chevron_left द्रोण पर्व अध्याय ३१
सञ्जय़ उवाच:
स भारतरथश्रेष्ठः सर्वभारतहर्षणः |
५१ क
सञ्जय़ उवाच:
प्रादुश्चक्रे तदाग्नेय़मस्त्रमस्त्रविदां वरः ||
५१ ख
सञ्जय़ उवाच:
तस्य दीप्तशरौघस्य दीप्तचापधरस्य च |
५२ क
सञ्जय़ उवाच:
शरौघाञ्शरजालेन विदुधाव धनञ्जय़ः |
५२ ख
सञ्जय़ उवाच:
अस्त्रमस्त्रेण संवार्य प्राणदद्विसृजञ्शरान् ||
५२ ग
सञ्जय़ उवाच:
धृष्टद्युम्नश्च भीमश्च सात्यकिश्च महारथः |
५३ क
सञ्जय़ उवाच:
विव्यधुः कर्णमासाद्य त्रिभिस्त्रिभिरजिह्मगैः ||
५३ ख
सञ्जय़ उवाच:
अर्जुनास्त्रं तु राधेय़ः संवार्य शरवृष्टिभिः |
५४ क
सञ्जय़ उवाच:
तेषां त्रय़ाणां चापानि चिच्छेद विशिखैस्त्रिभिः ||
५४ ख
सञ्जय़ उवाच:
ते निकृत्ताय़ुधाः शूरा निर्विषा भुजगा इव |
५५ क
सञ्जय़ उवाच:
रथशक्तीः समुत्क्षिप्य भृशं सिंहा इवानदन् ||
५५ ख
सञ्जय़ उवाच:
ता भुजाग्रैर्महावेगा विसृष्टा भुजगोपमाः |
५६ क
सञ्जय़ उवाच:
दीप्यमाना महाशक्त्यो जग्मुराधिरथिं प्रति ||
५६ ख
सञ्जय़ उवाच:
ता निकृत्य शितैर्वाणैस्त्रिभिस्त्रिभिरजिह्मगैः |
५७ क
सञ्जय़ उवाच:
ननाद वलवान्कर्णः पार्थाय़ विसृजञ्शरान् ||
५७ ख
सञ्जय़ उवाच:
अर्जुनश्चापि राधेय़ं विद्ध्वा सप्तभिराशुगैः |
५८ क
सञ्जय़ उवाच:
कर्णादवरजं वाणैर्जघान निशितैस्त्रिभिः ||
५८ ख
सञ्जय़ उवाच:
ततः शत्रुञ्जय़ं हत्वा पार्थः षड्भिरजिह्मगैः |
५९ क
सञ्जय़ उवाच:
जहार सद्यो भल्लेन विपाटस्य शिरो रथात् ||
५९ ख
सञ्जय़ उवाच:
पश्यतां धार्तराष्ट्राणामेकेनैव किरीटिना |
६० क
सञ्जय़ उवाच:
प्रमुखे सूतपुत्रस्य सोदर्या निहतास्त्रय़ः ||
६० ख
सञ्जय़ उवाच:
ततो भीमः समुत्पत्य स्वरथाद्वैनतेय़वत् |
६१ क
सञ्जय़ उवाच:
वरासिना कर्णपक्षाञ्जघान दश पञ्च च ||
६१ ख
सञ्जय़ उवाच:
पुनः स्वरथमास्थाय़ धनुरादाय़ चापरम् |
६२ क
सञ्जय़ उवाच:
विव्याध दशभिः कर्णं सूतमश्वांश्च पञ्चभिः ||
६२ ख
सञ्जय़ उवाच:
धृष्टद्युम्नोऽप्यसिवरं चर्म चादाय़ भास्वरम् |
६३ क
सञ्जय़ उवाच:
जघान चन्द्रवर्माणं वृहत्क्षत्रं च पौरवम् ||
६३ ख
सञ्जय़ उवाच:
ततः स्वरथमास्थाय़ पाञ्चाल्योऽन्यच्च कार्मुकम् |
६४ क
सञ्जय़ उवाच:
आदाय़ कर्णं विव्याध त्रिसप्तत्या नदन्रणे ||
६४ ख
सञ्जय़ उवाच:
शैनेय़ोऽप्यन्यदादाय़ धनुरिन्द्राय़ुधद्युति |
६५ क
सञ्जय़ उवाच:
सूतपुत्रं चतुःषष्ट्या विद्ध्वा सिंह इवानदत् ||
६५ ख
सञ्जय़ उवाच:
भल्लभ्यां साधुमुक्ताभ्यां छित्त्वा कर्णस्य कार्मुकम् |
६६ क
सञ्जय़ उवाच:
पुनः कर्णं त्रिभिर्वाणैर्वाह्वोरुरसि चार्पय़त् ||
६६ ख
सञ्जय़ उवाच:
ततो दुर्योधनो द्रोणो राजा चैव जय़द्रथः |
६७ क
सञ्जय़ उवाच:
निमज्जमानं राधेय़मुज्जह्रुः सात्यकार्णवात् ||
६७ ख
सञ्जय़ उवाच:
धृष्टद्युम्नश्च भीमश्च सौभद्रोऽर्जुन एव च |
६८ क
सञ्जय़ उवाच:
नकुलः सहदेवश्च सात्यकिं जुगुपू रणे ||
६८ ख
सञ्जय़ उवाच:
एवमेष महारौद्रः क्षय़ार्थं सर्वधन्विनाम् |
६९ क
सञ्जय़ उवाच:
तावकानां परेषां च त्यक्त्वा प्राणानभूद्रणः ||
६९ ख
सञ्जय़ उवाच:
पदातिरथनागाश्वैर्गजाश्वरथपत्तय़ः |
७० क
सञ्जय़ उवाच:
रथिनो नागपत्त्यश्वै रथपत्ती रथद्विपैः ||
७० ख
सञ्जय़ उवाच:
अश्वैरश्वा गजैर्नागा रथिनो रथिभिः सह |
७१ क
सञ्जय़ उवाच:
संसक्ताः समदृश्यन्त पत्तय़श्चापि पत्तिभिः ||
७१ ख
सञ्जय़ उवाच:
एवं सुकलिलं युद्धमासीत्क्रव्यादहर्षणम् |
७२ क
सञ्जय़ उवाच:
महद्भिस्तैरभीतानां यमराष्ट्रविवर्धनम् ||
७२ ख
सञ्जय़ उवाच:
ततो हता नररथवाजिकुञ्जरै; रनेकशो द्विपरथवाजिपत्तय़ः |
७३ क
सञ्जय़ उवाच:
गजैर्गजा रथिभिरुदाय़ुधा रथा; हय़ैर्हय़ाः पत्तिगणैश्च पत्तय़ः ||
७३ ख
सञ्जय़ उवाच:
रथैर्द्विपा द्विरदवरैर्महाहय़ा; हय़ैर्नरा वररथिभिश्च वाजिनः |
७४ क
सञ्जय़ उवाच:
निरस्तजिह्वादशनेक्षणाः क्षितौ; क्षय़ं गताः प्रमथितवर्मभूषणाः ||
७४ ख
सञ्जय़ उवाच:
तथा परैर्वहुकरणैर्वराय़ुधै; र्हता गताः प्रतिभय़दर्शनाः क्षितिम् |
७५ क
सञ्जय़ उवाच:
विपोथिता हय़गजपादताडिता; भृशाकुला रथखुरनेमिभिर्हताः ||
७५ ख
सञ्जय़ उवाच:
प्रमोदने श्वापदपक्षिरक्षसां; जनक्षय़े वर्तति तत्र दारुणे |
७६ क
सञ्जय़ उवाच:
महावलास्ते कुपिताः परस्परं; निषूदय़न्तः प्रविचेरुरोजसा ||
७६ ख
सञ्जय़ उवाच:
ततो वले भृशलुलिते परस्परं; निरीक्षमाणे रुधिरौघसम्प्लुते |
७७ क
सञ्जय़ उवाच:
दिवाकरेऽस्तङ्गिरिमास्थिते शनै; रुभे प्रय़ाते शिविराय़ भारत ||
७७ ख