chevron_left शान्ति पर्व अध्याय ३१
वैशम्पाय़न उवाच:
ततो राजा पाण्डुसुतो नारदं प्रत्यभाषत |
१ क
वैशम्पाय़न उवाच:
भगवञ्श्रोतुमिच्छामि सुवर्णष्ठीविसम्भवम् ||
१ ख
वैशम्पाय़न उवाच:
एवमुक्तः स च मुनिर्धर्मराजेन नारदः |
२ क
वैशम्पाय़न उवाच:
आचचक्षे यथा वृत्तं सुवर्णष्ठीविनं प्रति ||
२ ख
वैशम्पाय़न उवाच:
एवमेतन्महाराज यथाय़ं केशवोऽव्रवीत् |
३ क
वैशम्पाय़न उवाच:
कार्यस्यास्य तु यच्छेषं तत्ते वक्ष्यामि पृच्छतः ||
३ ख
वैशम्पाय़न उवाच:
अहं च पर्वतश्चैव स्वस्रीय़ो मे महामुनिः |
४ क
वैशम्पाय़न उवाच:
वस्तुकामावभिगतौ सृञ्जय़ं जय़तां वरम् ||
४ ख
वैशम्पाय़न उवाच:
तत्र सम्पूजितौ तेन विधिदृष्टेन कर्मणा |
५ क
वैशम्पाय़न उवाच:
सर्वकामैः सुविहितौ निवसावोऽस्य वेश्मनि ||
५ ख
वैशम्पाय़न उवाच:
व्यतिक्रान्तासु वर्षासु समय़े गमनस्य च |
६ क
वैशम्पाय़न उवाच:
पर्वतो मामुवाचेदं काले वचनमर्थवत् ||
६ ख
वैशम्पाय़न उवाच:
आवामस्य नरेन्द्रस्य गृहे परमपूजितौ |
७ क
वैशम्पाय़न उवाच:
उषितौ समय़े व्रह्मंश्चिन्त्यतामत्र साम्प्रतम् ||
७ ख
वैशम्पाय़न उवाच:
ततोऽहमव्रुवं राजन्पर्वतं शुभदर्शनम् |
८ क
वैशम्पाय़न उवाच:
सर्वमेतत्त्वय़ि विभो भागिनेय़ोपपद्यते ||
८ ख
वैशम्पाय़न उवाच:
वरेण छन्द्यतां राजा लभतां यद्यदिच्छति |
९ क
वैशम्पाय़न उवाच:
आवय़ोस्तपसा सिद्धिं प्राप्नोतु यदि मन्यसे ||
९ ख
वैशम्पाय़न उवाच:
तत आहूय़ राजानं सृञ्जय़ं शुभदर्शनम् |
१० क
वैशम्पाय़न उवाच:
पर्वतोऽनुमतं वाक्यमुवाच मुनिपुङ्गवः ||
१० ख
वैशम्पाय़न उवाच:
प्रीतौ स्वो नृप सत्कारैस्तव ह्यार्जवसम्भृतैः |
११ क
वैशम्पाय़न उवाच:
आवाभ्यामभ्यनुज्ञातो वरं नृवर चिन्तय़ ||
११ ख
वैशम्पाय़न उवाच:
देवानामविहिंसाय़ां यद्भवेन्मानुषक्षमम् |
१२ क
वैशम्पाय़न उवाच:
तद्गृहाण महाराज पूजार्हो नौ मतो भवान् ||
१२ ख
सृञ्जय़ उवाच:
प्रीतौ भवन्तौ यदि मे कृतमेतावता मम |
१३ क
सृञ्जय़ उवाच:
एष एव परो लाभो निर्वृत्तो मे महाफलः ||
१३ ख
नारद उवाच:
तमेवंवादिनं भूय़ः पर्वतः प्रत्यभाषत |
१४ क
नारद उवाच:
वृणीष्व राजन्सङ्कल्पो यस्ते हृदि चिरं स्थितः ||
१४ ख
सृञ्जय़ उवाच:
अभीप्सामि सुतं वीरं वीर्यवन्तं दृढव्रतम् |
१५ क
सृञ्जय़ उवाच:
आय़ुष्मन्तं महाभागं देवराजसमद्युतिम् ||
१५ ख
पर्वत उवाच:
भविष्यत्येष ते कामो न त्वाय़ुष्मान्भविष्यति |
१६ क
पर्वत उवाच:
देवराजाभिभूत्यर्थं सङ्कल्पो ह्येष ते हृदि ||
१६ ख
पर्वत उवाच:
सुवर्णष्ठीवनाच्चैव स्वर्णष्ठीवी भविष्यति |
१७ क
पर्वत उवाच:
रक्ष्यश्च देवराजात्स देवराजसमद्युतिः ||
१७ ख
नारद उवाच:
तच्छ्रुत्वा सृञ्जय़ो वाक्यं पर्वतस्य महात्मनः |
१८ क
नारद उवाच:
प्रसादय़ामास तदा नैतदेवं भवेदिति ||
१८ ख
नारद उवाच:
आय़ुष्मान्मे भवेत्पुत्रो भवतस्तपसा मुने |
१९ क
नारद उवाच:
न च तं पर्वतः किञ्चिदुवाचेन्द्रव्यपेक्षय़ा ||
१९ ख
नारद उवाच:
तमहं नृपतिं दीनमव्रुवं पुनरेव तु |
२० क
नारद उवाच:
स्मर्तव्योऽहं महाराज दर्शय़िष्यामि ते स्मृतः ||
२० ख
नारद उवाच:
अहं ते दय़ितं पुत्रं प्रेतराजवशं गतम् |
२१ क
नारद उवाच:
पुनर्दास्यामि तद्रूपं मा शुचः पृथिवीपते ||
२१ ख
नारद उवाच:
एवमुक्त्वा तु नृपतिं प्रय़ातौ स्वो यथेप्सितम् |
२२ क
नारद उवाच:
सृञ्जय़श्च यथाकामं प्रविवेश स्वमन्दिरम् ||
२२ ख
नारद उवाच:
सृञ्जय़स्याथ राजर्षेः कस्मिंश्चित्कालपर्यये |
२३ क
नारद उवाच:
जज्ञे पुत्रो महावीर्यस्तेजसा प्रज्वलन्निव ||
२३ ख
नारद उवाच:
ववृधे स यथाकालं सरसीव महोत्पलम् |
२४ क
नारद उवाच:
वभूव काञ्चनष्ठीवी यथार्थं नाम तस्य तत् ||
२४ ख
नारद उवाच:
तदद्भुततमं लोके पप्रथे कुरुसत्तम |
२५ क
नारद उवाच:
वुवुधे तच्च देवेन्द्रो वरदानं महात्मनोः ||
२५ ख
नारद उवाच:
ततस्त्वभिभवाद्भीतो वृहस्पतिमते स्थितः |
२६ क
नारद उवाच:
कुमारस्यान्तरप्रेक्षी वभूव वलवृत्रहा ||
२६ ख
नारद उवाच:
चोदय़ामास वज्रं स दिव्यास्त्रं मूर्तिसंस्थितम् |
२७ क
नारद उवाच:
व्याघ्रो भूत्वा जहीमं त्वं राजपुत्रमिति प्रभो ||
२७ ख
नारद उवाच:
विवृद्धः किल वीर्येण मामेषोऽभिभविष्यति |
२८ क
नारद उवाच:
सृञ्जय़स्य सुतो वज्र यथैनं पर्वतो ददौ ||
२८ ख
नारद उवाच:
एवमुक्तस्तु शक्रेण वज्रः परपुरञ्जय़ः |
२९ क
नारद उवाच:
कुमारस्यान्तरप्रेक्षी नित्यमेवान्वपद्यत ||
२९ ख
नारद उवाच:
सृञ्जय़ोऽपि सुतं प्राप्य देवराजसमद्युतिम् |
३० क
नारद उवाच:
हृष्टः सान्तःपुरो राजा वननित्योऽभवत्तदा ||
३० ख
नारद उवाच:
ततो भागीरथीतीरे कदाचिद्वननिर्झरे |
३१ क
नारद उवाच:
धात्रीद्वितीय़ो वालः स क्रीडार्थं पर्यधावत ||
३१ ख
नारद उवाच:
पञ्चवर्षकदेशीय़ो वालो नागेन्द्रविक्रमः |
३२ क
नारद उवाच:
सहसोत्पतितं व्याघ्रमाससाद महावलः ||
३२ ख
नारद उवाच:
तेन चैव विनिष्पिष्टो वेपमानो नृपात्मजः |
३३ क
नारद उवाच:
व्यसुः पपात मेदिन्यां ततो धात्री विचुक्रुशे ||
३३ ख
नारद उवाच:
हत्वा तु राजपुत्रं स तत्रैवान्तरधीय़त |
३४ क
नारद उवाच:
शार्दूलो देवराजस्य माय़यान्तर्हितस्तदा ||
३४ ख
नारद उवाच:
धात्र्यास्तु निनदं श्रुत्वा रुदत्याः परमार्तवत् |
३५ क
नारद उवाच:
अभ्यधावत तं देशं स्वय़मेव महीपतिः ||
३५ ख
नारद उवाच:
स ददर्श गतासुं तं शय़ानं पीतशोणितम् |
३६ क
नारद उवाच:
कुमारं विगतानन्दं निशाकरमिव च्युतम् ||
३६ ख
नारद उवाच:
स तमुत्सङ्गमारोप्य परिपीडितवक्षसम् |
३७ क
नारद उवाच:
पुत्रं रुधिरसंसिक्तं पर्यदेवय़दातुरः ||
३७ ख
नारद उवाच:
ततस्ता मातरस्तस्य रुदन्त्यः शोककर्शिताः |
३८ क
नारद उवाच:
अभ्यधावन्त तं देशं यत्र राजा स सृञ्जय़ः ||
३८ ख
नारद उवाच:
ततः स राजा सस्मार मामन्तर्गतमानसः |
३९ क
नारद उवाच:
तच्चाहं चिन्तितं ज्ञात्वा गतवांस्तस्य दर्शनम् ||
३९ ख
नारद उवाच:
स मय़ैतानि वाक्यानि श्रावितः शोकलालसः |
४० क
नारद उवाच:
यानि ते यदुवीरेण कथितानि महीपते ||
४० ख
नारद उवाच:
सञ्जीवितश्चापि मय़ा वासवानुमते तदा |
४१ क
नारद उवाच:
भवितव्यं तथा तच्च न तच्छक्यमतोऽन्यथा ||
४१ ख
नारद उवाच:
अत ऊर्ध्वं कुमारः स स्वर्णष्ठीवी महाय़शाः |
४२ क
नारद उवाच:
चित्तं प्रसादय़ामास पितुर्मातुश्च वीर्यवान् ||
४२ ख
नारद उवाच:
कारय़ामास राज्यं स पितरि स्वर्गते विभुः |
४३ क
नारद उवाच:
वर्षाणामेकशतवत्सहस्रं भीमविक्रमः ||
४३ ख
नारद उवाच:
तत इष्ट्वा महाय़ज्ञैर्वहुभिर्भूरिदक्षिणैः |
४४ क
नारद उवाच:
तर्पय़ामास देवांश्च पितॄंश्चैव महाद्युतिः ||
४४ ख
नारद उवाच:
उत्पाद्य च वहून्पुत्रान्कुलसन्तानकारिणः |
४५ क
नारद उवाच:
कालेन महता राजन्कालधर्ममुपेय़िवान् ||
४५ ख
नारद उवाच:
स त्वं राजेन्द्र सञ्जातं शोकमेतन्निवर्तय़ |
४६ क
नारद उवाच:
यथा त्वां केशवः प्राह व्यासश्च सुमहातपाः ||
४६ ख
नारद उवाच:
पितृपैतामहं राज्यमास्थाय़ दुरमुद्वह |
४७ क
नारद उवाच:
इष्ट्वा पुण्यैर्महाय़ज्ञैरिष्टाँल्लोकानवाप्स्यसि ||
४७ ख