याज्ञवल्क्य उवाच:
अव्यक्तस्थं परं यत्तत्पृष्टस्तेऽहं नराधिप |
१ क
याज्ञवल्क्य उवाच:
परं गुह्यमिमं प्रश्नं शृणुष्वावहितो नृप ||
१ ख
याज्ञवल्क्य उवाच:
यथार्षेणेह विधिना चरतावमतेन ह |
२ क
याज्ञवल्क्य उवाच:
मय़ादित्यादवाप्तानि यजूंषि मिथिलाधिप ||
२ ख
याज्ञवल्क्य उवाच:
महता तपसा देवस्तपिष्ठः सेवितो मय़ा |
३ क
याज्ञवल्क्य उवाच:
प्रीतेन चाहं विभुना सूर्येणोक्तस्तदानघ ||
३ ख
याज्ञवल्क्य उवाच:
वरं वृणीष्व विप्रर्षे यदिष्टं ते सुदुर्लभम् |
४ क
याज्ञवल्क्य उवाच:
तत्ते दास्यामि प्रीतात्मा मत्प्रसादो हि दुर्लभः ||
४ ख
याज्ञवल्क्य उवाच:
ततः प्रणम्य शिरसा मय़ोक्तस्तपतां वरः |
५ क
याज्ञवल्क्य उवाच:
यजूंषि नोपय़ुक्तानि क्षिप्रमिच्छामि वेदितुम् ||
५ ख
याज्ञवल्क्य उवाच:
ततो मां भगवानाह वितरिष्यामि ते द्विज |
६ क
याज्ञवल्क्य उवाच:
सरस्वतीह वाग्भूता शरीरं ते प्रवेक्ष्यति ||
६ ख
याज्ञवल्क्य उवाच:
ततो मामाह भगवानास्यं स्वं विवृतं कुरु |
७ क
याज्ञवल्क्य उवाच:
विवृतं च ततो मेऽऽस्यं प्रविष्टा च सरस्वती ||
७ ख
याज्ञवल्क्य उवाच:
ततो विदह्यमानोऽहं प्रविष्टोऽम्भस्तदानघ |
८ क
याज्ञवल्क्य उवाच:
अविज्ञानादमर्षाच्च भास्करस्य महात्मनः ||
८ ख
याज्ञवल्क्य उवाच:
ततो विदह्यमानं मामुवाच भगवान्रविः |
९ क
याज्ञवल्क्य उवाच:
मुहूर्तं सह्यतां दाहस्ततः शीतीभविष्यसि ||
९ ख
याज्ञवल्क्य उवाच:
शीतीभूतं च मां दृष्ट्वा भगवानाह भास्करः |
१० क
याज्ञवल्क्य उवाच:
प्रतिष्ठास्यति ते वेदः सोत्तरः सखिलो द्विज ||
१० ख
याज्ञवल्क्य उवाच:
कृत्स्नं शतपथं चैव प्रणेष्यसि द्विजर्षभ |
११ क
याज्ञवल्क्य उवाच:
तस्यान्ते चापुनर्भावे वुद्धिस्तव भविष्यति ||
११ ख
याज्ञवल्क्य उवाच:
प्राप्स्यसे च यदिष्टं तत्साङ्ख्ययोगेप्सितं पदम् |
१२ क
याज्ञवल्क्य उवाच:
एतावदुक्त्वा भगवानस्तमेवाभ्यवर्तत ||
१२ ख
याज्ञवल्क्य उवाच:
ततोऽनुव्याहृतं श्रुत्वा गते देवे विभावसौ |
१३ क
याज्ञवल्क्य उवाच:
गृहमागत्य संहृष्टोऽचिन्तय़ं वै सरस्वतीम् ||
१३ ख
याज्ञवल्क्य उवाच:
ततः प्रवृत्तातिशुभा स्वरव्यञ्जनभूषिता |
१४ क
याज्ञवल्क्य उवाच:
ओङ्कारमादितः कृत्वा मम देवी सरस्वती ||
१४ ख
याज्ञवल्क्य उवाच:
ततोऽहमर्घ्यं विधिवत्सरस्वत्यै न्यवेदय़म् |
१५ क
याज्ञवल्क्य उवाच:
तपतां च वरिष्ठाय़ निषण्णस्तत्पराय़णः ||
१५ ख
याज्ञवल्क्य उवाच:
ततः शतपथं कृत्स्नं सरहस्यं ससङ्ग्रहम् |
१६ क
याज्ञवल्क्य उवाच:
चक्रे सपरिशेषं च हर्षेण परमेण ह ||
१६ ख
याज्ञवल्क्य उवाच:
कृत्वा चाध्ययनं तेषां शिष्याणां शतमुत्तमम् |
१७ क
याज्ञवल्क्य उवाच:
विप्रिय़ार्थं सशिष्यस्य मातुलस्य महात्मनः ||
१७ ख
याज्ञवल्क्य उवाच:
ततः सशिष्येण मय़ा सूर्येणेव गभस्तिभिः |
१८ क
याज्ञवल्क्य उवाच:
व्याप्तो यज्ञो महाराज पितुस्तव महात्मनः ||
१८ ख
याज्ञवल्क्य उवाच:
मिषतो देवलस्यापि ततोऽर्धं हृतवानहम् |
१९ क
याज्ञवल्क्य उवाच:
स्ववेददक्षिणाय़ाथ विमर्दे मातुलेन ह ||
१९ ख
याज्ञवल्क्य उवाच:
सुमन्तुनाथ पैलेन तथा जैमिनिना च वै |
२० क
याज्ञवल्क्य उवाच:
पित्रा ते मुनिभिश्चैव ततोऽहमनुमानितः ||
२० ख
याज्ञवल्क्य उवाच:
दश पञ्च च प्राप्तानि यजूंष्यर्कान्मय़ानघ |
२१ क
याज्ञवल्क्य उवाच:
तथैव लोमहर्षाच्च पुराणमवधारितम् ||
२१ ख
याज्ञवल्क्य उवाच:
वीजमेतत्पुरस्कृत्य देवीं चैव सरस्वतीम् |
२२ क
याज्ञवल्क्य उवाच:
सूर्यस्य चानुभावेन प्रवृत्तोऽहं नराधिप ||
२२ ख
याज्ञवल्क्य उवाच:
कर्तुं शतपथं वेदमपूर्वं कारितं च मे |
२३ क
याज्ञवल्क्य उवाच:
यथाभिलषितं मार्गं तथा तच्चोपपादितम् ||
२३ ख
याज्ञवल्क्य उवाच:
शिष्याणामखिलं कृत्स्नमनुज्ञातं ससङ्ग्रहम् |
२४ क
याज्ञवल्क्य उवाच:
सर्वे च शिष्याः शुचय़ो गताः परमहर्षिताः ||
२४ ख
याज्ञवल्क्य उवाच:
शाखाः पञ्चदशेमास्तु विद्या भास्करदर्शिताः |
२५ क
याज्ञवल्क्य उवाच:
प्रतिष्ठाप्य यथाकामं वेद्यं तदनुचिन्तय़म् ||
२५ ख
याज्ञवल्क्य उवाच:
किमत्र व्रह्मण्यमृतं किं च वेद्यमनुत्तमम् |
२६ क
याज्ञवल्क्य उवाच:
चिन्तय़े तत्र चागत्य गन्धर्वो मामपृच्छत ||
२६ ख
याज्ञवल्क्य उवाच:
विश्वावसुस्ततो राजन्वेदान्तज्ञानकोविदः |
२७ क
याज्ञवल्क्य उवाच:
चतुर्विंशतिकान्प्रश्नान्पृष्ट्वा वेदस्य पार्थिव |
२७ ख
याज्ञवल्क्य उवाच:
पञ्चविंशतिमं प्रश्नं पप्रच्छान्वीक्षिकीं तथा ||
२७ ग
याज्ञवल्क्य उवाच:
विश्वाविश्वं तथाश्वाश्वं मित्रं वरुणमेव च |
२८ क
याज्ञवल्क्य उवाच:
ज्ञानं ज्ञेय़ं तथाज्ञो ज्ञः कस्तपा अतपास्तथा |
२८ ख
याज्ञवल्क्य उवाच:
सूर्यादः सूर्य इति च विद्याविद्ये तथैव च ||
२८ ग
याज्ञवल्क्य उवाच:
वेद्यावेद्यं तथा राजन्नचलं चलमेव च |
२९ क
याज्ञवल्क्य उवाच:
अपूर्वमक्षय़ं क्षय़्यमेतत्प्रश्नमनुत्तमम् ||
२९ ख
याज्ञवल्क्य उवाच:
अथोक्तश्च मय़ा राजन्राजा गन्धर्वसत्तमः |
३० क
याज्ञवल्क्य उवाच:
पृष्टवाननुपूर्वेण प्रश्नमुत्तममर्थवत् ||
३० ख
याज्ञवल्क्य उवाच:
मुहूर्तं मृष्यतां तावद्यावदेनं विचिन्तय़े |
३१ क
याज्ञवल्क्य उवाच:
वाढमित्येव कृत्वा स तूष्णीं गन्धर्व आस्थितः ||
३१ ख
याज्ञवल्क्य उवाच:
ततोऽन्वचिन्तय़महं भूय़ो देवीं सरस्वतीम् |
३२ क
याज्ञवल्क्य उवाच:
मनसा स च मे प्रश्नो दध्नो घृतमिवोद्धृतम् ||
३२ ख
याज्ञवल्क्य उवाच:
तत्रोपनिषदं चैव परिशेषं च पार्थिव |
३३ क
याज्ञवल्क्य उवाच:
मथ्नामि मनसा तात दृष्ट्वा चान्वीक्षिकीं पराम् ||
३३ ख
याज्ञवल्क्य उवाच:
चतुर्थी राजशार्दूल विद्यैषा साम्पराय़िकी |
३४ क
याज्ञवल्क्य उवाच:
उदीरिता मय़ा तुभ्यं पञ्चविंशेऽधि धिष्ठिता ||
३४ ख
याज्ञवल्क्य उवाच:
अथोक्तस्तु मय़ा राजन्राजा विश्वावसुस्तदा |
३५ क
याज्ञवल्क्य उवाच:
श्रूय़तां यद्भवानस्मान्प्रश्नं सम्पृष्टवानिह ||
३५ ख
याज्ञवल्क्य उवाच:
विश्वाविश्वेति यदिदं गन्धर्वेन्द्रानुपृच्छसि |
३६ क
याज्ञवल्क्य उवाच:
विश्वाव्यक्तं परं विद्याद्भूतभव्यभय़ङ्करम् ||
३६ ख
याज्ञवल्क्य उवाच:
त्रिगुणं गुणकर्तृत्वादविश्वो निष्कलस्तथा |
३७ क
याज्ञवल्क्य उवाच:
अश्वस्तथैव मिथुनमेवमेवानुदृश्यते ||
३७ ख
याज्ञवल्क्य उवाच:
अव्यक्तं प्रकृतिं प्राहुः पुरुषेति च निर्गुणम् |
३८ क
याज्ञवल्क्य उवाच:
तथैव मित्रं पुरुषं वरुणं प्रकृतिं तथा ||
३८ ख
याज्ञवल्क्य उवाच:
ज्ञानं तु प्रकृतिं प्राहुर्ज्ञेय़ं निष्कलमेव च |
३९ क
याज्ञवल्क्य उवाच:
अज्ञश्च ज्ञश्च पुरुषस्तस्मान्निष्कल उच्यते ||
३९ ख
याज्ञवल्क्य उवाच:
कस्तपा अतपाः प्रोक्तः कोऽसौ पुरुष उच्यते |
४० क
याज्ञवल्क्य उवाच:
तपाः प्रकृतिरित्याहुरतपा निष्कलः स्मृतः ||
४० ख
याज्ञवल्क्य उवाच:
तथैवावेद्यमव्यक्तं वेद्यः पुरुष उच्यते |
४१ क
याज्ञवल्क्य उवाच:
चलाचलमिति प्रोक्तं त्वय़ा तदपि मे शृणु ||
४१ ख
याज्ञवल्क्य उवाच:
चलां तु प्रकृतिं प्राहुः कारणं क्षेपसर्गय़ोः |
४२ क
याज्ञवल्क्य उवाच:
अक्षेपसर्गय़ोःकर्ता निश्चलः पुरुषः स्मृतः ||
४२ ख
याज्ञवल्क्य उवाच:
अजावुभावप्रजौ च अक्षय़ौ चाप्युभावपि |
४३ क
याज्ञवल्क्य उवाच:
अजौ नित्यावुभौ प्राहुरध्यात्मगतिनिश्चय़ाः ||
४३ ख
याज्ञवल्क्य उवाच:
अक्षय़त्वात्प्रजनने अजमत्राहुरव्ययम् |
४४ क
याज्ञवल्क्य उवाच:
अक्षय़ं पुरुषं प्राहुः क्षय़ो ह्यस्य न विद्यते ||
४४ ख
याज्ञवल्क्य उवाच:
गुणक्षय़त्वात्प्रकृतिः कर्तृत्वादक्षय़ं वुधाः |
४५ क
याज्ञवल्क्य उवाच:
एषा तेऽऽन्वीक्षिकी विद्या चतुर्थी साम्पराय़िकी ||
४५ ख
याज्ञवल्क्य उवाच:
विद्योपेतं धनं कृत्वा कर्मणा नित्यकर्मणि |
४६ क
याज्ञवल्क्य उवाच:
एकान्तदर्शना वेदाः सर्वे विश्वावसो स्मृताः ||
४६ ख
याज्ञवल्क्य उवाच:
जाय़न्ते च म्रिय़न्ते च यस्मिन्नेते यतश्च्युताः |
४७ क
याज्ञवल्क्य उवाच:
वेदार्थं ये न जानन्ति वेद्यं गन्धर्वसत्तम ||
४७ ख
याज्ञवल्क्य उवाच:
साङ्गोपाङ्गानपि यदि पञ्च वेदानधीय़ते |
४८ क
याज्ञवल्क्य उवाच:
वेदवेद्यं न जानीते वेदभारवहो हि सः ||
४८ ख
याज्ञवल्क्य उवाच:
यो घृतार्थी खरीक्षीरं मथेद्गन्धर्वसत्तम |
४९ क
याज्ञवल्क्य उवाच:
विष्ठां तत्रानुपश्येत न मण्डं नापि वा घृतम् ||
४९ ख