chevron_left भीष्म पर्व अध्याय ३१
श्रीभगवानु उवाच:
इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूय़वे |
१ क
श्रीभगवानु उवाच:
ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ||
१ ख
श्रीभगवानु उवाच:
राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् |
२ क
श्रीभगवानु उवाच:
प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ||
२ ख
श्रीभगवानु उवाच:
अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप |
३ क
श्रीभगवानु उवाच:
अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ||
३ ख
श्रीभगवानु उवाच:
मय़ा ततमिदं सर्वं जगदव्यक्तमूर्तिना |
४ क
श्रीभगवानु उवाच:
मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ||
४ ख
श्रीभगवानु उवाच:
न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् |
५ क
श्रीभगवानु उवाच:
भूतभृन्न च भूतस्थो ममात्मा भूतभावनः ||
५ ख
श्रीभगवानु उवाच:
यथाकाशस्थितो नित्यं वाय़ुः सर्वत्रगो महान् |
६ क
श्रीभगवानु उवाच:
तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय़ ||
६ ख
श्रीभगवानु उवाच:
सर्वभूतानि कौन्तेय़ प्रकृतिं यान्ति मामिकाम् |
७ क
श्रीभगवानु उवाच:
कल्पक्षय़े पुनस्तानि कल्पादौ विसृजाम्यहम् ||
७ ख
श्रीभगवानु उवाच:
प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः |
८ क
श्रीभगवानु उवाच:
भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ||
८ ख
श्रीभगवानु उवाच:
न च मां तानि कर्माणि निवध्नन्ति धनञ्जय़ |
९ क
श्रीभगवानु उवाच:
उदासीनवदासीनमसक्तं तेषु कर्मसु ||
९ ख
श्रीभगवानु उवाच:
मय़ाध्यक्षेण प्रकृतिः सूय़ते सचराचरम् |
१० क
श्रीभगवानु उवाच:
हेतुनानेन कौन्तेय़ जगद्विपरिवर्तते ||
१० ख
श्रीभगवानु उवाच:
अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् |
११ क
श्रीभगवानु उवाच:
परं भावमजानन्तो मम भूतमहेश्वरम् ||
११ ख
श्रीभगवानु उवाच:
मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः |
१२ क
श्रीभगवानु उवाच:
राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ||
१२ ख
श्रीभगवानु उवाच:
महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः |
१३ क
श्रीभगवानु उवाच:
भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ||
१३ ख
श्रीभगवानु उवाच:
सततं कीर्तय़न्तो मां यतन्तश्च दृढव्रताः |
१४ क
श्रीभगवानु उवाच:
नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ||
१४ ख
श्रीभगवानु उवाच:
ज्ञानय़ज्ञेन चाप्यन्ये यजन्तो मामुपासते |
१५ क
श्रीभगवानु उवाच:
एकत्वेन पृथक्त्वेन वहुधा विश्वतोमुखम् ||
१५ ख
श्रीभगवानु उवाच:
अहं क्रतुरहं यज्ञः स्वधाहमहमौषधम् |
१६ क
श्रीभगवानु उवाच:
मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम् ||
१६ ख
श्रीभगवानु उवाच:
पिताहमस्य जगतो माता धाता पितामहः |
१७ क
श्रीभगवानु उवाच:
वेद्यं पवित्रमोङ्कार ऋक्साम यजुरेव च ||
१७ ख
श्रीभगवानु उवाच:
गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् |
१८ क
श्रीभगवानु उवाच:
प्रभवः प्रलय़ः स्थानं निधानं वीजमव्ययम् ||
१८ ख
श्रीभगवानु उवाच:
तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च |
१९ क
श्रीभगवानु उवाच:
अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ||
१९ ख
श्रीभगवानु उवाच:
त्रैविद्या मां सोमपाः पूतपापा; यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थय़न्ते |
२० क
श्रीभगवानु उवाच:
ते पुण्यमासाद्य सुरेन्द्रलोक; मश्नन्ति दिव्यान्दिवि देवभोगान् ||
२० ख
श्रीभगवानु उवाच:
ते तं भुक्त्वा स्वर्गलोकं विशालं; क्षीणे पुण्ये मर्त्यलोकं विशन्ति |
२१ क
श्रीभगवानु उवाच:
एवं त्रय़ीधर्ममनुप्रपन्ना; गतागतं कामकामा लभन्ते ||
२१ ख
श्रीभगवानु उवाच:
अनन्याश्चिन्तय़न्तो मां ये जनाः पर्युपासते |
२२ क
श्रीभगवानु उवाच:
तेषां नित्याभिय़ुक्तानां योगक्षेमं वहाम्यहम् ||
२२ ख
श्रीभगवानु उवाच:
येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धय़ान्विताः |
२३ क
श्रीभगवानु उवाच:
तेऽपि मामेव कौन्तेय़ यजन्त्यविधिपूर्वकम् ||
२३ ख
श्रीभगवानु उवाच:
अहं हि सर्वय़ज्ञानां भोक्ता च प्रभुरेव च |
२४ क
श्रीभगवानु उवाच:
न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ||
२४ ख
श्रीभगवानु उवाच:
यान्ति देवव्रता देवान्पितॄन्यान्ति पितृव्रताः |
२५ क
श्रीभगवानु उवाच:
भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ||
२५ ख
श्रीभगवानु उवाच:
पत्रं पुष्पं फलं तोय़ं यो मे भक्त्या प्रय़च्छति |
२६ क
श्रीभगवानु उवाच:
तदहं भक्त्युपहृतमश्नामि प्रय़तात्मनः ||
२६ ख
श्रीभगवानु उवाच:
यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् |
२७ क
श्रीभगवानु उवाच:
यत्तपस्यसि कौन्तेय़ तत्कुरुष्व मदर्पणम् ||
२७ ख
श्रीभगवानु उवाच:
शुभाशुभफलैरेवं मोक्ष्यसे कर्मवन्धनैः |
२८ क
श्रीभगवानु उवाच:
संन्यासय़ोगय़ुक्तात्मा विमुक्तो मामुपैष्यसि ||
२८ ख
श्रीभगवानु उवाच:
समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रिय़ः |
२९ क
श्रीभगवानु उवाच:
ये भजन्ति तु मां भक्त्या मय़ि ते तेषु चाप्यहम् ||
२९ ख
श्रीभगवानु उवाच:
अपि चेत्सुदुराचारो भजते मामनन्यभाक् |
३० क
श्रीभगवानु उवाच:
साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ||
३० ख
श्रीभगवानु उवाच:
क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति |
३१ क
श्रीभगवानु उवाच:
कौन्तेय़ प्रतिजानीहि न मे भक्तः प्रणश्यति ||
३१ ख
श्रीभगवानु उवाच:
मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापय़ोनय़ः |
३२ क
श्रीभगवानु उवाच:
स्त्रिय़ो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ||
३२ ख
श्रीभगवानु उवाच:
किं पुनर्व्राह्मणाः पुण्या भक्ता राजर्षय़स्तथा |
३३ क
श्रीभगवानु उवाच:
अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् ||
३३ ख
श्रीभगवानु उवाच:
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु |
३४ क
श्रीभगवानु उवाच:
मामेवैष्यसि युक्त्वैवमात्मानं मत्पराय़णः ||
३४ ख