chevron_left शान्ति पर्व अध्याय ३०४
याज्ञवल्क्य उवाच:
साङ्ख्यज्ञानं मय़ा प्रोक्तं योगज्ञानं निवोध मे |
१ क
याज्ञवल्क्य उवाच:
यथाश्रुतं यथादृष्टं तत्त्वेन नृपसत्तम ||
१ ख
याज्ञवल्क्य उवाच:
नास्ति साङ्ख्यसमं ज्ञानं नास्ति योगसमं वलम् |
२ क
याज्ञवल्क्य उवाच:
तावुभावेकचर्यौ तु उभावनिधनौ स्मृतौ ||
२ ख
याज्ञवल्क्य उवाच:
पृथक्पृथक्तु पश्यन्ति येऽल्पवुद्धिरता नराः |
३ क
याज्ञवल्क्य उवाच:
वय़ं तु राजन्पश्याम एकमेव तु निश्चय़ात् ||
३ ख
याज्ञवल्क्य उवाच:
यदेव योगाः पश्यन्ति तत्साङ्ख्यैरपि दृश्यते |
४ क
याज्ञवल्क्य उवाच:
एकं साङ्ख्यं च योगं च यः पश्यति स तत्त्ववित् ||
४ ख
याज्ञवल्क्य उवाच:
रुद्रप्रधानानपरान्विद्धि योगान्परन्तप |
५ क
याज्ञवल्क्य उवाच:
तेनैव चाथ देहेन विचरन्ति दिशो दश ||
५ ख
याज्ञवल्क्य उवाच:
यावद्धि प्रलय़स्तात सूक्ष्मेणाष्टगुणेन वै |
६ क
याज्ञवल्क्य उवाच:
योगेन लोकान्विचरन्सुखं संन्यस्य चानघ ||
६ ख
याज्ञवल्क्य उवाच:
वेदेषु चाष्टगुणितं योगमाहुर्मनीषिणः |
७ क
याज्ञवल्क्य उवाच:
सूक्ष्ममष्टगुणं प्राहुर्नेतरं नृपसत्तम ||
७ ख
याज्ञवल्क्य उवाच:
द्विगुणं योगकृत्यं तु योगानां प्राहुरुत्तमम् |
८ क
याज्ञवल्क्य उवाच:
सगुणं निर्गुणं चैव यथाशास्त्रनिदर्शनम् ||
८ ख
याज्ञवल्क्य उवाच:
धारणा चैव मनसः प्राणाय़ामश्च पार्थिव |
९ क
याज्ञवल्क्य उवाच:
प्राणाय़ामो हि सगुणो निर्गुणं धारणं मनः ||
९ ख
याज्ञवल्क्य उवाच:
यत्र दृश्येत मुञ्चन्वै प्राणान्मैथिलसत्तम |
१० क
याज्ञवल्क्य उवाच:
वाताधिक्यं भवत्येव तस्माद्धि न समाचरेत् ||
१० ख
याज्ञवल्क्य उवाच:
निशाय़ाः प्रथमे यामे चोदना द्वादश स्मृताः |
११ क
याज्ञवल्क्य उवाच:
मध्ये सुप्त्वा परे यामे द्वादशैव तु चोदनाः ||
११ ख
याज्ञवल्क्य उवाच:
तदेवमुपशान्तेन दान्तेनैकान्तशीलिना |
१२ क
याज्ञवल्क्य उवाच:
आत्मारामेण वुद्धेन योक्तव्योऽऽत्मा न संशय़ः ||
१२ ख
याज्ञवल्क्य उवाच:
पञ्चानामिन्द्रिय़ाणां तु दोषानाक्षिप्य पञ्चधा |
१३ क
याज्ञवल्क्य उवाच:
शव्दं स्पर्शं तथा रूपं रसं गन्धं तथैव च ||
१३ ख
याज्ञवल्क्य उवाच:
प्रतिभामपवर्गं च प्रतिसंहृत्य मैथिल |
१४ क
याज्ञवल्क्य उवाच:
इन्द्रिय़ग्राममखिलं मनस्यभिनिवेश्य ह ||
१४ ख
याज्ञवल्क्य उवाच:
मनस्तथैवाहङ्कारे प्रतिष्ठाप्य नराधिप |
१५ क
याज्ञवल्क्य उवाच:
अहङ्कारं तथा वुद्धौ वुद्धिं च प्रकृतावपि ||
१५ ख
याज्ञवल्क्य उवाच:
एवं हि परिसङ्ख्याय़ ततो ध्याय़ेत केवलम् |
१६ क
याज्ञवल्क्य उवाच:
विरजस्कमलं नित्यमनन्तं शुद्धमव्रणम् ||
१६ ख
याज्ञवल्क्य उवाच:
तस्थुषं पुरुषं सत्त्वमभेद्यमजरामरम् |
१७ क
याज्ञवल्क्य उवाच:
शाश्वतं चाव्ययं चैव ईशानं व्रह्म चाव्ययम् ||
१७ ख
याज्ञवल्क्य उवाच:
युक्तस्य तु महाराज लक्षणान्युपधारय़ेत् |
१८ क
याज्ञवल्क्य उवाच:
लक्षणं तु प्रसादस्य यथा तृप्तः सुखं स्वपेत् ||
१८ ख
याज्ञवल्क्य उवाच:
निवाते तु यथा दीपो ज्वलेत्स्नेहसमन्वितः |
१९ क
याज्ञवल्क्य उवाच:
निश्चलोर्ध्वशिखस्तद्वद्युक्तमाहुर्मनीषिणः ||
१९ ख
याज्ञवल्क्य उवाच:
पाषाण इव मेघोत्थैर्यथा विन्दुभिराहतः |
२० क
याज्ञवल्क्य उवाच:
नालं चालय़ितुं शक्यस्तथा युक्तस्य लक्षणम् ||
२० ख
याज्ञवल्क्य उवाच:
शङ्खदुन्दुभिनिर्घोषैर्विविधैर्गीतवादितैः |
२१ क
याज्ञवल्क्य उवाच:
क्रिय़माणैर्न कम्पेत युक्तस्यैतन्निदर्शनम् ||
२१ ख
याज्ञवल्क्य उवाच:
तैलपात्रं यथा पूर्णं कराभ्यां गृह्य पूरुषः |
२२ क
याज्ञवल्क्य उवाच:
सोपानमारुहेद्भीतस्तर्ज्यमानोऽसिपाणिभिः ||
२२ ख
याज्ञवल्क्य उवाच:
संय़तात्मा भय़ात्तेषां न पात्राद्विन्दुमुत्सृजेत् |
२३ क
याज्ञवल्क्य उवाच:
तथैवोत्तरमाणस्य एकाग्रमनसस्तथा ||
२३ ख
याज्ञवल्क्य उवाच:
स्थिरत्वादिन्द्रिय़ाणां तु निश्चलत्वात्तथैव च |
२४ क
याज्ञवल्क्य उवाच:
एवं युक्तस्य तु मुनेर्लक्षणान्युपधारय़ेत् ||
२४ ख
याज्ञवल्क्य उवाच:
स युक्तः पश्यति व्रह्म यत्तत्परममव्ययम् |
२५ क
याज्ञवल्क्य उवाच:
महतस्तमसो मध्ये स्थितं ज्वलनसंनिभम् ||
२५ ख
याज्ञवल्क्य उवाच:
एतेन केवलं याति त्यक्त्वा देहमसाक्षिकम् |
२६ क
याज्ञवल्क्य उवाच:
कालेन महता राजञ्श्रुतिरेषा सनातनी ||
२६ ख
याज्ञवल्क्य उवाच:
एतद्धि योगं योगानां किमन्यद्योगलक्षणम् |
२७ क
याज्ञवल्क्य उवाच:
विज्ञाय़ तद्धि मन्यन्ते कृतकृत्या मनीषिणः ||
२७ ख