युधिष्ठिर उवाच:
उत सन्तमसन्तं च वालं वृद्धं च सञ्जय़ |
१ क
युधिष्ठिर उवाच:
उतावलं वलीय़ांसं धाता प्रकुरुते वशे ||
१ ख
युधिष्ठिर उवाच:
उत वालाय़ पाण्डित्यं पण्डिताय़ोत वालताम् |
२ क
युधिष्ठिर उवाच:
ददाति सर्वमीशानः पुरस्ताच्छुक्रमुच्चरन् ||
२ ख
युधिष्ठिर उवाच:
अलं विज्ञापनाय़ स्यादाचक्षीथा यथातथम् |
३ क
युधिष्ठिर उवाच:
अथो मन्त्रं मन्त्रय़ित्वा अन्योन्येनातिहृष्टवत् ||
३ ख
युधिष्ठिर उवाच:
गावल्गणे कुरून्गत्वा धृतराष्ट्रं महावलम् |
४ क
युधिष्ठिर उवाच:
अभिवाद्योपसङ्गृह्य ततः पृच्छेरनामय़म् ||
४ ख
युधिष्ठिर उवाच:
व्रूय़ाश्चैनं त्वमासीनं कुरुभिः परिवारितम् |
५ क
युधिष्ठिर उवाच:
तवैव राजन्वीर्येण सुखं जीवन्ति पाण्डवाः ||
५ ख
युधिष्ठिर उवाच:
तव प्रसादाद्वालास्ते प्राप्ता राज्यमरिन्दम |
६ क
युधिष्ठिर उवाच:
राज्ये तान्स्थापय़ित्वाग्रे नोपेक्षीर्विनशिष्यतः ||
६ ख
युधिष्ठिर उवाच:
सर्वमप्येतदेकस्य नालं सञ्जय़ कस्यचित् |
७ क
युधिष्ठिर उवाच:
तात संहत्य जीवामो मा द्विषद्भ्यो वशं गमः ||
७ ख
युधिष्ठिर उवाच:
तथा भीष्मं शान्तनवं भारतानां पितामहम् |
८ क
युधिष्ठिर उवाच:
शिरसाभिवदेथास्त्वं मम नाम प्रकीर्तय़न् ||
८ ख
युधिष्ठिर उवाच:
अभिवाद्य च वक्तव्यस्ततोऽस्माकं पितामहः |
९ क
युधिष्ठिर उवाच:
भवता शन्तनोर्वंशो निमग्नः पुनरुद्धृतः ||
९ ख
युधिष्ठिर उवाच:
स त्वं कुरु तथा तात स्वमतेन पितामह |
१० क
युधिष्ठिर उवाच:
यथा जीवन्ति ते पौत्राः प्रीतिमन्तः परस्परम् ||
१० ख
युधिष्ठिर उवाच:
तथैव विदुरं व्रूय़ाः कुरूणां मन्त्रधारिणम् |
११ क
युधिष्ठिर उवाच:
अय़ुद्धं सौम्य भाषस्व हितकामो युधिष्ठिरः ||
११ ख
युधिष्ठिर उवाच:
अथो सुय़ोधनं व्रूय़ा राजपुत्रममर्षणम् |
१२ क
युधिष्ठिर उवाच:
मध्ये कुरूणामासीनमनुनीय़ पुनः पुनः ||
१२ ख
युधिष्ठिर उवाच:
अपश्यन्मामुपेक्षन्तं कृष्णामेकां सभागताम् |
१३ क
युधिष्ठिर उवाच:
तद्दुःखमतितिक्षाम मा वधीष्म कुरूनिति ||
१३ ख
युधिष्ठिर उवाच:
एवं पूर्वापरान्क्लेशानतितिक्षन्त पाण्डवाः |
१४ क
युधिष्ठिर उवाच:
यथा वलीय़सः सन्तस्तत्सर्वं कुरवो विदुः ||
१४ ख
युधिष्ठिर उवाच:
यन्नः प्राव्राजय़ः सौम्य अजिनैः प्रतिवासितान् |
१५ क
युधिष्ठिर उवाच:
तद्दुःखमतितिक्षाम मा वधीष्म कुरूनिति ||
१५ ख
युधिष्ठिर उवाच:
यत्तत्सभाय़ामाक्रम्य कृष्णां केशेष्वधर्षय़त् |
१६ क
युधिष्ठिर उवाच:
दुःशासनस्तेऽनुमते तच्चास्माभिरुपेक्षितम् ||
१६ ख
युधिष्ठिर उवाच:
यथोचितं स्वकं भागं लभेमहि परन्तप |
१७ क
युधिष्ठिर उवाच:
निवर्तय़ परद्रव्ये वुद्धिं गृद्धां नरर्षभ ||
१७ ख
युधिष्ठिर उवाच:
शान्तिरेवं भवेद्राजन्प्रीतिश्चैव परस्परम् |
१८ क
युधिष्ठिर उवाच:
राज्यैकदेशमपि नः प्रय़च्छ शममिच्छताम् ||
१८ ख
युधिष्ठिर उवाच:
कुशस्थलं वृकस्थलमासन्दी वारणावतम् |
१९ क
युधिष्ठिर उवाच:
अवसानं भवेदत्र किञ्चिदेव तु पञ्चमम् ||
१९ ख
युधिष्ठिर उवाच:
भ्रातॄणां देहि पञ्चानां ग्रामान्पञ्च सुय़ोधन |
२० क
युधिष्ठिर उवाच:
शान्तिर्नोऽस्तु महाप्राज्ञ ज्ञातिभिः सह सञ्जय़ ||
२० ख
युधिष्ठिर उवाच:
भ्राता भ्रातरमन्वेतु पिता पुत्रेण युज्यताम् |
२१ क
युधिष्ठिर उवाच:
स्मय़मानाः समाय़ान्तु पाञ्चालाः कुरुभिः सह ||
२१ ख
युधिष्ठिर उवाच:
अक्षतान्कुरुपाञ्चालान्पश्येम इति कामय़े |
२२ क
युधिष्ठिर उवाच:
सर्वे सुमनसस्तात शाम्याम भरतर्षभ ||
२२ ख
युधिष्ठिर उवाच:
अलमेव शमाय़ास्मि तथा युद्धाय़ सञ्जय़ |
२३ क
युधिष्ठिर उवाच:
धर्मार्थय़ोरलं चाहं मृदवे दारुणाय़ च ||
२३ ख