सञ्जय़ उवाच:
ततः पुनर्महाराज मद्रराजमरिन्दमम् |
१ क
सञ्जय़ उवाच:
अभ्यभाषत राधेय़ः संनिवार्योत्तरं वचः ||
१ ख
सञ्जय़ उवाच:
यत्त्वं निदर्शनार्थं मां शल्य जल्पितवानसि |
२ क
सञ्जय़ उवाच:
नाहं शक्यस्त्वय़ा वाचा विभीषय़ितुमाहवे ||
२ ख
सञ्जय़ उवाच:
यदि मां देवताः सर्वा योधय़ेय़ुः सवासवाः |
३ क
सञ्जय़ उवाच:
तथापि मे भय़ं न स्यात्किमु पार्थात्सकेशवात् ||
३ ख
सञ्जय़ उवाच:
नाहं भीषय़ितुं शक्यो वाङ्मात्रेण कथञ्चन |
४ क
सञ्जय़ उवाच:
अन्यं जानीहि यः शक्यस्त्वय़ा भीषय़ितुं रणे ||
४ ख
सञ्जय़ उवाच:
नीचस्य वलमेतावत्पारुष्यं यत्त्वमात्थ माम् |
५ क
सञ्जय़ उवाच:
अशक्तोऽस्मद्गुणान्प्राप्तुं वल्गसे वहु दुर्मते ||
५ ख
सञ्जय़ उवाच:
न हि कर्णः समुद्भूतो भय़ार्थमिह मारिष |
६ क
सञ्जय़ उवाच:
विक्रमार्थमहं जातो यशोर्थं च तथैव च ||
६ ख
सञ्जय़ उवाच:
इदं तु मे त्वमेकाग्रः शृणु मद्रजनाधिप |
७ क
सञ्जय़ उवाच:
संनिधौ धृतराष्ट्रस्य प्रोच्यमानं मय़ा श्रुतम् ||
७ ख
सञ्जय़ उवाच:
देशांश्च विविधांश्चित्रान्पूर्ववृत्तांश्च पार्थिवान् |
८ क
सञ्जय़ उवाच:
व्राह्मणाः कथय़न्तः स्म धृतराष्ट्रमुपासते ||
८ ख
सञ्जय़ उवाच:
तत्र वृद्धः पुरावृत्ताः कथाः काश्चिद्द्विजोत्तमः |
९ क
सञ्जय़ उवाच:
वाह्लीकदेशं मद्रांश्च कुत्सय़न्वाक्यमव्रवीत् ||
९ ख
सञ्जय़ उवाच:
वहिष्कृता हिमवता गङ्गय़ा च तिरस्कृताः |
१० क
सञ्जय़ उवाच:
सरस्वत्या यमुनय़ा कुरुक्षेत्रेण चापि ये ||
१० ख
सञ्जय़ उवाच:
पञ्चानां सिन्धुषष्ठानां नदीनां येऽन्तराश्रिताः |
११ क
सञ्जय़ उवाच:
तान्धर्मवाह्यानशुचीन्वाह्लीकान्परिवर्जय़ेत् ||
११ ख
सञ्जय़ उवाच:
गोवर्धनो नाम वटः सुभाण्डं नाम चत्वरम् |
१२ क
सञ्जय़ उवाच:
एतद्राजकुलद्वारमाकुमारः स्मराम्यहम् ||
१२ ख
सञ्जय़ उवाच:
कार्येणात्यर्थगाढेन वाह्लीकेषूषितं मय़ा |
१३ क
सञ्जय़ उवाच:
तत एषां समाचारः संवासाद्विदितो मम ||
१३ ख
सञ्जय़ उवाच:
शाकलं नाम नगरमापगा नाम निम्नगा |
१४ क
सञ्जय़ उवाच:
जर्तिका नाम वाह्लीकास्तेषां वृत्तं सुनिन्दितम् ||
१४ ख
सञ्जय़ उवाच:
धानागौडासवे पीत्वा गोमांसं लशुनैः सह |
१५ क
सञ्जय़ उवाच:
अपूपमांसवाट्यानामाशिनः शीलवर्जिताः ||
१५ ख
सञ्जय़ उवाच:
हसन्ति गान्ति नृत्यन्ति स्त्रीभिर्मत्ता विवाससः |
१६ क
सञ्जय़ उवाच:
नगरागारवप्रेषु वहिर्माल्यानुलेपनाः ||
१६ ख
सञ्जय़ उवाच:
मत्तावगीतैर्विविधैः खरोष्ट्रनिनदोपमैः |
१७ क
सञ्जय़ उवाच:
आहुरन्योन्यमुक्तानि प्रव्रुवाणा मदोत्कटाः ||
१७ ख
सञ्जय़ उवाच:
हा हते हा हतेत्येव स्वामिभर्तृहतेति च |
१८ क
सञ्जय़ उवाच:
आक्रोशन्त्यः प्रनृत्यन्ति मन्दाः पर्वस्वसंय़ताः ||
१८ ख
सञ्जय़ उवाच:
तेषां किलावलिप्तानां निवसन्कुरुजाङ्गले |
१९ क
सञ्जय़ उवाच:
कश्चिद्वाह्लीकमुख्यानां नातिहृष्टमना जगौ ||
१९ ख
सञ्जय़ उवाच:
सा नूनं वृहती गौरी सूक्ष्मकम्वलवासिनी |
२० क
सञ्जय़ उवाच:
मामनुस्मरती शेते वाह्लीकं कुरुवासिनम् ||
२० ख
सञ्जय़ उवाच:
शतद्रुकनदीं तीर्त्वा तां च रम्यामिरावतीम् |
२१ क
सञ्जय़ उवाच:
गत्वा स्वदेशं द्रक्ष्यामि स्थूलशङ्खाः शुभाः स्त्रिय़ः ||
२१ ख
सञ्जय़ उवाच:
मनःशिलोज्ज्वलापाङ्गा गौर्यस्त्रिककुदाञ्जनाः |
२२ क
सञ्जय़ उवाच:
केवलाजिनसंवीताः कूर्दन्त्यः प्रिय़दर्शनाः ||
२२ ख
सञ्जय़ उवाच:
मृदङ्गानकशङ्खानां मर्दलानां च निस्वनैः |
२३ क
सञ्जय़ उवाच:
खरोष्ट्राश्वतरैश्चैव मत्ता यास्यामहे सुखम् ||
२३ ख
सञ्जय़ उवाच:
शमीपीलुकरीराणां वनेषु सुखवर्त्मसु |
२४ क
सञ्जय़ उवाच:
अपूपान्सक्तुपिण्डीश्च खादन्तो मथितान्विताः ||
२४ ख
सञ्जय़ उवाच:
पथिषु प्रवला भूत्वा कदासमृदितेऽध्वनि |
२५ क
सञ्जय़ उवाच:
खलोपहारं कुर्वाणास्ताडय़िष्याम भूय़सः ||
२५ ख
सञ्जय़ उवाच:
एवं हीनेषु व्रात्येषु वाह्लीकेषु दुरात्मसु |
२६ क
सञ्जय़ उवाच:
कश्चेतय़ानो निवसेन्मुहूर्तमपि मानवः ||
२६ ख
सञ्जय़ उवाच:
ईदृशा व्राह्मणेनोक्ता वाह्लीका मोघचारिणः |
२७ क
सञ्जय़ उवाच:
येषां षड्भागहर्ता त्वमुभय़ोः शुभपापय़ोः ||
२७ ख
सञ्जय़ उवाच:
इत्युक्त्वा व्राह्मणः साधुरुत्तरं पुनरुक्तवान् |
२८ क
सञ्जय़ उवाच:
वाह्लीकेष्वविनीतेषु प्रोच्यमानं निवोधत ||
२८ ख
सञ्जय़ उवाच:
तत्र स्म राक्षसी गाति सदा कृष्णचतुर्दशीम् |
२९ क
सञ्जय़ उवाच:
नगरे शाकले स्फीते आहत्य निशि दुन्दुभिम् ||
२९ ख
सञ्जय़ उवाच:
कदा वा घोषिका गाथाः पुनर्गास्यन्ति शाकले |
३० क
सञ्जय़ उवाच:
गव्यस्य तृप्ता मांसस्य पीत्वा गौडं महासवम् ||
३० ख
सञ्जय़ उवाच:
गौरीभिः सह नारीभिर्वृहतीभिः स्वलङ्कृताः |
३१ क
सञ्जय़ उवाच:
पलाण्डुगण्डूषय़ुतान्खादन्ते चैडकान्वहून् ||
३१ ख
सञ्जय़ उवाच:
वाराहं कौक्कुटं मांसं गव्यं गार्दभमौष्ट्रकम् |
३२ क
सञ्जय़ उवाच:
ऐडं च ये न खादन्ति तेषां जन्म निरर्थकम् ||
३२ ख
सञ्जय़ उवाच:
इति गाय़न्ति ये मत्ताः शीधुना शाकलावतः |
३३ क
सञ्जय़ उवाच:
सवालवृद्धाः कूर्दन्तस्तेषु वृत्तं कथं भवेत् ||
३३ ख
सञ्जय़ उवाच:
इति शल्य विजानीहि हन्त भूय़ो व्रवीमि ते |
३४ क
सञ्जय़ उवाच:
यदन्योऽप्युक्तवानस्मान्व्राह्मणः कुरुसंसदि ||
३४ ख
सञ्जय़ उवाच:
पञ्च नद्यो वहन्त्येता यत्र पीलुवनान्यपि |
३५ क
सञ्जय़ उवाच:
शतद्रुश्च विपाशा च तृतीय़ेरावती तथा |
३५ ख
सञ्जय़ उवाच:
चन्द्रभागा वितस्ता च सिन्धुषष्ठा वहिर्गताः ||
३५ ग
सञ्जय़ उवाच:
आरट्टा नाम ते देशा नष्टधर्मान्न तान्व्रजेत् |
३६ क
सञ्जय़ उवाच:
व्रात्यानां दासमीय़ानां विदेहानामय़ज्वनाम् ||
३६ ख
सञ्जय़ उवाच:
न देवाः प्रतिगृह्णन्ति पितरो व्राह्मणास्तथा |
३७ क
सञ्जय़ उवाच:
तेषां प्रनष्टधर्माणां वाह्लीकानामिति श्रुतिः ||
३७ ख
सञ्जय़ उवाच:
व्राह्मणेन तथा प्रोक्तं विदुषा साधुसंसदि |
३८ क
सञ्जय़ उवाच:
काष्ठकुण्डेषु वाह्लीका मृण्मय़ेषु च भुञ्जते |
३८ ख
सञ्जय़ उवाच:
सक्तुवाट्यावलिप्तेषु श्वादिलीढेषु निर्घृणाः ||
३८ ग
सञ्जय़ उवाच:
आविकं चौष्ट्रिकं चैव क्षीरं गार्दभमेव च |
३९ क
सञ्जय़ उवाच:
तद्विकारांश्च वाह्लीकाः खादन्ति च पिवन्ति च ||
३९ ख
सञ्जय़ उवाच:
पुत्रसङ्करिणो जाल्माः सर्वान्नक्षीरभोजनाः |
४० क
सञ्जय़ उवाच:
आरट्टा नाम वाह्लीका वर्जनीय़ा विपश्चिता ||
४० ख
सञ्जय़ उवाच:
उत शल्य विजानीहि हन्त भूय़ो व्रवीमि ते |
४१ क
सञ्जय़ उवाच:
यदन्योऽप्युक्तवान्सभ्यो व्राह्मणः कुरुसंसदि ||
४१ ख
सञ्जय़ उवाच:
युगन्धरे पय़ः पीत्वा प्रोष्य चाप्यच्युतस्थले |
४२ क
सञ्जय़ उवाच:
तद्वद्भूतिलय़े स्नात्वा कथं स्वर्गं गमिष्यति ||
४२ ख
सञ्जय़ उवाच:
पञ्च नद्यो वहन्त्येता यत्र निःसृत्य पर्वतात् |
४३ क
सञ्जय़ उवाच:
आरट्टा नाम वाह्लीका न तेष्वार्यो द्व्यहं वसेत् ||
४३ ख
सञ्जय़ उवाच:
वहिश्च नाम ह्लीकश्च विपाशाय़ां पिशाचकौ |
४४ क
सञ्जय़ उवाच:
तय़ोरपत्यं वाह्लीका नैषा सृष्टिः प्रजापतेः ||
४४ ख
सञ्जय़ उवाच:
कारस्करान्महिषकान्कलिङ्गान्कीकटाटवीन् |
४५ क
सञ्जय़ उवाच:
कर्कोटकान्वीरकांश्च दुर्धर्मांश्च विवर्जय़ेत् ||
४५ ख
सञ्जय़ उवाच:
इति तीर्थानुसर्तारं राक्षसी काचिदव्रवीत् |
४६ क
सञ्जय़ उवाच:
एकरात्रा शमीगेहे महोलूखलमेखला ||
४६ ख
सञ्जय़ उवाच:
आरट्टा नाम ते देशा वाह्लीका नाम ते जनाः |
४७ क
सञ्जय़ उवाच:
वसातिसिन्धुसौवीरा इति प्राय़ो विकुत्सिताः ||
४७ ख
सञ्जय़ उवाच:
उत शल्य विजानीहि हन्त भूय़ो व्रवीमि ते |
४८ क
सञ्जय़ उवाच:
उच्यमानं मय़ा सम्यक्तदेकाग्रमनाः शृणु ||
४८ ख
सञ्जय़ उवाच:
व्राह्मणः शिल्पिनो गेहमभ्यगच्छत्पुरातिथिः |
४९ क
सञ्जय़ उवाच:
आचारं तत्र सम्प्रेक्ष्य प्रीतः शिल्पिनमव्रवीत् ||
४९ ख