chevron_left द्रोण पर्व अध्याय ३०
धृतराष्ट्र उवाच:
तेष्वनीकेषु भग्नेषु पाण्डुपुत्रेण सञ्जय़ |
१ क
धृतराष्ट्र उवाच:
चलितानां द्रुतानां च कथमासीन्मनो हि वः ||
१ ख
धृतराष्ट्र उवाच:
अनीकानां प्रभग्नानां व्यवस्थानमपश्यताम् |
२ क
धृतराष्ट्र उवाच:
दुष्करं प्रतिसन्धानं तन्ममाचक्ष्व सञ्जय़ ||
२ ख
सञ्जय़ उवाच:
तथापि तव पुत्रस्य प्रिय़कामा विशां पते |
३ क
सञ्जय़ उवाच:
यशः प्रवीरा लोकेषु रक्षन्तो द्रोणमन्वय़ुः ||
३ ख
सञ्जय़ उवाच:
समुद्यतेषु शस्त्रेषु सम्प्राप्ते च युधिष्ठिरे |
४ क
सञ्जय़ उवाच:
अकुर्वन्नार्यकर्माणि भैरवे सत्यभीतवत् ||
४ ख
सञ्जय़ उवाच:
अन्तरं भीमसेनस्य प्रापतन्नमितौजसः |
५ क
सञ्जय़ उवाच:
सात्यकेश्चैव शूरस्य धृष्टद्युम्नस्य चाभिभो ||
५ ख
सञ्जय़ उवाच:
द्रोणं द्रोणमिति क्रूराः पाञ्चालाः समचोदय़न् |
६ क
सञ्जय़ उवाच:
मा द्रोणमिति पुत्रास्ते कुरून्सर्वानचोदय़न् ||
६ ख
सञ्जय़ उवाच:
द्रोणं द्रोणमिति ह्येके मा द्रोणमिति चापरे |
७ क
सञ्जय़ उवाच:
कुरूणां पाण्डवानां च द्रोणद्यूतमवर्तत ||
७ ख
सञ्जय़ उवाच:
यं यं स्म भजते द्रोणः पाञ्चालानां रथव्रजम् |
८ क
सञ्जय़ उवाच:
तत्र तत्र स्म पाञ्चाल्यो धृष्टद्युम्नोऽथ धीय़ते ||
८ ख
सञ्जय़ उवाच:
यथाभागविपर्यासे सङ्ग्रामे भैरवे सति |
९ क
सञ्जय़ उवाच:
वीराः समासदन्वीरानगच्छन्भीरवः परान् ||
९ ख
सञ्जय़ उवाच:
अकम्पनीय़ाः शत्रूणां वभूवुस्तत्र पाण्डवाः |
१० क
सञ्जय़ उवाच:
अकम्पय़ंस्त्वनीकानि स्मरन्तः क्लेशमात्मनः ||
१० ख
सञ्जय़ उवाच:
ते त्वमर्षवशं प्राप्ता ह्रीमन्तः सत्त्वचोदिताः |
११ क
सञ्जय़ उवाच:
त्यक्त्वा प्राणान्न्यवर्तन्त घ्नन्तो द्रोणं महाहवे ||
११ ख
सञ्जय़ उवाच:
अय़सामिव सम्पातः शिलानामिव चाभवत् |
१२ क
सञ्जय़ उवाच:
दीव्यतां तुमुले युद्धे प्राणैरमिततेजसाम् ||
१२ ख
सञ्जय़ उवाच:
न तु स्मरन्ति सङ्ग्राममपि वृद्धास्तथाविधम् |
१३ क
सञ्जय़ उवाच:
दृष्टपूर्वं महाराज श्रुतपूर्वमथापि वा ||
१३ ख
सञ्जय़ उवाच:
प्राकम्पतेव पृथिवी तस्मिन्वीरावसादने |
१४ क
सञ्जय़ उवाच:
प्रवर्तता वलौघेन महता भारपीडिता ||
१४ ख
सञ्जय़ उवाच:
घूर्णतो हि वलौघस्य दिवं स्तव्ध्वेव निस्वनः |
१५ क
सञ्जय़ उवाच:
अजातशत्रोः क्रुद्धस्य पुत्रस्य तव चाभवत् ||
१५ ख
सञ्जय़ उवाच:
समासाद्य तु पाण्डूनामनीकानि सहस्रशः |
१६ क
सञ्जय़ उवाच:
द्रोणेन चरता सङ्ख्ये प्रभग्नानि शितैः शरैः ||
१६ ख
सञ्जय़ उवाच:
तेषु प्रमथ्यमानेषु द्रोणेनाद्भुतकर्मणा |
१७ क
सञ्जय़ उवाच:
पर्यवारय़दासाद्य द्रोणं सेनापतिः स्वय़म् ||
१७ ख
सञ्जय़ उवाच:
तदद्भुतमभूद्युद्धं द्रोणपाञ्चाल्ययोस्तदा |
१८ क
सञ्जय़ उवाच:
नैव तस्योपमा काचित्सम्भवेदिति मे मतिः ||
१८ ख
सञ्जय़ उवाच:
ततो नीलोऽनलप्रख्यो ददाह कुरुवाहिनीम् |
१९ क
सञ्जय़ उवाच:
शरस्फुलिङ्गश्चापार्चिर्दहन्कक्षमिवानलः ||
१९ ख
सञ्जय़ उवाच:
तं दहन्तमनीकानि द्रोणपुत्रः प्रतापवान् |
२० क
सञ्जय़ उवाच:
पूर्वाभिभाषी सुश्लक्ष्णं स्मय़मानोऽभ्यभाषत ||
२० ख
सञ्जय़ उवाच:
नील किं वहुभिर्दग्धैस्तव योधैः शरार्चिषा |
२१ क
सञ्जय़ उवाच:
मय़ैकेन हि युध्यस्व क्रुद्धः प्रहर चाशुगैः ||
२१ ख
सञ्जय़ उवाच:
तं पद्मनिकराकारं पद्मपत्रनिभेक्षणम् |
२२ क
सञ्जय़ उवाच:
व्याकोशपद्माभमुखं नीलो विव्याध साय़कैः ||
२२ ख
सञ्जय़ उवाच:
तेनातिविद्धः सहसा द्रौणिर्भल्लैः शितैस्त्रिभिः |
२३ क
सञ्जय़ उवाच:
धनुर्ध्वजं च छत्रं च द्विषतः स न्यकृन्तत ||
२३ ख
सञ्जय़ उवाच:
सोत्प्लुत्य स्यन्दनात्तस्मान्नीलश्चर्मवरासिधृक् |
२४ क
सञ्जय़ उवाच:
द्रोणाय़नेः शिरः काय़ाद्धर्तुमैच्छत्पतत्रिवत् ||
२४ ख
सञ्जय़ उवाच:
तस्योद्यतासेः सुनसं शिरः काय़ात्सकुण्डलम् |
२५ क
सञ्जय़ उवाच:
भल्लेनापाहरद्द्रौणिः स्मय़मान इवानघ ||
२५ ख
सञ्जय़ उवाच:
सम्पूर्णचन्द्राभमुखः पद्मपत्रनिभेक्षणः |
२६ क
सञ्जय़ उवाच:
प्रांशुरुत्पलगर्भाभो निहतो न्यपतत्क्षितौ ||
२६ ख
सञ्जय़ उवाच:
ततः प्रविव्यथे सेना पाण्डवी भृशमाकुला |
२७ क
सञ्जय़ उवाच:
आचार्यपुत्रेण हते नीले ज्वलिततेजसि ||
२७ ख
सञ्जय़ उवाच:
अचिन्तय़ंश्च ते सर्वे पाण्डवानां महारथाः |
२८ क
सञ्जय़ उवाच:
कथं नो वासविस्त्राय़ाच्छत्रुभ्य इति मारिष ||
२८ ख
सञ्जय़ उवाच:
दक्षिणेन तु सेनाय़ाः कुरुते कदनं वली |
२९ क
सञ्जय़ उवाच:
संशप्तकावशेषस्य नाराय़णवलस्य च ||
२९ ख