भीष्म उवाच:
एवमुक्तो मतङ्गस्तु भृशं शोकपराय़णः |
१ क
भीष्म उवाच:
अतिष्ठत गय़ां गत्वा सोऽङ्गुष्ठेन शतं समाः ||
१ ख
भीष्म उवाच:
सुदुष्करं वहन्योगं कृशो धमनिसन्ततः |
२ क
भीष्म उवाच:
त्वगस्थिभूतो धर्मात्मा स पपातेति नः श्रुतम् ||
२ ख
भीष्म उवाच:
तं पतन्तमभिद्रुत्य परिजग्राह वासवः |
३ क
भीष्म उवाच:
वराणामीश्वरो दाता सर्वभूतहिते रतः ||
३ ख
शक्र उवाच:
मतङ्ग व्राह्मणत्वं ते संवृतं परिपन्थिभिः |
४ क
शक्र उवाच:
पूजय़न्सुखमाप्नोति दुःखमाप्नोत्यपूजय़न् ||
४ ख
शक्र उवाच:
व्राह्मणे सर्वभूतानां योगक्षेमः समाहितः |
५ क
शक्र उवाच:
व्राह्मणेभ्योऽनुतृप्यन्ति पितरो देवतास्तथा ||
५ ख
शक्र उवाच:
व्राह्मणः सर्वभूतानां मतङ्ग पर उच्यते |
६ क
शक्र उवाच:
व्राह्मणः कुरुते तद्धि यथा यद्यच्च वाञ्छति ||
६ ख
शक्र उवाच:
वह्वीस्तु संसरन्योनीर्जाय़मानः पुनः पुनः |
७ क
शक्र उवाच:
पर्याय़े तात कस्मिंश्चिद्व्राह्मण्यमिह विन्दति ||
७ ख
मतङ्ग उवाच:
किं मां तुदसि दुःखार्तं मृतं मारय़से च माम् |
८ क
मतङ्ग उवाच:
तं तु शोचामि यो लव्ध्वा व्राह्मण्यं न वुभूषते ||
८ ख
मतङ्ग उवाच:
व्राह्मण्यं यदि दुष्प्रापं त्रिभिर्वर्णैः शतक्रतो |
९ क
मतङ्ग उवाच:
सुदुर्लभं तदावाप्य नानुतिष्ठन्ति मानवाः ||
९ ख
मतङ्ग उवाच:
यः पापेभ्यः पापतमस्तेषामधम एव सः |
१० क
मतङ्ग उवाच:
व्राह्मण्यं योऽवजानीते धनं लव्ध्वेव दुर्लभम् ||
१० ख
मतङ्ग उवाच:
दुष्प्रापं खलु विप्रत्वं प्राप्तं दुरनुपालनम् |
११ क
मतङ्ग उवाच:
दुरवापमवाप्यैतन्नानुतिष्ठन्ति मानवाः ||
११ ख
मतङ्ग उवाच:
एकारामो ह्यहं शक्र निर्द्वन्द्वो निष्परिग्रहः |
१२ क
मतङ्ग उवाच:
अहिंसादमदानस्थः कथं नार्हामि विप्रताम् ||
१२ ख
मतङ्ग उवाच:
यथाकामविहारी स्यां कामरूपी विहङ्गमः |
१३ क
मतङ्ग उवाच:
व्रह्मक्षत्राविरोधेन पूजां च प्राप्नुय़ामहम् |
१३ ख
मतङ्ग उवाच:
यथा ममाक्षय़ा कीर्तिर्भवेच्चापि पुरन्दर ||
१३ ग
इन्द्र उवाच:
छन्दोदेव इति ख्यातः स्त्रीणां पूज्यो भविष्यसि |
१४ क
भीष्म उवाच:
एवं तस्मै वरं दत्त्वा वासवोऽन्तरधीय़त |
१५ क
भीष्म उवाच:
प्राणांस्त्यक्त्वा मतङ्गोऽपि प्राप तत्स्थानमुत्तमम् ||
१५ ख
भीष्म उवाच:
एवमेतत्परं स्थानं व्राह्मण्यं नाम भारत |
१६ क
भीष्म उवाच:
तच्च दुष्प्रापमिह वै महेन्द्रवचनं यथा ||
१६ ख