chevron_left शान्ति पर्व अध्याय ३०७
युधिष्ठिर उवाच:
ऐश्वर्यं वा महत्प्राप्य धनं वा भरतर्षभ |
१ क
युधिष्ठिर उवाच:
दीर्घमाय़ुरवाप्याथ कथं मृत्युमतिक्रमेत् ||
१ ख
युधिष्ठिर उवाच:
तपसा वा सुमहता कर्मणा वा श्रुतेन वा |
२ क
युधिष्ठिर उवाच:
रसाय़नप्रय़ोगैर्वा कैर्नोपैति जरान्तकौ ||
२ ख
भीष्म उवाच:
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
३ क
भीष्म उवाच:
भिक्षोः पञ्चशिखस्येह संवादं जनकस्य च ||
३ ख
भीष्म उवाच:
वैदेहो जनको राजा महर्षिं वेदवित्तमम् |
४ क
भीष्म उवाच:
पर्यपृच्छत्पञ्चशिखं छिन्नधर्मार्थसंशय़म् ||
४ ख
भीष्म उवाच:
केन वृत्तेन भगवन्नतिक्रामेज्जरान्तकौ |
५ क
भीष्म उवाच:
तपसा वाथ वुद्ध्या वा कर्मणा वा श्रुतेन वा ||
५ ख
भीष्म उवाच:
एवमुक्तः स वैदेहं प्रत्युवाच परोक्षवित् |
६ क
भीष्म उवाच:
निवृत्तिर्नैतय़ोरस्ति नानिवृत्तिः कथञ्चन ||
६ ख
भीष्म उवाच:
न ह्यहानि निवर्तन्ते न मासा न पुनः क्षपाः |
७ क
भीष्म उवाच:
सोऽय़ं प्रपद्यतेऽध्वानं चिराय़ ध्रुवमध्रुवः ||
७ ख
भीष्म उवाच:
सर्वभूतसमुच्छेदः स्रोतसेवोह्यते सदा |
८ क
भीष्म उवाच:
उह्यमानं निमज्जन्तमप्लवे कालसागरे |
८ ख
भीष्म उवाच:
जरामृत्युमहाग्राहे न कश्चिदभिपद्यते ||
८ ग
भीष्म उवाच:
नैवास्य भविता कश्चिन्नासौ भवति कस्यचित् |
९ क
भीष्म उवाच:
पथि सङ्गतमेवेदं दारैरन्यैश्च वन्धुभिः |
९ ख
भीष्म उवाच:
नाय़मत्यन्तसंवासो लव्धपूर्वो हि केनचित् ||
९ ग
भीष्म उवाच:
क्षिप्यन्ते तेन तेनैव निष्टनन्तः पुनः पुनः |
१० क
भीष्म उवाच:
कालेन जाता जाता हि वाय़ुनेवाभ्रसञ्चय़ाः ||
१० ख
भीष्म उवाच:
जरामृत्यू हि भूतानां खादितारौ वृकाविव |
११ क
भीष्म उवाच:
वलिनां दुर्वलानां च ह्रस्वानां महतामपि ||
११ ख
भीष्म उवाच:
एवम्भूतेषु भूतेषु नित्यभूताध्रुवेषु च |
१२ क
भीष्म उवाच:
कथं हृष्येत जातेषु मृतेषु च कथं ज्वरेत् ||
१२ ख
भीष्म उवाच:
कुतोऽहमागतः कोऽस्मि क्व गमिष्यामि कस्य वा |
१३ क
भीष्म उवाच:
कस्मिन्स्थितः क्व भविता कस्मात्किमनुशोचसि ||
१३ ख
भीष्म उवाच:
द्रष्टा स्वर्गस्य न ह्यस्ति तथैव नरकस्य च |
१४ क
भीष्म उवाच:
आगमांस्त्वनतिक्रम्य दद्याच्चैव यजेत च ||
१४ ख