अर्जुन उवाच:
किं तद्व्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम |
१ क
अर्जुन उवाच:
अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते ||
१ ख
अर्जुन उवाच:
अधिय़ज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसूदन |
२ क
अर्जुन उवाच:
प्रय़ाणकाले च कथं ज्ञेय़ोऽसि निय़तात्मभिः ||
२ ख
श्रीभगवानु उवाच:
अक्षरं व्रह्म परमं स्वभावोऽध्यात्ममुच्यते |
३ क
श्रीभगवानु उवाच:
भूतभावोद्भवकरो विसर्गः कर्मसञ्ज्ञितः ||
३ ख
श्रीभगवानु उवाच:
अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् |
४ क
श्रीभगवानु उवाच:
अधिय़ज्ञोऽहमेवात्र देहे देहभृतां वर ||
४ ख
श्रीभगवानु उवाच:
अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम् |
५ क
श्रीभगवानु उवाच:
यः प्रय़ाति स मद्भावं याति नास्त्यत्र संशय़ः ||
५ ख
श्रीभगवानु उवाच:
यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् |
६ क
श्रीभगवानु उवाच:
तं तमेवैति कौन्तेय़ सदा तद्भावभावितः ||
६ ख
श्रीभगवानु उवाच:
तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च |
७ क
श्रीभगवानु उवाच:
मय़्यर्पितमनोवुद्धिर्मामेवैष्यस्यसंशय़ः ||
७ ख
श्रीभगवानु उवाच:
अभ्यासय़ोगय़ुक्तेन चेतसा नान्यगामिना |
८ क
श्रीभगवानु उवाच:
परमं पुरुषं दिव्यं याति पार्थानुचिन्तय़न् ||
८ ख
श्रीभगवानु उवाच:
कविं पुराणमनुशासितार; मणोरणीय़ांसमनुस्मरेद्यः |
९ क
श्रीभगवानु उवाच:
सर्वस्य धातारमचिन्त्यरूप; मादित्यवर्णं तमसः परस्तात् ||
९ ख
श्रीभगवानु उवाच:
प्रय़ाणकाले मनसाचलेन; भक्त्या युक्तो योगवलेन चैव |
१० क
श्रीभगवानु उवाच:
भ्रुवोर्मध्ये प्राणमावेश्य सम्य; क्स तं परं पुरुषमुपैति दिव्यम् ||
१० ख
श्रीभगवानु उवाच:
यदक्षरं वेदविदो वदन्ति; विशन्ति यद्यतय़ो वीतरागाः |
११ क
श्रीभगवानु उवाच:
यदिच्छन्तो व्रह्मचर्यं चरन्ति; तत्ते पदं सङ्ग्रहेण प्रवक्ष्ये ||
११ ख
श्रीभगवानु उवाच:
सर्वद्वाराणि संय़म्य मनो हृदि निरुध्य च |
१२ क
श्रीभगवानु उवाच:
मूर्ध्न्याधाय़ात्मनः प्राणमास्थितो योगधारणाम् ||
१२ ख
श्रीभगवानु उवाच:
ओमित्येकाक्षरं व्रह्म व्याहरन्मामनुस्मरन् |
१३ क
श्रीभगवानु उवाच:
यः प्रय़ाति त्यजन्देहं स याति परमां गतिम् ||
१३ ख
श्रीभगवानु उवाच:
अनन्यचेताः सततं यो मां स्मरति नित्यशः |
१४ क
श्रीभगवानु उवाच:
तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ||
१४ ख
श्रीभगवानु उवाच:
मामुपेत्य पुनर्जन्म दुःखालय़मशाश्वतम् |
१५ क
श्रीभगवानु उवाच:
नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ||
१५ ख
श्रीभगवानु उवाच:
आ व्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन |
१६ क
श्रीभगवानु उवाच:
मामुपेत्य तु कौन्तेय़ पुनर्जन्म न विद्यते ||
१६ ख
श्रीभगवानु उवाच:
सहस्रय़ुगपर्यन्तमहर्यद्व्रह्मणो विदुः |
१७ क
श्रीभगवानु उवाच:
रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः ||
१७ ख
श्रीभगवानु उवाच:
अव्यक्ताद्व्यक्तय़ः सर्वाः प्रभवन्त्यहरागमे |
१८ क
श्रीभगवानु उवाच:
रात्र्यागमे प्रलीय़न्ते तत्रैवाव्यक्तसञ्ज्ञके ||
१८ ख
श्रीभगवानु उवाच:
भूतग्रामः स एवाय़ं भूत्वा भूत्वा प्रलीय़ते |
१९ क
श्रीभगवानु उवाच:
रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे ||
१९ ख
श्रीभगवानु उवाच:
परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातनः |
२० क
श्रीभगवानु उवाच:
यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ||
२० ख
श्रीभगवानु उवाच:
अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम् |
२१ क
श्रीभगवानु उवाच:
यं प्राप्य न निवर्तन्ते तद्धाम परमं मम ||
२१ ख
श्रीभगवानु उवाच:
पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया |
२२ क
श्रीभगवानु उवाच:
यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम् ||
२२ ख
श्रीभगवानु उवाच:
यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः |
२३ क
श्रीभगवानु उवाच:
प्रय़ाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ||
२३ ख
श्रीभगवानु उवाच:
अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तराय़णम् |
२४ क
श्रीभगवानु उवाच:
तत्र प्रय़ाता गच्छन्ति व्रह्म व्रह्मविदो जनाः ||
२४ ख
श्रीभगवानु उवाच:
धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणाय़नम् |
२५ क
श्रीभगवानु उवाच:
तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ||
२५ ख
श्रीभगवानु उवाच:
शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते |
२६ क
श्रीभगवानु उवाच:
एकय़ा यात्यनावृत्तिमन्ययावर्तते पुनः ||
२६ ख
श्रीभगवानु उवाच:
नैते सृती पार्थ जानन्योगी मुह्यति कश्चन |
२७ क
श्रीभगवानु उवाच:
तस्मात्सर्वेषु कालेषु योगय़ुक्तो भवार्जुन ||
२७ ख
श्रीभगवानु उवाच:
वेदेषु यज्ञेषु तपःसु चैव; दानेषु यत्पुण्यफलं प्रदिष्टम् |
२८ क
श्रीभगवानु उवाच:
अत्येति तत्सर्वमिदं विदित्वा; योगी परं स्थानमुपैति चाद्यम् ||
२८ ख