जय़ं श्वैत्यमभ्येत्य राजानमिदमूचतुः ||
९ ख
वासुदेव उवाच:
आवां भवति वत्स्यावः कञ्चित्कालं हिताय़ ते |
१० क
वासुदेव उवाच:
यथावत्पृथिवीपाल आवय़ोः प्रगुणीभव |
१० ख
वासुदेव उवाच:
तथेति कृत्वा तौ राजा सत्कृत्योपचचार ह ||
१० ग
वासुदेव उवाच:
ततः कदाचित्तौ राजा महात्मानौ तथागतौ |
११ क
वासुदेव उवाच:
अव्रवीत्परमप्रीतः सुतेय़ं वरवर्णिनी ||
११ ख
वासुदेव उवाच:
एकैव मम कन्यैषा युवां परिचरिष्यति |
१२ क
वासुदेव उवाच:
दर्शनीय़ानवद्याङ्गी शीलवृत्तसमन्विता |
१२ ख
वासुदेव उवाच:
सुकुमारी कुमारी च पद्मकिञ्जल्कसंनिभा ||
१२ ग
वासुदेव उवाच:
परमं सौम्य इत्युक्तस्ताभ्यां राजा शशास ताम् |
१३ क
वासुदेव उवाच:
कन्ये विप्रावुपचर देववत्पितृवच्च ह ||
१३ ख
वासुदेव उवाच:
सा तु कन्या तथेत्युक्त्वा पितरं धर्मचारिणी |
१४ क
वासुदेव उवाच:
यथानिदेशं राज्ञस्तौ सत्कृत्योपचचार ह ||
१४ ख
वासुदेव उवाच:
तस्यास्तथोपचारेण रूपेणाप्रतिमेन च |
१५ क
वासुदेव उवाच:
नारदं हृच्छय़स्तूर्णं सहसैवान्वपद्यत ||
१५ ख
वासुदेव उवाच:
ववृधे च ततस्तस्य हृदि कामो महात्मनः |
१६ क
वासुदेव उवाच:
यथा शुक्लस्य पक्षस्य प्रवृत्तावुडुराट्छनैः ||
१६ ख
वासुदेव उवाच:
न च तं भागिनेय़ाय़ पर्वताय़ महात्मने |
१७ क
वासुदेव उवाच:
शशंस मन्मथं तीव्रं व्रीडमानः स धर्मवित् ||
१७ ख
वासुदेव उवाच:
तपसा चेङ्गितेनाथ पर्वतोऽथ वुवोध तत् |
१८ क
वासुदेव उवाच:
कामार्तं नारदं क्रुद्धः शशापैनं ततो भृशम् ||
१८ ख
वासुदेव उवाच:
कृत्वा समय़मव्यग्रो भवान्वै सहितो मय़ा |
१९ क
वासुदेव उवाच:
यो भवेद्धृदि सङ्कल्पः शुभो वा यदि वाशुभः ||
१९ ख
वासुदेव उवाच:
अन्योन्यस्य स आख्येय़ इति तद्वै मृषा कृतम् |
२० क
वासुदेव उवाच:
भवता वचनं व्रह्मंस्तस्मादेतद्वदाम्यहम् ||
२० ख
वासुदेव उवाच:
न हि कामं प्रवर्तन्तं भवानाचष्ट मे पुरा |
२१ क
वासुदेव उवाच:
सुकुमार्यां कुमार्यां ते तस्मादेष शपाम्यहम् ||
२१ ख
वासुदेव उवाच:
व्रह्मवादी गुरुर्यस्मात्तपस्वी व्राह्मणश्च सन् |
२२ क
वासुदेव उवाच:
अकार्षीः समय़भ्रंशमावाभ्यां यः कृतो मिथः ||
२२ ख
वासुदेव उवाच:
शप्स्ये तस्मात्सुसङ्क्रुद्धो भवन्तं तं निवोध मे |
२३ क
वासुदेव उवाच:
सुकुमारी च ते भार्या भविष्यति न संशय़ः ||
२३ ख
वासुदेव उवाच:
वानरं चैव कन्या त्वां विवाहात्प्रभृति प्रभो |
२४ क
वासुदेव उवाच:
सन्द्रक्ष्यन्ति नराश्चान्ये स्वरूपेण विनाकृतम् ||
२४ ख
वासुदेव उवाच:
स तद्वाक्यं तु विज्ञाय़ नारदः पर्वतात्तदा |
२५ क
वासुदेव उवाच:
अशपत्तमपि क्रोधाद्भागिनेय़ं स मातुलः ||
२५ ख
वासुदेव उवाच:
तपसा व्रह्मचर्येण सत्येन च दमेन च |
२६ क
वासुदेव उवाच:
युक्तोऽपि धर्मनित्यश्च न स्वर्गवासमाप्स्यसि ||
२६ ख
वासुदेव उवाच:
तौ तु शप्त्वा भृशं क्रुद्धौ परस्परममर्षणौ |
२७ क
वासुदेव उवाच:
प्रतिजग्मतुरन्योन्यं क्रुद्धाविव गजोत्तमौ ||
२७ ख
वासुदेव उवाच:
पर्वतः पृथिवीं कृत्स्नां विचचार महामुनिः |
२८ क
वासुदेव उवाच:
पूज्यमानो यथान्याय़ं तेजसा स्वेन भारत ||
२८ ख
वासुदेव उवाच:
अथ तामलभत्कन्यां नारदः सृञ्जय़ात्मजाम् |
२९ क
वासुदेव उवाच:
धर्मेण धर्मप्रवरः सुकुमारीमनिन्दिताम् ||
२९ ख
वासुदेव उवाच:
सा तु कन्या यथाशापं नारदं तं ददर्श ह |
३० क
वासुदेव उवाच:
पाणिग्रहणमन्त्राणां प्रय़ोगादेव वानरम् ||
३० ख
वासुदेव उवाच:
सुकुमारी च देवर्षिं वानरप्रतिमाननम् |
३१ क
वासुदेव उवाच:
नैवावमन्यत तदा प्रीतिमत्येव चाभवत् ||
३१ ख
वासुदेव उवाच:
उपतस्थे च भर्तारं न चान्यं मनसाप्यगात् |
३२ क
वासुदेव उवाच:
देवं मुनिं वा यक्षं वा पतित्वे पतिवत्सला ||
३२ ख
वासुदेव उवाच:
ततः कदाचिद्भगवान्पर्वतोऽनुससार ह |
३३ क
वासुदेव उवाच:
वनं विरहितं किञ्चित्तत्रापश्यत्स नारदम् ||
३३ ख
वासुदेव उवाच:
ततोऽभिवाद्य प्रोवाच नारदं पर्वतस्तदा |
३४ क
वासुदेव उवाच:
भवान्प्रसादं कुरुतां स्वर्गादेशाय़ मे प्रभो ||
३४ ख
वासुदेव उवाच:
तमुवाच ततो दृष्ट्वा पर्वतं नारदस्तदा |
३५ क
वासुदेव उवाच:
कृताञ्जलिमुपासीनं दीनं दीनतरः स्वय़म् ||
३५ ख
वासुदेव उवाच:
त्वय़ाहं प्रथमं शप्तो वानरस्त्वं भविष्यसि |
३६ क
वासुदेव उवाच:
इत्युक्तेन मय़ा पश्चाच्छप्तस्त्वमपि मत्सरात् |
३६ ख
वासुदेव उवाच:
अद्यप्रभृति वै वासं स्वर्गे नावाप्स्यसीति ह ||
३६ ग
वासुदेव उवाच:
तव नैतद्धि सदृशं पुत्रस्थाने हि मे भवान् |
३७ क
वासुदेव उवाच:
निवर्तय़ेतां तौ शापमन्योऽन्येन तदा मुनी ||
३७ ख
वासुदेव उवाच:
श्रीसमृद्धं तदा दृष्ट्वा नारदं देवरूपिणम् |
३८ क
वासुदेव उवाच:
सुकुमारी प्रदुद्राव परपत्यभिशङ्कय़ा ||
३८ ख
वासुदेव उवाच:
तां पर्वतस्ततो दृष्ट्वा प्रद्रवन्तीमनिन्दिताम् |
३९ क
वासुदेव उवाच:
अव्रवीत्तव भर्तैष नात्र कार्या विचारणा ||
३९ ख
वासुदेव उवाच:
ऋषिः परमधर्मात्मा नारदो भगवान्प्रभुः |
४० क
वासुदेव उवाच:
तवैवाभेद्यहृदय़ो मा ते भूदत्र संशय़ः ||
४० ख
वासुदेव उवाच:
सानुनीता वहुविधं पर्वतेन महात्मना |
४१ क
वासुदेव उवाच:
शापदोषं च तं भर्तुः श्रुत्वा स्वां प्रकृतिं गता |
४१ ख
वासुदेव उवाच:
पर्वतोऽथ यय़ौ स्वर्गं नारदोऽथ यय़ौ गृहान् ||
४१ ग
वासुदेव उवाच:
प्रत्यक्षकर्मा सर्वस्य नारदोऽय़ं महानृषिः |
४२ क
वासुदेव उवाच:
एष वक्ष्यति वै पृष्टो यथा वृत्तं नरोत्तम ||
४२ ख