सञ्जय़ उवाच:
नानावर्णा रथे भान्ति श्वसनेन प्रकम्पिताः ||
४९ ख
सञ्जय़ उवाच:
सहेमचन्द्रतारार्काः पताकाः किङ्किणीय़ुताः |
५० क
सञ्जय़ उवाच:
पश्य कर्णार्जुनस्यैताः सौदामिन्य इवाम्वुदे ||
५० ख
सञ्जय़ उवाच:
ध्वजाः कणकणाय़न्ते वातेनाभिसमीरिताः |
५१ क
सञ्जय़ उवाच:
सपताका रथाश्चापि पाञ्चालानां महात्मनाम् ||
५१ ख
सञ्जय़ उवाच:
नागाश्वरथपत्त्यौघांस्तावकान्समभिघ्नतः |
५२ क
सञ्जय़ उवाच:
ध्वजाग्रं दृश्यते त्वस्य ज्याशव्दश्चापि श्रूय़ते ||
५२ ख
सञ्जय़ उवाच:
अद्य द्रष्टासि तं वीरं श्वेताश्वं कृष्णसारथिम् |
५३ क
सञ्जय़ उवाच:
निघ्नन्तं शात्रवान्सङ्ख्ये यं कर्ण परिपृच्छसि ||
५३ ख
सञ्जय़ उवाच:
अद्य तौ पुरुषव्याघ्रौ लोहिताक्षौ परन्तपौ |
५४ क
सञ्जय़ उवाच:
वासुदेवार्जुनौ कर्ण द्रष्टास्येकरथस्थितौ ||
५४ ख
सञ्जय़ उवाच:
सारथिर्यस्य वार्ष्णेय़ो गाण्डीवं यस्य कार्मुकम् |
५५ क
सञ्जय़ उवाच:
तं चेद्धन्तासि राधेय़ त्वं नो राजा भविष्यसि ||
५५ ख
सञ्जय़ उवाच:
एष संशप्तकाहूतस्तानेवाभिमुखो गतः |
५६ क
सञ्जय़ उवाच:
करोति कदनं चैषां सङ्ग्रामे द्विषतां वली |
५६ ख
सञ्जय़ उवाच:
इति व्रुवाणं मद्रेशं कर्णः प्राहातिमन्युमान् ||
५६ ग
सञ्जय़ उवाच:
पश्य संशप्तकैः क्रुद्धैः सर्वतः समभिद्रुतः |
५७ क
सञ्जय़ उवाच:
एष सूर्य इवाम्भोदैश्छन्नः पार्थो न दृश्यते |
५७ ख
सञ्जय़ उवाच:
एतदन्तोऽर्जुनः शल्य निमग्नः शोकसागरे ||
५७ ग
शल्य उवाच:
वरुणं कोऽम्भसा हन्यादिन्धनेन च पावकम् |
५८ क
शल्य उवाच:
को वानिलं निगृह्णीय़ात्पिवेद्वा को महार्णवम् ||
५८ ख
शल्य उवाच:
ईदृग्रूपमहं मन्ये पार्थस्य युधि निग्रहम् |
५९ क
शल्य उवाच:
न हि शक्योऽर्जुनो जेतुं सेन्द्रैः सर्वैः सुरासुरैः ||
५९ ख
शल्य उवाच:
अथैवं परितोषस्ते वाचोक्त्वा सुमना भव |
६० क
शल्य उवाच:
न स शक्यो युधा जेतुमन्यं कुरु मनोरथम् ||
६० ख
शल्य उवाच:
वाहुभ्यामुद्धरेद्भूमिं दहेत्क्रुद्ध इमाः प्रजाः |
६१ क
शल्य उवाच:
पातय़ेत्त्रिदिवाद्देवान्योऽर्जुनं समरे जय़ेत् ||
६१ ख
शल्य उवाच:
पश्य कुन्तीसुतं वीरं भीममक्लिष्टकारिणम् |
६२ क
शल्य उवाच:
प्रभासन्तं महावाहुं स्थितं मेरुमिवाचलम् ||
६२ ख
शल्य उवाच:
अमर्षी नित्यसंरव्धश्चिरं वैरमनुस्मरन् |
६३ क
शल्य उवाच:
एष भीमो जय़प्रेप्सुर्युधि तिष्ठति वीर्यवान् ||
६३ ख
शल्य उवाच:
एष धर्मभृतां श्रेष्ठो धर्मराजो युधिष्ठिरः |
६४ क
शल्य उवाच:
तिष्ठत्यसुकरः सङ्ख्ये परैः परपुरञ्जय़ः ||
६४ ख
शल्य उवाच:
एतौ च पुरुषव्याघ्रावश्विनाविव सोदरौ |
६५ क
शल्य उवाच:
नकुलः सहदेवश्च तिष्ठतो युधि दुर्जय़ौ ||
६५ ख
शल्य उवाच:
दृश्यन्त एते कार्ष्णेय़ाः पञ्च पञ्चाचला इव |
६६ क
शल्य उवाच:
व्यवस्थिता योत्स्यमानाः सर्वेऽर्जुनसमा युधि ||
६६ ख
शल्य उवाच:
एते द्रुपदपुत्राश्च धृष्टद्युम्नपुरोगमाः |
६७ क
शल्य उवाच:
हीनाः सत्यजिता वीरास्तिष्ठन्ति परमौजसः ||
६७ ख
शल्य उवाच:
इति संवदतोरेव तय़ोः पुरुषसिंहय़ोः |
६८ क
शल्य उवाच:
ते सेने समसज्जेतां गङ्गाय़मुनवद्भृशम् ||
६८ ख