याज्ञवल्क्य उवाच:
एते प्रधानस्य गुणास्त्रय़ः पुरुषसत्तम |
१ क
याज्ञवल्क्य उवाच:
कृत्स्नस्य चैव जगतस्तिष्ठन्त्यनपगाः सदा ||
१ ख
याज्ञवल्क्य उवाच:
शतधा सहस्रधा चैव तथा शतसहस्रधा |
२ क
याज्ञवल्क्य उवाच:
कोटिशश्च करोत्येष प्रत्यगात्मानमात्मना ||
२ ख
याज्ञवल्क्य उवाच:
सात्त्विकस्योत्तमं स्थानं राजसस्येह मध्यमम् |
३ क
याज्ञवल्क्य उवाच:
तामसस्याधमं स्थानं प्राहुरध्यात्मचिन्तकाः ||
३ ख
याज्ञवल्क्य उवाच:
केवलेनेह पुण्येन गतिमूर्ध्वामवाप्नुय़ात् |
४ क
याज्ञवल्क्य उवाच:
पुण्यपापेन मानुष्यमधर्मेणाप्यधोगतिम् ||
४ ख
याज्ञवल्क्य उवाच:
द्वन्द्वमेषां त्रय़ाणां तु संनिपातं च तत्त्वतः |
५ क
याज्ञवल्क्य उवाच:
सत्त्वस्य रजसश्चैव तमसश्च शृणुष्व मे ||
५ ख
याज्ञवल्क्य उवाच:
सत्त्वस्य तु रजो दृष्टं रजसश्च तमस्तथा |
६ क
याज्ञवल्क्य उवाच:
तमसश्च तथा सत्त्वं सत्त्वस्याव्यक्तमेव च ||
६ ख
याज्ञवल्क्य उवाच:
अव्यक्तसत्त्वसंय़ुक्तो देवलोकमवाप्नुय़ात् |
७ क
याज्ञवल्क्य उवाच:
रजःसत्त्वसमाय़ुक्तो मनुष्येषूपपद्यते ||
७ ख
याज्ञवल्क्य उवाच:
रजस्तमोभ्यां संय़ुक्तस्तिर्यग्योनिषु जाय़ते |
८ क
याज्ञवल्क्य उवाच:
रजस्तामससत्त्वैश्च युक्तो मानुष्यमाप्नुय़ात् ||
८ ख
याज्ञवल्क्य उवाच:
पुण्यपापविय़ुक्तानां स्थानमाहुर्मनीषिणाम् |
९ क
याज्ञवल्क्य उवाच:
शास्वतं चाव्ययं चैव अक्षरं चाभय़ं च यत् ||
९ ख
याज्ञवल्क्य उवाच:
ज्ञानिनां सम्भवं श्रेष्ठं स्थानमव्रणमच्युतम् |
१० क
याज्ञवल्क्य उवाच:
अतीन्द्रिय़मवीजं च जन्ममृत्युतमोनुदम् ||
१० ख
याज्ञवल्क्य उवाच:
अव्यक्तस्थं परं यत्तत्पृष्टस्तेऽहं नराधिप |
११ क
याज्ञवल्क्य उवाच:
स एष प्रकृतिष्ठो हि तस्थुरित्यभिधीय़ते ||
११ ख
याज्ञवल्क्य उवाच:
अचेतनश्चैष मतः प्रकृतिस्थश्च पार्थिव |
१२ क
याज्ञवल्क्य उवाच:
एतेनाधिष्ठितश्चैव सृजते संहरत्यपि ||
१२ ख
जनक उवाच:
अनादिनिधनावेतावुभावेव महामुने |
१३ क
जनक उवाच:
अमूर्तिमन्तावचलावप्रकम्प्यौ च निर्व्रणौ ||
१३ ख
जनक उवाच:
अग्राह्यावृषिशार्दूल कथमेको ह्यचेतनः |
१४ क
जनक उवाच:
चेतनावांस्तथा चैकः क्षेत्रज्ञ इति भाषितः ||
१४ ख
जनक उवाच:
त्वं हि विप्रेन्द्र कार्त्स्न्येन मोक्षधर्ममुपाससे |
१५ क
जनक उवाच:
साकल्यं मोक्षधर्मस्य श्रोतुमिच्छामि तत्त्वतः ||
१५ ख
जनक उवाच:
अस्तित्वं केवलत्वं च विनाभावं तथैव च |
१६ क
जनक उवाच:
तथैवोत्क्रमणस्थानं देहिनोऽपि विय़ुज्यतः ||
१६ ख
जनक उवाच:
कालेन यद्धि प्राप्नोति स्थानं तद्व्रूहि मे द्विज |
१७ क
जनक उवाच:
साङ्ख्यज्ञानं च तत्त्वेन पृथग्योगं तथैव च ||
१७ ख
जनक उवाच:
अरिष्टानि च तत्त्वेन वक्तुमर्हसि सत्तम |
१८ क
जनक उवाच:
विदितं सर्वमेतत्ते पाणावामलकं यथा ||
१८ ख