chevron_left कर्ण पर्व अध्याय ३१
सञ्जय़ उवाच:
ततः परानीकभिदं व्यूहमप्रतिमं परैः |
१ क
सञ्जय़ उवाच:
समीक्ष्य कर्णः पार्थानां धृष्टद्युम्नाभिरक्षितम् ||
१ ख
सञ्जय़ उवाच:
प्रय़यौ रथघोषेण सिंहनादरवेण च |
२ क
सञ्जय़ उवाच:
वादित्राणां च निनदैः कम्पय़न्निव मेदिनीम् ||
२ ख
सञ्जय़ उवाच:
वेपमान इव क्रोधाद्युद्धशौण्डः परन्तपः |
३ क
सञ्जय़ उवाच:
पतिव्यूह्य महातेजा यथावद्भरतर्षभ ||
३ ख
सञ्जय़ उवाच:
व्यधमत्पाण्डवीं सेनामासुरीं मघवानिव |
४ क
सञ्जय़ उवाच:
युधिष्ठिरं चाभिभवन्नसपव्यं चकार ह ||
४ ख
धृतराष्ट्र उवाच:
कथं सञ्जय़ राधेय़ः प्रत्यव्यूहत पाण्डवान् |
५ क
धृतराष्ट्र उवाच:
धृष्टद्युम्नमुखान्वीरान्भीमसेनाभिरक्षितान् ||
५ ख
धृतराष्ट्र उवाच:
के च प्रपक्षौ पक्षौ वा मम सैन्यस्य सञ्जय़ |
६ क
धृतराष्ट्र उवाच:
प्रविभज्य यथान्याय़ं कथं वा समवस्थिताः ||
६ ख
धृतराष्ट्र उवाच:
कथं पाण्डुसुताश्चापि प्रत्यव्यूहन्त मामकान् |
७ क
धृतराष्ट्र उवाच:
कथं चैतन्महाय़ुद्धं प्रावर्तत सुदारुणम् ||
७ ख
धृतराष्ट्र उवाच:
क्व च वीभत्सुरभवद्यत्कर्णोऽय़ाद्युधिष्ठिरम् |
८ क
धृतराष्ट्र उवाच:
को ह्यर्जुनस्य सांनिध्ये शक्तोऽभ्येतुं युधिष्ठिरम् ||
८ ख
धृतराष्ट्र उवाच:
सर्वभूतानि यो ह्येकः खाण्डवे जितवान्पुरा |
९ क
धृतराष्ट्र उवाच:
कस्तमन्यत्र राधेय़ात्प्रतिय़ुध्येज्जिजीविषुः ||
९ ख
सञ्जय़ उवाच:
शृणु व्यूहस्य रचनामर्जुनश्च यथा गतः |
१० क
सञ्जय़ उवाच:
परिदाय़ नृपं तेभ्यः सङ्ग्रामश्चाभवद्यथा ||
१० ख
सञ्जय़ उवाच:
कृपः शारद्वतो राजन्मागधश्च तरस्विनः |
११ क
सञ्जय़ उवाच:
सात्वतः कृतवर्मा च दक्षिणं पक्षमाश्रिताः ||
११ ख
सञ्जय़ उवाच:
तेषां प्रपक्षे शकुनिरुलूकश्च महारथः |
१२ क
सञ्जय़ उवाच:
सादिभिर्विमलप्रासैस्तवानीकमरक्षताम् ||
१२ ख
सञ्जय़ उवाच:
गान्धारिभिरसम्भ्रान्तैः पार्वतीय़ैश्च दुर्जय़ैः |
१३ क
सञ्जय़ उवाच:
शलभानामिव व्रातैः पिशाचैरिव दुर्दृशैः ||
१३ ख
सञ्जय़ उवाच:
चतुस्त्रिंशत्सहस्राणि रथानामनिवर्तिनाम् |
१४ क
सञ्जय़ उवाच:
संशप्तका युद्धशौण्डा वामं पार्श्वमपालय़न् ||
१४ ख
सञ्जय़ उवाच:
समुच्चितास्तव सुतैः कृष्णार्जुनजिघांसवः |
१५ क
सञ्जय़ उवाच:
तेषां प्रपक्षः काम्वोजाः शकाश्च यवनैः सह ||
१५ ख
सञ्जय़ उवाच:
निदेशात्सूतपुत्रस्य सरथाः साश्वपत्तय़ः |
१६ क
सञ्जय़ उवाच:
आह्वय़न्तोऽर्जुनं तस्थुः केशवं च महावलम् ||
१६ ख
सञ्जय़ उवाच:
मध्येसेनामुखं कर्णो व्यवातिष्ठत दंशितः |
१७ क
सञ्जय़ उवाच:
चित्रवर्माङ्गदः स्रग्वी पालय़न्ध्वजिनीमुखम् ||
१७ ख
सञ्जय़ उवाच:
रक्ष्यमाणः सुसंरव्धैः पुत्रैः शस्त्रभृतां वरः |
१८ क
सञ्जय़ उवाच:
वाहिनीप्रमुखं वीरः सम्प्रकर्षन्नशोभत ||
१८ ख
सञ्जय़ उवाच:
अय़ोरत्निर्महावाहुः सूर्यवैश्वानरद्युतिः |
१९ क
सञ्जय़ उवाच:
महाद्विपस्कन्धगतः पिङ्गलः प्रिय़दर्शनः |
१९ ख
सञ्जय़ उवाच:
दुःशासनो वृतः सैन्यैः स्थितो व्यूहस्य पृष्ठतः ||
१९ ग
सञ्जय़ उवाच:
तमन्वय़ान्महाराज स्वय़ं दुर्योधनो नृपः |
२० क
सञ्जय़ उवाच:
चित्राश्वैश्चित्रसंनाहैः सोदर्यैरभिरक्षितः ||
२० ख
सञ्जय़ उवाच:
रक्ष्यमाणो महावीर्यैः सहितैर्मद्रकेकय़ैः |
२१ क
सञ्जय़ उवाच:
अशोभत महाराज देवैरिव शतक्रतुः ||
२१ ख
सञ्जय़ उवाच:
अश्वत्थामा कुरूणां च ये प्रवीरा महारथाः |
२२ क
सञ्जय़ उवाच:
नित्यमत्ताश्च मातङ्गाः शूरैर्म्लेच्छैरधिष्ठिताः |
२२ ख
सञ्जय़ उवाच:
अन्वय़ुस्तद्रथानीकं क्षरन्त इव तोय़दाः ||
२२ ग
सञ्जय़ उवाच:
ते ध्वजैर्वैजय़न्तीभिर्ज्वलद्भिः परमाय़ुधैः |
२३ क
सञ्जय़ उवाच:
सादिभिश्चास्थिता रेजुर्द्रुमवन्त इवाचलाः ||
२३ ख
सञ्जय़ उवाच:
तेषां पदातिनागानां पादरक्षाः सहस्रशः |
२४ क
सञ्जय़ उवाच:
पट्टिशासिधराः शूरा वभूवुरनिवर्तिनः ||
२४ ख
सञ्जय़ उवाच:
सादिभिः स्यन्दनैर्नागैरधिकं समलङ्कृतैः |
२५ क
सञ्जय़ उवाच:
स व्यूहराजो विवभौ देवासुरचमूपमः ||
२५ ख
सञ्जय़ उवाच:
वार्हस्पत्यः सुविहितो नाय़केन विपश्चिता |
२६ क
सञ्जय़ उवाच:
नृत्यतीव महाव्यूहः परेषामादधद्भय़म् ||
२६ ख
सञ्जय़ उवाच:
तस्य पक्षप्रपक्षेभ्यो निष्पतन्ति युय़ुत्सवः |
२७ क
सञ्जय़ उवाच:
पत्त्यश्वरथमातङ्गाः प्रावृषीव वलाहकाः ||
२७ ख
सञ्जय़ उवाच:
ततः सेनामुखे कर्णं दृष्ट्वा राजा युधिष्ठिरः |
२८ क
सञ्जय़ उवाच:
धनञ्जय़ममित्रघ्नमेकवीरमुवाच ह ||
२८ ख
सञ्जय़ उवाच:
पश्यार्जुन महाव्यूहं कर्णेन विहितं रणे |
२९ क
सञ्जय़ उवाच:
युक्तं पक्षैः प्रपक्षैश्च सेनानीकं प्रकाशते ||
२९ ख
सञ्जय़ उवाच:
तदेतद्वै समालोक्य प्रत्यमित्रं महद्वलम् |
३० क
सञ्जय़ उवाच:
यथा नाभिभवत्यस्मांस्तथा नीतिर्विधीय़ताम् ||
३० ख
सञ्जय़ उवाच:
एवमुक्तोऽर्जुनो राज्ञा प्राञ्जलिर्नृपमव्रवीत् |
३१ क
सञ्जय़ उवाच:
यथा भवानाह तथा तत्सर्वं न तदन्यथा ||
३१ ख
सञ्जय़ उवाच:
यस्त्वस्य विहितो घातस्तं करिष्यामि भारत |
३२ क
सञ्जय़ उवाच:
प्रधानवध एवास्य विनाशस्तं करोम्यहम् ||
३२ ख
युधिष्ठिर उवाच:
तस्मात्त्वमेव राधेय़ं भीमसेनः सुय़ोधनम् |
३३ क
युधिष्ठिर उवाच:
वृषसेनं च नकुलः सहदेवोऽपि सौवलम् ||
३३ ख
युधिष्ठिर उवाच:
दुःशासनं शतानीको हार्दिक्यं शिनिपुङ्गवः |
३४ क
युधिष्ठिर उवाच:
धृष्टद्युम्नस्तथा द्रौणिं स्वय़ं यास्याम्यहं कृपम् ||
३४ ख
युधिष्ठिर उवाच:
द्रौपदेय़ा धार्तराष्ट्राञ्शिष्टान्सह शिखण्डिना |
३५ क
युधिष्ठिर उवाच:
ते ते च तांस्तानहितानस्माकं घ्नन्तु मामकाः ||
३५ ख
सञ्जय़ उवाच:
इत्युक्तो धर्मराजेन तथेत्युक्त्वा धनञ्जय़ः |
३६ क
सञ्जय़ उवाच:
व्यादिदेश स्वसैन्यानि स्वय़ं चागाच्चमूमुखम् ||
३६ ख
सञ्जय़ उवाच:
अथ तं रथमाय़ान्तं दृष्ट्वात्यद्भुतदर्शनम् |
३७ क
सञ्जय़ उवाच:
उवाचाधिरथिं शल्यः पुनस्तं युद्धदुर्मदम् ||
३७ ख
सञ्जय़ उवाच:
अय़ं स रथ आय़ाति श्वेताश्वः कृष्णसारथिः |
३८ क
सञ्जय़ उवाच:
निघ्नन्नमित्रान्कौन्तेय़ो यं यं त्वं परिपृच्छसि ||
३८ ख
सञ्जय़ उवाच:
श्रूय़ते तुमुलः शव्दो रथनेमिस्वनो महान् |
३९ क
सञ्जय़ उवाच:
एष रेणुः समुद्भूतो दिवमावृत्य तिष्ठति ||
३९ ख
सञ्जय़ उवाच:
चक्रनेमिप्रणुन्ना च कम्पते कर्ण मेदिनी |
४० क
सञ्जय़ उवाच:
प्रवात्येष महावाय़ुरभितस्तव वाहिनीम् |
४० ख
सञ्जय़ उवाच:
क्रव्यादा व्याहरन्त्येते मृगाः कुर्वन्ति भैरवम् ||
४० ग
सञ्जय़ उवाच:
पश्य कर्ण महाघोरं भय़दं लोमहर्षणम् |
४१ क
सञ्जय़ उवाच:
कवन्धं मेघसङ्काशं भानुमावृत्य संस्थितम् ||
४१ ख
सञ्जय़ उवाच:
पश्य यूथैर्वहुविधैर्मृगाणां सर्वतोदिशम् |
४२ क
सञ्जय़ उवाच:
वलिभिर्दृप्तशार्दूलैरादित्योऽभिनिरीक्ष्यते ||
४२ ख
सञ्जय़ उवाच:
पश्य कङ्कांश्च गृध्रांश्च समवेतान्सहस्रशः |
४३ क
सञ्जय़ उवाच:
स्थितानभिमुखान्घोरानन्योन्यमभिभाषतः ||
४३ ख
सञ्जय़ उवाच:
सिताश्चाश्वाः समाय़ुक्तास्तव कर्ण महारथे |
४४ क
सञ्जय़ उवाच:
प्रदराः प्रज्वलन्त्येते ध्वजश्चैव प्रकम्पते ||
४४ ख
सञ्जय़ उवाच:
उदीर्यतो हय़ान्पश्य महाकाय़ान्महाजवान् |
४५ क
सञ्जय़ उवाच:
प्लवमानान्दर्शनीय़ानाकाशे गरुडानिव ||
४५ ख
सञ्जय़ उवाच:
ध्रुवमेषु निमित्तेषु भूमिमावृत्य पार्थिवाः |
४६ क
सञ्जय़ उवाच:
स्वप्स्यन्ति निहताः कर्ण शतशोऽथ सहस्रशः ||
४६ ख
सञ्जय़ उवाच:
शङ्खानां तुमुलः शव्दः श्रूय़ते लोमहर्षणः |
४७ क
सञ्जय़ उवाच:
आनकानां च राधेय़ मृदङ्गानां च सर्वशः ||
४७ ख
सञ्जय़ उवाच:
वाणशव्दान्वहुविधान्नराश्वरथनिस्वनान् |
४८ क
सञ्जय़ उवाच:
ज्यातलत्रेषुशव्दांश्च शृणु कर्ण महात्मनाम् ||
४८ ख
सञ्जय़ उवाच:
हेमरूप्यप्रमृष्टानां वाससां शिल्पिनिर्मिताः |
४९ क