chevron_left शान्ति पर्व अध्याय ३०३
याज्ञवल्क्य उवाच:
न शक्यो निर्गुणस्तात गुणीकर्तुं विशां पते |
१ क
याज्ञवल्क्य उवाच:
गुणवांश्चाप्यगुणवान्यथातत्त्वं निवोध मे ||
१ ख
याज्ञवल्क्य उवाच:
गुणैर्हि गुणवानेव निर्गुणश्चागुणस्तथा |
२ क
याज्ञवल्क्य उवाच:
प्राहुरेवं महात्मानो मुनय़स्तत्त्वदर्शिनः ||
२ ख
याज्ञवल्क्य उवाच:
गुणस्वभावस्त्वव्यक्तो गुणानेवाभिवर्तते |
३ क
याज्ञवल्क्य उवाच:
उपय़ुङ्क्ते च तानेव स चैवाज्ञः स्वभावतः ||
३ ख
याज्ञवल्क्य उवाच:
अव्यक्तस्तु न जानीते पुरुषो ज्ञः स्वभावतः |
४ क
याज्ञवल्क्य उवाच:
न मत्तः परमस्तीति नित्यमेवाभिमन्यते ||
४ ख
याज्ञवल्क्य उवाच:
अनेन कारणेनैतदव्यक्तं स्यादचेतनम् |
५ क
याज्ञवल्क्य उवाच:
नित्यत्वादक्षरत्वाच्च क्षराणां तत्त्वतोऽन्यथा ||
५ ख
याज्ञवल्क्य उवाच:
यदाज्ञानेन कुर्वीत गुणसर्गं पुनः पुनः |
६ क
याज्ञवल्क्य उवाच:
यदात्मानं न जानीते तदाव्यक्तमिहोच्यते ||
६ ख
याज्ञवल्क्य उवाच:
कर्तृत्वाच्चापि तत्त्वानां तत्त्वधर्मी तथोच्यते |
७ क
याज्ञवल्क्य उवाच:
कर्तृत्वाच्चैव योनीनां योनिधर्मा तथोच्यते ||
७ ख
याज्ञवल्क्य उवाच:
कर्तृत्वात्प्रकृतीनां तु तथा प्रकृतिधर्मिता |
८ क
याज्ञवल्क्य उवाच:
कर्तृत्वाच्चापि वीजानां वीजधर्मी तथोच्यते ||
८ ख
याज्ञवल्क्य उवाच:
गुणानां प्रसवत्वाच्च तथा प्रसवधर्मवान् |
९ क
याज्ञवल्क्य उवाच:
कर्तृत्वात्प्रलय़ानां च तथा प्रलय़धर्मिता ||
९ ख
याज्ञवल्क्य उवाच:
वीजत्वात्प्रकृतित्वाच्च प्रलय़त्वात्तथैव च |
१० क
याज्ञवल्क्य उवाच:
उपेक्षकत्वादन्यत्वादभिमानाच्च केवलम् ||
१० ख
याज्ञवल्क्य उवाच:
मन्यन्ते यतय़ः शुद्धा अध्यात्मविगतज्वराः |
११ क
याज्ञवल्क्य उवाच:
अनित्यं नित्यमव्यक्तमेवमेतद्धि शुश्रुम ||
११ ख
याज्ञवल्क्य उवाच:
अव्यक्तैकत्वमित्याहुर्नानात्वं पुरुषस्तथा |
१२ क
याज्ञवल्क्य उवाच:
सर्वभूतदय़ावन्तः केवलं ज्ञानमास्थिताः ||
१२ ख
याज्ञवल्क्य उवाच:
अन्यः स पुरुषोऽव्यक्तस्त्वध्रुवो ध्रुवसञ्ज्ञकः |
१३ क
याज्ञवल्क्य उवाच:
यथा मुञ्ज इषीकाय़ास्तथैवैतद्धि जाय़ते ||
१३ ख
याज्ञवल्क्य उवाच:
अन्यं च मशकं विद्यादन्यच्चोदुम्वरं तथा |
१४ क
याज्ञवल्क्य उवाच:
न चोदुम्वरसंय़ोगैर्मशकस्तत्र लिप्यते ||
१४ ख
याज्ञवल्क्य उवाच:
अन्य एव तथा मत्स्यस्तथान्यदुदकं स्मृतम् |
१५ क
याज्ञवल्क्य उवाच:
न चोदकस्य स्पर्शेन मत्स्यो लिप्यति सर्वशः ||
१५ ख
याज्ञवल्क्य उवाच:
अन्यो ह्यग्निरुखाप्यन्या नित्यमेवमवैहि भोः |
१६ क
याज्ञवल्क्य उवाच:
न चोपलिप्यते सोऽग्निरुखासंस्पर्शनेन वै ||
१६ ख
याज्ञवल्क्य उवाच:
पुष्करं त्वन्यदेवात्र तथान्यदुदकं स्मृतम् |
१७ क
याज्ञवल्क्य उवाच:
न चोदकस्य स्पर्शेन लिप्यते तत्र पुष्करम् ||
१७ ख
याज्ञवल्क्य उवाच:
एतेषां सह संवासं विवासं चैव नित्यशः |
१८ क
याज्ञवल्क्य उवाच:
यथा तथैनं पश्यन्ति न नित्यं प्राकृता जनाः ||
१८ ख
याज्ञवल्क्य उवाच:
ये त्वन्यथैव पश्यन्ति न सम्यक्तेषु दर्शनम् |
१९ क
याज्ञवल्क्य उवाच:
ते व्यक्तं निरय़ं घोरं प्रविशन्ति पुनः पुनः ||
१९ ख
याज्ञवल्क्य उवाच:
साङ्ख्यदर्शनमेतत्ते परिसङ्ख्यातमुत्तमम् |
२० क
याज्ञवल्क्य उवाच:
एवं हि परिसङ्ख्याय़ साङ्ख्याः केवलतां गताः ||
२० ख
याज्ञवल्क्य उवाच:
ये त्वन्ये तत्त्वकुशलास्तेषामेतन्निदर्शनम् |
२१ क
याज्ञवल्क्य उवाच:
अतः परं प्रवक्ष्यामि योगानामपि दर्शनम् ||
२१ ख