chevron_left शान्ति पर्व अध्याय ३०६
याज्ञवल्क्य उवाच:
तथा वेद्यमवेद्यं च वेदविद्यो न विन्दति |
५० क
याज्ञवल्क्य उवाच:
स केवलं मूढमतिर्ज्ञानभारवहः स्मृतः ||
५० ख
याज्ञवल्क्य उवाच:
द्रष्टव्यौ नित्यमेवैतौ तत्परेणान्तरात्मना |
५१ क
याज्ञवल्क्य उवाच:
यथास्य जन्मनिधने न भवेतां पुनः पुनः ||
५१ ख
याज्ञवल्क्य उवाच:
अजस्रं जन्मनिधनं चिन्तय़ित्वा त्रय़ीमिमाम् |
५२ क
याज्ञवल्क्य उवाच:
परित्यज्य क्षय़मिह अक्षय़ं धर्ममास्थितः ||
५२ ख
याज्ञवल्क्य उवाच:
यदा तु पश्यतेऽत्यन्तमहन्यहनि काश्यप |
५३ क
याज्ञवल्क्य उवाच:
तदा स केवलीभूतः षड्विंशमनुपश्यति ||
५३ ख
याज्ञवल्क्य उवाच:
अन्यश्च शश्वदव्यक्तस्तथान्यः पञ्चविंशकः |
५४ क
याज्ञवल्क्य उवाच:
तस्य द्वावनुपश्येत तमेकमिति साधवः ||
५४ ख
याज्ञवल्क्य उवाच:
तेनैतन्नाभिजानन्ति पञ्चविंशकमच्युतम् |
५५ क
याज्ञवल्क्य उवाच:
जन्ममृत्युभय़ाद्योगाः साङ्ख्याश्च परमैषिणः ||
५५ ख
विश्वावसुरु उवाच:
पञ्चविंशं यदेतत्ते प्रोक्तं व्राह्मणसत्तम |
५६ क
विश्वावसुरु उवाच:
तथा तन्न तथा वेति तद्भवान्वक्तुमर्हति ||
५६ ख
विश्वावसुरु उवाच:
जैगीषव्यस्यासितस्य देवलस्य च मे श्रुतम् |
५७ क
विश्वावसुरु उवाच:
पराशरस्य विप्रर्षेर्वार्षगण्यस्य धीमतः ||
५७ ख
विश्वावसुरु उवाच:
भिक्षोः पञ्चशिखस्याथ कपिलस्य शुकस्य च |
५८ क
विश्वावसुरु उवाच:
गौतमस्यार्ष्टिषेणस्य गर्गस्य च महात्मनः ||
५८ ख
विश्वावसुरु उवाच:
नारदस्यासुरेश्चैव पुलस्त्यस्य च धीमतः |
५९ क
विश्वावसुरु उवाच:
सनत्कुमारस्य ततः शुक्रस्य च महात्मनः ||
५९ ख
विश्वावसुरु उवाच:
कश्यपस्य पितुश्चैव पूर्वमेव मय़ा श्रुतम् |
६० क
विश्वावसुरु उवाच:
तदनन्तरं च रुद्रस्य विश्वरूपस्य धीमतः ||
६० ख
विश्वावसुरु उवाच:
दैवतेभ्यः पितृभ्यश्च दैत्येभ्यश्च ततस्ततः |
६१ क
विश्वावसुरु उवाच:
प्राप्तमेतन्मय़ा कृत्स्नं वेद्यं नित्यं वदन्त्युत ||
६१ ख
विश्वावसुरु उवाच:
तस्मात्तद्वै भवद्वुद्ध्या श्रोतुमिच्छामि व्राह्मण |
६२ क
विश्वावसुरु उवाच:
भवान्प्रवर्हः शास्त्राणां प्रगल्भश्चातिवुद्धिमान् ||
६२ ख
विश्वावसुरु उवाच:
न तवाविदितं किञ्चिद्भवाञ्श्रुतिनिधिः स्मृतः |
६३ क
विश्वावसुरु उवाच:
कथ्यते देवलोके च पितृलोके च व्राह्मण ||
६३ ख
विश्वावसुरु उवाच:
व्रह्मलोकगताश्चैव कथय़न्ति महर्षय़ः |
६४ क
विश्वावसुरु उवाच:
पतिश्च तपतां शश्वदादित्यस्तव भाषते ||
६४ ख
विश्वावसुरु उवाच:
साङ्ख्यज्ञानं त्वय़ा व्रह्मन्नवाप्तं कृत्स्नमेव च |
६५ क
विश्वावसुरु उवाच:
तथैव योगज्ञानं च याज्ञवल्क्य विशेषतः ||
६५ ख
विश्वावसुरु उवाच:
निःसन्दिग्धं प्रवुद्धस्त्वं वुध्यमानश्चराचरम् |
६६ क
विश्वावसुरु उवाच:
श्रोतुमिच्छामि तज्ज्ञानं घृतं मण्डमय़ं यथा ||
६६ ख
याज्ञवल्क्य उवाच:
कृत्स्नधारिणमेव त्वां मन्ये गन्धर्वसत्तम |
६७ क
याज्ञवल्क्य उवाच:
जिज्ञाससि च मां राजंस्तन्निवोध यथाश्रुतम् ||
६७ ख
याज्ञवल्क्य उवाच:
अवुध्यमानां प्रकृतिं वुध्यते पञ्चविंशकः |
६८ क
याज्ञवल्क्य उवाच:
न तु वुध्यति गन्धर्व प्रकृतिः पञ्चविंशकम् ||
६८ ख
याज्ञवल्क्य उवाच:
अनेनाप्रतिवोधेन प्रधानं प्रवदन्ति तम् |
६९ क
याज्ञवल्क्य उवाच:
साङ्ख्ययोगाश्च तत्त्वज्ञा यथाश्रुतिनिदर्शनात् ||
६९ ख
याज्ञवल्क्य उवाच:
पश्यंस्तथैवापश्यंश्च पश्यत्यन्यस्तथानघ |
७० क
याज्ञवल्क्य उवाच:
षड्विंशः पञ्चविंशं च चतुर्विंशं च पश्यति |
७० ख
याज्ञवल्क्य उवाच:
न तु पश्यति पश्यंस्तु यश्चैनमनुपश्यति ||
७० ग
याज्ञवल्क्य उवाच:
पञ्चविंशोऽभिमन्येत नान्योऽस्ति परमो मम |
७१ क
याज्ञवल्क्य उवाच:
न चतुर्विंशकोऽग्राह्यो मनुजैर्ज्ञानदर्शिभिः ||
७१ ख
याज्ञवल्क्य उवाच:
मत्स्येवोदकमन्वेति प्रवर्तति प्रवर्तनात् |
७२ क
याज्ञवल्क्य उवाच:
यथैव वुध्यते मत्स्यस्तथैषोऽप्यनुवुध्यते |
७२ ख
याज्ञवल्क्य उवाच:
सस्नेहः सहवासाच्च साभिमानश्च नित्यशः ||
७२ ग
याज्ञवल्क्य उवाच:
स निमज्जति कालस्य यदैकत्वं न वुध्यते |
७३ क
याज्ञवल्क्य उवाच:
उन्मज्जति हि कालस्य ममत्वेनाभिसंवृतः ||
७३ ख
याज्ञवल्क्य उवाच:
यदा तु मन्यतेऽन्योऽहमन्य एष इति द्विजः |
७४ क
याज्ञवल्क्य उवाच:
तदा स केवलीभूतः षड्विंशमनुपश्यति ||
७४ ख
याज्ञवल्क्य उवाच:
अन्यश्च राजन्नवरस्तथान्यः पञ्चविंशकः |
७५ क
याज्ञवल्क्य उवाच:
तत्स्थत्वादनुपश्यन्ति एक एवेति साधवः ||
७५ ख
याज्ञवल्क्य उवाच:
तेनैतन्नाभिनन्दन्ति पञ्चविंशकमच्युतम् |
७६ क
याज्ञवल्क्य उवाच:
जन्ममृत्युभय़ाद्भीता योगाः साङ्ख्याश्च काश्यप |
७६ ख
याज्ञवल्क्य उवाच:
षड्विंशमनुपश्यन्ति शुचय़स्तत्पराय़णाः ||
७६ ग
याज्ञवल्क्य उवाच:
यदा स केवलीभूतः षड्विंशमनुपश्यति |
७७ क
याज्ञवल्क्य उवाच:
तदा स सर्वविद्विद्वान्न पुनर्जन्म विन्दति ||
७७ ख
याज्ञवल्क्य उवाच:
एवमप्रतिवुद्धश्च वुध्यमानश्च तेऽनघ |
७८ क
याज्ञवल्क्य उवाच:
वुद्धश्चोक्तो यथातत्त्वं मय़ा श्रुतिनिदर्शनात् ||
७८ ख
याज्ञवल्क्य उवाच:
पश्यापश्यं योऽनुपश्येत्क्षेमं तत्त्वं च काश्यप |
७९ क
याज्ञवल्क्य उवाच:
केवलाकेवलं चाद्यं पञ्चविंशात्परं च यत् ||
७९ ख
विश्वावसुरु उवाच:
तथ्यं शुभं चैतदुक्तं त्वय़ा भोः; सम्यक्क्षेम्यं देवताद्यं यथावत् |
८० क
विश्वावसुरु उवाच:
स्वस्त्यक्षय़ं भवतश्चास्तु नित्यं; वुद्ध्या सदा वुद्धिय़ुक्तं नमस्ते ||
८० ख
याज्ञवल्क्य उवाच:
एवमुक्त्वा सम्प्रय़ातो दिवं स; विभ्राजन्वै श्रीमता दर्शनेन |
८१ क
याज्ञवल्क्य उवाच:
तुष्टश्च तुष्ट्या परय़ाभिनन्द्य; प्रदक्षिणं मम कृत्वा महात्मा ||
८१ ख
याज्ञवल्क्य उवाच:
व्रह्मादीनां खेचराणां क्षितौ च; ये चाधस्तात्संवसन्ते नरेन्द्र |
८२ क
याज्ञवल्क्य उवाच:
तत्रैव तद्दर्शनं दर्शय़न्वै; सम्यक्क्षेम्यं ये पथं संश्रिता वै ||
८२ ख
याज्ञवल्क्य उवाच:
साङ्ख्याः सर्वे साङ्ख्यधर्मे रताश्च; तद्वद्योगा योगधर्मे रताश्च |
८३ क
याज्ञवल्क्य उवाच:
ये चाप्यन्ये मोक्षकामा मनुष्या; स्तेषामेतद्दर्शनं ज्ञानदृष्टम् ||
८३ ख
याज्ञवल्क्य उवाच:
ज्ञानान्मोक्षो जाय़ते पूरुषाणां; नास्त्यज्ञानादेवमाहुर्नरेन्द्र |
८४ क
याज्ञवल्क्य उवाच:
तस्माज्ज्ञानं तत्त्वतोऽन्वेषितव्यं; येनात्मानं मोक्षय़ेज्जन्ममृत्योः ||
८४ ख
याज्ञवल्क्य उवाच:
प्राप्य ज्ञानं व्राह्मणात्क्षत्रिय़ाद्वा; वैश्याच्छूद्रादपि नीचादभीक्ष्णम् |
८५ क
याज्ञवल्क्य उवाच:
श्रद्धातव्यं श्रद्दधानेन नित्यं; न श्रद्धिनं जन्ममृत्यू विशेताम् ||
८५ ख
याज्ञवल्क्य उवाच:
सर्वे वर्णा व्राह्मणा व्रह्मजाश्च; सर्वे नित्यं व्याहरन्ते च व्रह्म |
८६ क
याज्ञवल्क्य उवाच:
तत्त्वं शास्त्रं व्रह्मवुद्ध्या व्रवीमि; सर्वं विश्वं व्रह्म चैतत्समस्तम् ||
८६ ख
याज्ञवल्क्य उवाच:
व्रह्मास्यतो व्राह्मणाः सम्प्रसूता; वाहुभ्यां वै क्षत्रिय़ाः सम्प्रसूताः |
८७ क
याज्ञवल्क्य उवाच:
नाभ्यां वैश्याः पादतश्चापि शूद्राः; सर्वे वर्णा नान्यथा वेदितव्याः ||
८७ ख
याज्ञवल्क्य उवाच:
अज्ञानतः कर्मय़ोनिं भजन्ते; तां तां राजंस्ते यथा यान्त्यभावम् |
८८ क
याज्ञवल्क्य उवाच:
तथा वर्णा ज्ञानहीनाः पतन्ते; घोरादज्ञानात्प्राकृतं योनिजालम् ||
८८ ख
याज्ञवल्क्य उवाच:
तस्माज्ज्ञानं सर्वतो मार्गितव्यं; सर्वत्रस्थं चैतदुक्तं मय़ा ते |
८९ क
याज्ञवल्क्य उवाच:
तस्थौ व्रह्मा तस्थिवांश्चापरो य; स्तस्मै नित्यं मोक्षमाहुर्द्विजेन्द्राः ||
८९ ख
याज्ञवल्क्य उवाच:
यत्ते पृष्टं तन्मय़ा चोपदिष्टं; याथातथ्यं तद्विशोको भवस्व |
९० क
याज्ञवल्क्य उवाच:
राजन्गच्छस्वैतदर्थस्य पारं; सम्यक्प्रोक्तं स्वस्ति तेऽस्त्वत्र नित्यम् ||
९० ख
भीष्म उवाच:
स एवमनुशास्तस्तु याज्ञवल्क्येन धीमता |
९१ क
भीष्म उवाच:
प्रीतिमानभवद्राजा मिथिलाधिपतिस्तदा ||
९१ ख
भीष्म उवाच:
गते मुनिवरे तस्मिन्कृते चापि प्रदक्षिणे |
९२ क
भीष्म उवाच:
दैवरातिर्नरपतिरासीनस्तत्र मोक्षवित् ||
९२ ख
भीष्म उवाच:
गोकोटिं स्पर्शय़ामास हिरण्यस्य तथैव च |
९३ क
भीष्म उवाच:
रत्नाञ्जलिमथैकं च व्राह्मणेभ्यो ददौ तदा ||
९३ ख
भीष्म उवाच:
विदेहराज्यं च तथा प्रतिष्ठाप्य सुतस्य वै |
९४ क
भीष्म उवाच:
यतिधर्ममुपासंश्चाप्यवसन्मिथिलाधिपः ||
९४ ख
भीष्म उवाच:
साङ्ख्यज्ञानमधीय़ानो योगशास्त्रं च कृत्स्नशः |
९५ क
भीष्म उवाच:
धर्माधर्मौ च राजेन्द्र प्राकृतं परिगर्हय़न् ||
९५ ख
भीष्म उवाच:
अनन्तमिति कृत्वा स नित्यं केवलमेव च |
९६ क
भीष्म उवाच:
धर्माधर्मौ पुण्यपापे सत्यासत्ये तथैव च ||
९६ ख
भीष्म उवाच:
जन्ममृत्यू च राजेन्द्र प्राकृतं तदचिन्तय़त् |
९७ क
भीष्म उवाच:
व्रह्माव्यक्तस्य कर्मेदमिति नित्यं नराधिप ||
९७ ख
भीष्म उवाच:
पश्यन्ति योगाः साङ्ख्याश्च स्वशास्त्रकृतलक्षणाः |
९८ क