chevron_left शान्ति पर्व अध्याय ३००
याज्ञवल्क्य उवाच:
तत्त्वानां सर्गसङ्ख्या च कालसङ्ख्या तथैव च |
१ क
याज्ञवल्क्य उवाच:
मय़ा प्रोक्तानुपूर्व्येण संहारमपि मे शृणु ||
१ ख
याज्ञवल्क्य उवाच:
यथा संहरते जन्तून्ससर्ज च पुनः पुनः |
२ क
याज्ञवल्क्य उवाच:
अनादिनिधनो व्रह्मा नित्यश्चाक्षर एव च ||
२ ख
याज्ञवल्क्य उवाच:
अहःक्षय़मथो वुद्ध्वा निशि स्वप्नमनास्तथा |
३ क
याज्ञवल्क्य उवाच:
चोदय़ामास भगवानव्यक्तोऽहङ्कृतं नरम् ||
३ ख
याज्ञवल्क्य उवाच:
ततः शतसहस्रांशुरव्यक्तेनाभिचोदितः |
४ क
याज्ञवल्क्य उवाच:
कृत्वा द्वादशधात्मानमादित्यो ज्वलदग्निवत् ||
४ ख
याज्ञवल्क्य उवाच:
चतुर्विधं प्रजाजालं निर्दहत्याशु तेजसा |
५ क
याज्ञवल्क्य उवाच:
जराय़्वण्डस्वेदजातमुद्भिज्जं च नराधिप ||
५ ख
याज्ञवल्क्य उवाच:
एतदुन्मेषमात्रेण विनिष्टं स्थाणुजङ्गमम् |
६ क
याज्ञवल्क्य उवाच:
कूर्मपृष्ठसमा भूमिर्भवत्यथ समन्ततः ||
६ ख
याज्ञवल्क्य उवाच:
जगद्दग्ध्वामितवलः केवलं जगतीं ततः |
७ क
याज्ञवल्क्य उवाच:
अम्भसा वलिना क्षिप्रमापूर्यत समन्ततः ||
७ ख
याज्ञवल्क्य उवाच:
ततः कालाग्निमासाद्य तदम्भो याति सङ्क्षय़म् |
८ क
याज्ञवल्क्य उवाच:
विनष्टेऽम्भसि राजेन्द्र जाज्वलीत्यनलो महान् ||
८ ख
याज्ञवल्क्य उवाच:
तमप्रमेय़ोऽतिवलं ज्वलमानं विभावसुम् |
९ क
याज्ञवल्क्य उवाच:
ऊष्माणं सर्वभूतानां सप्तार्चिषमथाञ्जसा ||
९ ख
याज्ञवल्क्य उवाच:
भक्षय़ामास वलवान्वाय़ुरष्टात्मको वली |
१० क
याज्ञवल्क्य उवाच:
विचरन्नमितप्राणस्तिर्यगूर्ध्वमधस्तथा ||
१० ख
याज्ञवल्क्य उवाच:
तमप्रतिवलं भीममाकाशं ग्रसतेऽऽत्मना |
११ क
याज्ञवल्क्य उवाच:
आकाशमप्यतिनदन्मनो ग्रसति चारिकम् ||
११ ख
याज्ञवल्क्य उवाच:
मनो ग्रसति सर्वात्मा सोऽहङ्कारः प्रजापतिः |
१२ क
याज्ञवल्क्य उवाच:
अहङ्कारं महानात्मा भूतभव्यभविष्यवित् ||
१२ ख
याज्ञवल्क्य उवाच:
तमप्यनुपमात्मानं विश्वं शम्भुः प्रजापतिः |
१३ क
याज्ञवल्क्य उवाच:
अणिमा लघिमा प्राप्तिरीशानो ज्योतिरव्ययः ||
१३ ख
याज्ञवल्क्य उवाच:
सर्वतःपाणिपादान्तः सर्वतोक्षिशिरोमुखः |
१४ क
याज्ञवल्क्य उवाच:
सर्वतःश्रुतिमाँल्लोके सर्वमावृत्य तिष्ठति ||
१४ ख
याज्ञवल्क्य उवाच:
हृदय़ं सर्वभूतानां पर्वणोऽङ्गुष्ठमात्रकः |
१५ क
याज्ञवल्क्य उवाच:
अनुग्रसत्यनन्तं हि महात्मा विश्वमीश्वरः ||
१५ ख
याज्ञवल्क्य उवाच:
ततः समभवत्सर्वमक्षय़ाव्ययमव्रणम् |
१६ क
याज्ञवल्क्य उवाच:
भूतभव्यमनुष्याणां स्रष्टारमनघं तथा ||
१६ ख
याज्ञवल्क्य उवाच:
एषोऽप्ययस्ते राजेन्द्र यथावत्परिभाषितः |
१७ क
याज्ञवल्क्य उवाच:
अध्यात्ममधिभूतं च अधिदैवं च श्रूय़ताम् ||
१७ ख