chevron_left आश्रमवासिक पर्व अध्याय ३१
वैशम्पाय़न उवाच:
ततस्ते पाण्डवा दूरादवतीर्य पदातय़ः |
१ क
वैशम्पाय़न उवाच:
अभिजग्मुर्नरपतेराश्रमं विनय़ानताः ||
१ ख
वैशम्पाय़न उवाच:
स च पौरजनः सर्वो ये च राष्ट्रनिवासिनः |
२ क
वैशम्पाय़न उवाच:
स्त्रिय़श्च कुरुमुख्यानां पद्भिरेवान्वय़ुस्तदा ||
२ ख
वैशम्पाय़न उवाच:
आश्रमं ते ततो जग्मुर्धृतराष्ट्रस्य पाण्डवाः |
३ क
वैशम्पाय़न उवाच:
शून्यं मृगगणाकीर्णं कदलीवनशोभितम् ||
३ ख
वैशम्पाय़न उवाच:
ततस्तत्र समाजग्मुस्तापसा विविधव्रताः |
४ क
वैशम्पाय़न उवाच:
पाण्डवानागतान्द्रष्टुं कौतूहलसमन्विताः ||
४ ख
वैशम्पाय़न उवाच:
तानपृच्छत्ततो राजा क्वासौ कौरववंशभृत् |
५ क
वैशम्पाय़न उवाच:
पिता ज्येष्ठो गतोऽस्माकमिति वाष्पपरिप्लुतः ||
५ ख
वैशम्पाय़न उवाच:
तमूचुस्ते ततो वाक्यं यमुनामवगाहितुम् |
६ क
वैशम्पाय़न उवाच:
पुष्पाणामुदकुम्भस्य चार्थे गत इति प्रभो ||
६ ख
वैशम्पाय़न उवाच:
तैराख्यातेन मार्गेण ततस्ते प्रय़युस्तदा |
७ क
वैशम्पाय़न उवाच:
ददृशुश्चाविदूरे तान्सर्वानथ पदातय़ः ||
७ ख
वैशम्पाय़न उवाच:
ततस्ते सत्वरा जग्मुः पितुर्दर्शनकाङ्क्षिणः |
८ क
वैशम्पाय़न उवाच:
सहदेवस्तु वेगेन प्राधावद्येन सा पृथा ||
८ ख
वैशम्पाय़न उवाच:
सस्वनं प्ररुदन्धीमान्मातुः पादावुपस्पृशन् |
९ क
वैशम्पाय़न उवाच:
सा च वाष्पाविलमुखी प्रददर्श प्रिय़ं सुतम् ||
९ ख
वैशम्पाय़न उवाच:
वाहुभ्यां सम्परिष्वज्य समुन्नाम्य च पुत्रकम् |
१० क
वैशम्पाय़न उवाच:
गान्धार्याः कथय़ामास सहदेवमुपस्थितम् ||
१० ख
वैशम्पाय़न उवाच:
अनन्तरं च राजानं भीमसेनमथार्जुनम् |
११ क
वैशम्पाय़न उवाच:
नकुलं च पृथा दृष्ट्वा त्वरमाणोपचक्रमे ||
११ ख
वैशम्पाय़न उवाच:
सा ह्यग्रेऽगच्छत तय़ोर्दम्पत्योर्हतपुत्रय़ोः |
१२ क
वैशम्पाय़न उवाच:
कर्षन्ती तौ ततस्ते तां दृष्ट्वा संन्यपतन्भुवि ||
१२ ख
वैशम्पाय़न उवाच:
तान्राजा स्वरय़ोगेन स्पर्शेन च महामनाः |
१३ क
वैशम्पाय़न उवाच:
प्रत्यभिज्ञाय़ मेधावी समाश्वासय़त प्रभुः ||
१३ ख
वैशम्पाय़न उवाच:
ततस्ते वाष्पमुत्सृज्य गान्धारीसहितं नृपम् |
१४ क
वैशम्पाय़न उवाच:
उपतस्थुर्महात्मानो मातरं च यथाविधि ||
१४ ख
वैशम्पाय़न उवाच:
सर्वेषां तोय़कलशाञ्जगृहुस्ते स्वय़ं तदा |
१५ क
वैशम्पाय़न उवाच:
पाण्डवा लव्धसञ्ज्ञास्ते मात्रा चाश्वासिताः पुनः ||
१५ ख
वैशम्पाय़न उवाच:
ततो नार्यो नृसिंहानां स च योधजनस्तदा |
१६ क
वैशम्पाय़न उवाच:
पौरजानपदाश्चैव ददृशुस्तं नराधिपम् ||
१६ ख
वैशम्पाय़न उवाच:
निवेदय़ामास तदा जनं तं नामगोत्रतः |
१७ क
वैशम्पाय़न उवाच:
युधिष्ठिरो नरपतिः स चैनान्प्रत्यपूजय़त् ||
१७ ख
वैशम्पाय़न उवाच:
स तैः परिवृतो मेने हर्षवाष्पाविलेक्षणः |
१८ क
वैशम्पाय़न उवाच:
राजात्मानं गृहगतं पुरेव गजसाह्वय़े ||
१८ ख
वैशम्पाय़न उवाच:
अभिवादितो वधूभिश्च कृष्णाद्याभिः स पार्थिवः |
१९ क
वैशम्पाय़न उवाच:
गान्धार्या सहितो धीमान्कुन्त्या च प्रत्यनन्दत ||
१९ ख
वैशम्पाय़न उवाच:
ततश्चाश्रममागच्छत्सिद्धचारणसेवितम् |
२० क
वैशम्पाय़न उवाच:
दिदृक्षुभिः समाकीर्णं नभस्तारागणैरिव ||
२० ख