chevron_left सभा पर्व अध्याय ३१
वैशम्पाय़न उवाच:
स गत्वा हास्तिनपुरं नकुलः समितिञ्जय़ः |
१ क
वैशम्पाय़न उवाच:
भीष्ममामन्त्रय़ामास धृतराष्ट्रं च पाण्डवः ||
१ ख
वैशम्पाय़न उवाच:
प्रय़युः प्रीतमनसो यज्ञं व्रह्मपुरःसराः |
२ क
वैशम्पाय़न उवाच:
संश्रुत्य धर्मराजस्य यज्ञं यज्ञविदस्तदा ||
२ ख
वैशम्पाय़न उवाच:
अन्ये च शतशस्तुष्टैर्मनोभिर्मनुजर्षभ |
३ क
वैशम्पाय़न उवाच:
द्रष्टुकामाः सभां चैव धर्मराजं च पाण्डवम् ||
३ ख
वैशम्पाय़न उवाच:
दिग्भ्यः सर्वे समापेतुः पार्थिवास्तत्र भारत |
४ क
वैशम्पाय़न उवाच:
समुपादाय़ रत्नानि विविधानि महान्ति च ||
४ ख
वैशम्पाय़न उवाच:
धृतराष्ट्रश्च भीष्मश्च विदुरश्च महामतिः |
५ क
वैशम्पाय़न उवाच:
दुर्योधनपुरोगाश्च भ्रातरः सर्व एव ते ||
५ ख
वैशम्पाय़न उवाच:
सत्कृत्यामन्त्रिताः सर्वे आचार्यप्रमुखा नृपाः |
६ क
वैशम्पाय़न उवाच:
गान्धारराजः सुवलः शकुनिश्च महावलः ||
६ ख
वैशम्पाय़न उवाच:
अचलो वृषकश्चैव कर्णश्च रथिनां वरः |
७ क
वैशम्पाय़न उवाच:
ऋतः शल्यो मद्रराजो वाह्लिकश्च महारथः ||
७ ख
वैशम्पाय़न उवाच:
सोमदत्तोऽथ कौरव्यो भूरिर्भूरिश्रवाः शलः |
८ क
वैशम्पाय़न उवाच:
अश्वत्थामा कृपो द्रोणः सैन्धवश्च जय़द्रथः ||
८ ख
वैशम्पाय़न उवाच:
यज्ञसेनः सपुत्रश्च शाल्वश्च वसुधाधिपः |
९ क
वैशम्पाय़न उवाच:
प्राग्ज्योतिषश्च नृपतिर्भगदत्तो महाय़शाः ||
९ ख
वैशम्पाय़न उवाच:
सह सर्वैस्तथा म्लेच्छैः सागरानूपवासिभिः |
१० क
वैशम्पाय़न उवाच:
पार्वतीय़ाश्च राजानो राजा चैव वृहद्वलः ||
१० ख
वैशम्पाय़न उवाच:
पौण्ड्रको वासुदेवश्च वङ्गः कालिङ्गकस्तथा |
११ क
वैशम्पाय़न उवाच:
आकर्षः कुन्तलश्चैव वानवास्यान्ध्रकास्तथा ||
११ ख
वैशम्पाय़न उवाच:
द्रविडाः सिंहलाश्चैव राजा काश्मीरकस्तथा |
१२ क
वैशम्पाय़न उवाच:
कुन्तिभोजो महातेजाः सुह्मश्च सुमहावलः ||
१२ ख
वैशम्पाय़न उवाच:
वाह्लिकाश्चापरे शूरा राजानः सर्व एव ते |
१३ क
वैशम्पाय़न उवाच:
विराटः सह पुत्रैश्च माचेल्लश्च महारथः |
१३ ख
वैशम्पाय़न उवाच:
राजानो राजपुत्राश्च नानाजनपदेश्वराः ||
१३ ग
वैशम्पाय़न उवाच:
शिशुपालो महावीर्यः सह पुत्रेण भारत |
१४ क
वैशम्पाय़न उवाच:
आगच्छत्पाण्डवेय़स्य यज्ञं सङ्ग्रामदुर्मदः ||
१४ ख
वैशम्पाय़न उवाच:
रामश्चैवानिरुद्धश्च वभ्रुश्च सहसारणः |
१५ क
वैशम्पाय़न उवाच:
गदप्रद्युम्नसाम्वाश्च चारुदेष्णश्च वीर्यवान् ||
१५ ख
वैशम्पाय़न उवाच:
उल्मुको निशठश्चैव वीरः प्राद्युम्निरेव च |
१६ क
वैशम्पाय़न उवाच:
वृष्णय़ो निखिलेनान्ये समाजग्मुर्महारथाः ||
१६ ख
वैशम्पाय़न उवाच:
एते चान्ये च वहवो राजानो मध्यदेशजाः |
१७ क
वैशम्पाय़न उवाच:
आजग्मुः पाण्डुपुत्रस्य राजसूय़ं महाक्रतुम् ||
१७ ख
वैशम्पाय़न उवाच:
ददुस्तेषामावसथान्धर्मराजस्य शासनात् |
१८ क
वैशम्पाय़न उवाच:
वहुकक्ष्यान्वितान्राजन्दीर्घिकावृक्षशोभितान् ||
१८ ख
वैशम्पाय़न उवाच:
तथा धर्मात्मजस्तेषां चक्रे पूजामनुत्तमाम् |
१९ क
वैशम्पाय़न उवाच:
सत्कृताश्च यथोद्दिष्टाञ्जग्मुरावसथान्नृपाः ||
१९ ख
वैशम्पाय़न उवाच:
कैलासशिखरप्रख्यान्मनोज्ञान्द्रव्यभूषितान् |
२० क
वैशम्पाय़न उवाच:
सर्वतः संवृतानुच्चैः प्राकारैः सुकृतैः सितैः ||
२० ख
वैशम्पाय़न उवाच:
सुवर्णजालसंवीतान्मणिकुट्टिमशोभितान् |
२१ क
वैशम्पाय़न उवाच:
सुखारोहणसोपानान्महासनपरिच्छदान् ||
२१ ख
वैशम्पाय़न उवाच:
स्रग्दामसमवच्छन्नानुत्तमागुरुगन्धिनः |
२२ क
वैशम्पाय़न उवाच:
हंसांशुवर्णसदृशानाय़ोजनसुदर्शनान् ||
२२ ख
वैशम्पाय़न उवाच:
असम्वाधान्समद्वारान्युतानुच्चावचैर्गुणैः |
२३ क
वैशम्पाय़न उवाच:
वहुधातुपिनद्धाङ्गान्हिमवच्छिखरानिव ||
२३ ख
वैशम्पाय़न उवाच:
विश्रान्तास्ते ततोऽपश्यन्भूमिपा भूरिदक्षिणम् |
२४ क
वैशम्पाय़न उवाच:
वृतं सदस्यैर्वहुभिर्धर्मराजं युधिष्ठिरम् ||
२४ ख
वैशम्पाय़न उवाच:
तत्सदः पार्थिवैः कीर्णं व्राह्मणैश्च महात्मभिः |
२५ क
वैशम्पाय़न उवाच:
भ्राजते स्म तदा राजन्नाकपृष्ठमिवामरैः ||
२५ ख