chevron_left शान्ति पर्व अध्याय ३०५
याज्ञवल्क्य उवाच:
तथैवोत्क्रममाणं तु शृणुष्वावहितो नृप |
१ क
याज्ञवल्क्य उवाच:
पद्भ्यामुत्क्रममाणस्य वैष्णवं स्थानमुच्यते ||
१ ख
याज्ञवल्क्य उवाच:
जङ्घाभ्यां तु वसून्देवानाप्नुय़ादिति नः श्रुतम् |
२ क
याज्ञवल्क्य उवाच:
जानुभ्यां च महाभागान्देवान्साध्यानवाप्नुय़ात् ||
२ ख
याज्ञवल्क्य उवाच:
पाय़ुनोत्क्रममाणस्तु मैत्रं स्थानमवाप्नुय़ात् |
३ क
याज्ञवल्क्य उवाच:
पृथिवीं जघनेनाथ ऊरुभ्यां तु प्रजापतिम् ||
३ ख
याज्ञवल्क्य उवाच:
पार्श्वाभ्यां मरुतो देवान्नासाभ्यामिन्दुमेव च |
४ क
याज्ञवल्क्य उवाच:
वाहुभ्यामिन्द्रमित्याहुरुरसा रुद्रमेव च ||
४ ख
याज्ञवल्क्य उवाच:
ग्रीवाय़ास्तमृषिश्रेष्ठं नरमाप्नोत्यनुत्तमम् |
५ क
याज्ञवल्क्य उवाच:
विश्वेदेवान्मुखेनाथ दिशः श्रोत्रेण चाप्नुय़ात् ||
५ ख
याज्ञवल्क्य उवाच:
घ्राणेन गन्धवहनं नेत्राभ्यां सूर्यमेव च |
६ क
याज्ञवल्क्य उवाच:
भ्रूभ्यां चैवाश्विनौ देवौ ललाटेन पितॄनथ ||
६ ख
याज्ञवल्क्य उवाच:
व्रह्माणमाप्नोति विभुं मूर्ध्ना देवाग्रजं तथा |
७ क
याज्ञवल्क्य उवाच:
एतान्युत्क्रमणस्थानान्युक्तानि मिथिलेश्वर ||
७ ख
याज्ञवल्क्य उवाच:
अरिष्टानि तु वक्ष्यामि विहितानि मनीषिभिः |
८ क
याज्ञवल्क्य उवाच:
संवत्सरविय़ोगस्य सम्भवेय़ुः शरीरिणः ||
८ ख
याज्ञवल्क्य उवाच:
योऽरुन्धतीं न पश्येत दृष्टपूर्वां कदाचन |
९ क
याज्ञवल्क्य उवाच:
तथैव ध्रुवमित्याहुः पूर्णेन्दुं दीपमेव च |
९ ख
याज्ञवल्क्य उवाच:
खण्डाभासं दक्षिणतस्तेऽपि संवत्सराय़ुषः ||
९ ग
याज्ञवल्क्य उवाच:
परचक्षुषि चात्मानं ये न पश्यन्ति पार्थिव |
१० क
याज्ञवल्क्य उवाच:
आत्मच्छाय़ाकृतीभूतं तेऽपि संवत्सराय़ुषः ||
१० ख
याज्ञवल्क्य उवाच:
अतिद्युतिरतिप्रज्ञा अप्रज्ञा चाद्युतिस्तथा |
११ क
याज्ञवल्क्य उवाच:
प्रकृतेर्विक्रिय़ापत्तिः षण्मासान्मृत्युलक्षणम् ||
११ ख
याज्ञवल्क्य उवाच:
दैवतान्यवजानाति व्राह्मणैश्च विरुध्यते |
१२ क
याज्ञवल्क्य उवाच:
कृष्णश्यावच्छविच्छाय़ः षण्मासान्मृत्युलक्षणम् ||
१२ ख
याज्ञवल्क्य उवाच:
शीर्णनाभि यथा चक्रं छिद्रं सोमं प्रपश्यति |
१३ क
याज्ञवल्क्य उवाच:
तथैव च सहस्रांशुं सप्तरात्रेण मृत्युभाक् ||
१३ ख
याज्ञवल्क्य उवाच:
शवगन्धमुपाघ्राति सुरभिं प्राप्य यो नरः |
१४ क
याज्ञवल्क्य उवाच:
देवताय़तनस्थस्तु षड्रात्रेण स मृत्युभाक् ||
१४ ख
याज्ञवल्क्य उवाच:
कर्णनासावनमनं दन्तदृष्टिविरागिता |
१५ क
याज्ञवल्क्य उवाच:
सञ्ज्ञालोपो निरूष्मत्वं सद्योमृत्युनिदर्शनम् ||
१५ ख
याज्ञवल्क्य उवाच:
अकस्माच्च स्रवेद्यस्य वाममक्षि नराधिप |
१६ क
याज्ञवल्क्य उवाच:
मूर्धतश्चोत्पतेद्धूमः सद्योमृत्युनिदर्शनम् ||
१६ ख
याज्ञवल्क्य उवाच:
एतावन्ति त्वरिष्टानि विदित्वा मानवोऽऽत्मवान् |
१७ क
याज्ञवल्क्य उवाच:
निशि चाहनि चात्मानं योजय़ेत्परमात्मनि ||
१७ ख
याज्ञवल्क्य उवाच:
प्रतीक्षमाणस्तत्कालं यत्कालं प्रति तद्भवेत् |
१८ क
याज्ञवल्क्य उवाच:
अथास्य नेष्टं मरणं स्थातुमिच्छेदिमां क्रिय़ाम् ||
१८ ख
याज्ञवल्क्य उवाच:
सर्वगन्धान्रसांश्चैव धारय़ेत समाहितः |
१९ क
याज्ञवल्क्य उवाच:
तथा हि मृत्युं जय़ति तत्परेणान्तरात्मना ||
१९ ख
याज्ञवल्क्य उवाच:
ससाङ्ख्यधारणं चैव विदित्वा मनुजर्षभ |
२० क
याज्ञवल्क्य उवाच:
जय़ेच्च मृत्युं योगेन तत्परेणान्तरात्मना ||
२० ख
याज्ञवल्क्य उवाच:
गच्छेत्प्राप्याक्षय़ं कृत्स्नमजन्म शिवमव्ययम् |
२१ क
याज्ञवल्क्य उवाच:
शाश्वतं स्थानमचलं दुष्प्रापमकृतात्मभिः ||
२१ ख