दुर्योधन उवाच:
न ह्येको वहुभिर्न्याय़्यो वीर योधय़ितुं युधि ||
४९ ख
दुर्योधन उवाच:
न्यस्तवर्मा विशेषेण श्रान्तश्चाप्सु परिप्लुतः |
५० क
दुर्योधन उवाच:
भृशं विक्षतगात्रश्च हतवाहनसैनिकः ||
५० ख
युधिष्ठिर उवाच:
नाभूदिय़ं तव प्रज्ञा कथमेवं सुय़ोधन |
५१ क
युधिष्ठिर उवाच:
यदाभिमन्युं वहवो जघ्नुर्युधि महारथाः ||
५१ ख
युधिष्ठिर उवाच:
आमुञ्च कवचं वीर मूर्धजान्यमय़स्व च |
५२ क
युधिष्ठिर उवाच:
यच्चान्यदपि ते नास्ति तदप्यादत्स्व भारत |
५२ ख
युधिष्ठिर उवाच:
इममेकं च ते कामं वीर भूय़ो ददाम्यहम् ||
५२ ग
युधिष्ठिर उवाच:
पञ्चानां पाण्डवेय़ानां येन योद्धुमिहेच्छसि |
५३ क
युधिष्ठिर उवाच:
तं हत्वा वै भवान्राजा हतो वा स्वर्गमाप्नुहि |
५३ ख
युधिष्ठिर उवाच:
ऋते च जीविताद्वीर युद्धे किं कुर्म ते प्रिय़म् ||
५३ ग
सञ्जय़ उवाच:
ततस्तव सुतो राजन्वर्म जग्राह काञ्चनम् |
५४ क
सञ्जय़ उवाच:
विचित्रं च शिरस्त्राणं जाम्वूनदपरिष्कृतम् ||
५४ ख
सञ्जय़ उवाच:
सोऽववद्धशिरस्त्राणः शुभकाञ्चनवर्मभृत् |
५५ क
सञ्जय़ उवाच:
रराज राजन्पुत्रस्ते काञ्चनः शैलराडिव ||
५५ ख
सञ्जय़ उवाच:
संनद्धः स गदी राजन्सज्जः सङ्ग्राममूर्धनि |
५६ क
सञ्जय़ उवाच:
अव्रवीत्पाण्डवान्सर्वान्पुत्रो दुर्योधनस्तव ||
५६ ख
सञ्जय़ उवाच:
भ्रातॄणां भवतामेको युध्यतां गदय़ा मय़ा |
५७ क
सञ्जय़ उवाच:
सहदेवेन वा योत्स्ये भीमेन नकुलेन वा ||
५७ ख
सञ्जय़ उवाच:
अथ वा फल्गुनेनाद्य त्वय़ा वा भरतर्षभ |
५८ क
सञ्जय़ उवाच:
योत्स्येऽहं सङ्गरं प्राप्य विजेष्ये च रणाजिरे ||
५८ ख
सञ्जय़ उवाच:
अहमद्य गमिष्यामि वैरस्यान्तं सुदुर्गमम् |
५९ क
सञ्जय़ उवाच:
गदय़ा पुरुषव्याघ्र हेमपट्टविनद्धय़ा ||
५९ ख
सञ्जय़ उवाच:
गदाय़ुद्धे न मे कश्चित्सदृशोऽस्तीति चिन्तय़ |
६० क
सञ्जय़ उवाच:
गदय़ा वो हनिष्यामि सर्वानेव समागतान् |
६० ख
सञ्जय़ उवाच:
गृह्णातु स गदां यो वै युध्यतेऽद्य मय़ा सह ||
६० ग