धृतराष्ट्र उवाच:
एवं सन्तर्ज्यमानस्तु मम पुत्रो महीपतिः |
१ क
धृतराष्ट्र उवाच:
प्रकृत्या मन्युमान्वीरः कथमासीत्परन्तपः ||
१ ख
धृतराष्ट्र उवाच:
न हि सन्तर्जना तेन श्रुतपूर्वा कदाचन |
२ क
धृतराष्ट्र उवाच:
राजभावेन मान्यश्च सर्वलोकस्य सोऽभवत् ||
२ ख
धृतराष्ट्र उवाच:
इय़ं च पृथिवी सर्वा सम्लेच्छाटविका भृशम् |
३ क
धृतराष्ट्र उवाच:
प्रसादाद्ध्रिय़ते यस्य प्रत्यक्षं तव सञ्जय़ ||
३ ख
धृतराष्ट्र उवाच:
स तथा तर्ज्यमानस्तु पाण्डुपुत्रैर्विशेषतः |
४ क
धृतराष्ट्र उवाच:
विहीनश्च स्वकैर्भृत्यैर्निर्जने चावृतो भृशम् ||
४ ख
धृतराष्ट्र उवाच:
श्रुत्वा स कटुका वाचो जय़युक्ताः पुनः पुनः |
५ क
धृतराष्ट्र उवाच:
किमव्रवीत्पाण्डवेय़ांस्तन्ममाचक्ष्व सञ्जय़ ||
५ ख
सञ्जय़ उवाच:
तर्ज्यमानस्तदा राजन्नुदकस्थस्तवात्मजः |
६ क
सञ्जय़ उवाच:
युधिष्ठिरेण राजेन्द्र भ्रातृभिः सहितेन ह ||
६ ख
सञ्जय़ उवाच:
श्रुत्वा स कटुका वाचो विषमस्थो जनाधिपः |
७ क
सञ्जय़ उवाच:
दीर्घमुष्णं च निःश्वस्य सलिलस्थः पुनः पुनः ||
७ ख
सञ्जय़ उवाच:
सलिलान्तर्गतो राजा धुन्वन्हस्तौ पुनः पुनः |
८ क
सञ्जय़ उवाच:
मनश्चकार युद्धाय़ राजानं चाभ्यभाषत ||
८ ख
सञ्जय़ उवाच:
यूय़ं ससुहृदः पार्थाः सर्वे सरथवाहनाः |
९ क
सञ्जय़ उवाच:
अहमेकः परिद्यूनो विरथो हतवाहनः ||
९ ख
सञ्जय़ उवाच:
आत्तशस्त्रै रथगतैर्वहुभिः परिवारितः |
१० क
सञ्जय़ उवाच:
कथमेकः पदातिः सन्नशस्त्रो योद्धुमुत्सहे ||
१० ख
सञ्जय़ उवाच:
एकैकेन तु मां यूय़ं योधय़ध्वं युधिष्ठिर |
११ क
सञ्जय़ उवाच:
न ह्येको वहुभिर्वीरैर्न्याय़्यं योधय़ितुं युधि ||
११ ख
सञ्जय़ उवाच:
विशेषतो विकवचः श्रान्तश्चापः समाश्रितः |
१२ क
सञ्जय़ उवाच:
भृशं विक्षतगात्रश्च श्रान्तवाहनसैनिकः ||
१२ ख
सञ्जय़ उवाच:
न मे त्वत्तो भय़ं राजन्न च पार्थाद्वृकोदरात् |
१३ क
सञ्जय़ उवाच:
फल्गुनाद्वासुदेवाद्वा पाञ्चालेभ्योऽथ वा पुनः ||
१३ ख
सञ्जय़ उवाच:
यमाभ्यां युय़ुधानाद्वा ये चान्ये तव सैनिकाः |
१४ क
सञ्जय़ उवाच:
एकः सर्वानहं क्रुद्धो न तान्योद्धुमिहोत्सहे ||
१४ ख
सञ्जय़ उवाच:
धर्ममूला सतां कीर्तिर्मनुष्याणां जनाधिप |
१५ क
सञ्जय़ उवाच:
धर्मं चैवेह कीर्तिं च पालय़न्प्रव्रवीम्यहम् ||
१५ ख
सञ्जय़ उवाच:
अहमुत्थाय़ वः सर्वान्प्रतिय़ोत्स्यामि संय़ुगे |
१६ क
सञ्जय़ उवाच:
अन्वंशाभ्यागतान्सर्वानृतून्संवत्सरो यथा ||
१६ ख
सञ्जय़ उवाच:
अद्य वः सरथान्साश्वानशस्त्रो विरथोऽपि सन् |
१७ क
सञ्जय़ उवाच:
नक्षत्राणीव सर्वाणि सविता रात्रिसङ्क्षय़े |
१७ ख
सञ्जय़ उवाच:
तेजसा नाशय़िष्यामि स्थिरीभवत पाण्डवाः ||
१७ ग
सञ्जय़ उवाच:
अद्यानृण्यं गमिष्यामि क्षत्रिय़ाणां यशस्विनाम् |
१८ क
सञ्जय़ उवाच:
वाह्लीकद्रोणभीष्माणां कर्णस्य च महात्मनः ||
१८ ख
सञ्जय़ उवाच:
जय़द्रथस्य शूरस्य भगदत्तस्य चोभय़ोः |
१९ क
सञ्जय़ उवाच:
मद्रराजस्य शल्यस्य भूरिश्रवस एव च ||
१९ ख
सञ्जय़ उवाच:
पुत्राणां भरतश्रेष्ठ शकुनेः सौवलस्य च |
२० क
सञ्जय़ उवाच:
मित्राणां सुहृदां चैव वान्धवानां तथैव च ||
२० ख
सञ्जय़ उवाच:
आनृण्यमद्य गच्छामि हत्वा त्वां भ्रातृभिः सह |
२१ क
सञ्जय़ उवाच:
एतावदुक्त्वा वचनं विरराम जनाधिपः ||
२१ ख
युधिष्ठिर उवाच:
दिष्ट्या त्वमपि जानीषे क्षत्रधर्मं सुय़ोधन |
२२ क
युधिष्ठिर उवाच:
दिष्ट्या ते वर्तते वुद्धिर्युद्धाय़ैव महाभुज ||
२२ ख
युधिष्ठिर उवाच:
दिष्ट्या शूरोऽसि कौरव्य दिष्ट्या जानासि सङ्गरम् |
२३ क
युधिष्ठिर उवाच:
यस्त्वमेको हि नः सर्वान्संय़ुगे योद्धुमिच्छसि ||
२३ ख
युधिष्ठिर उवाच:
एक एकेन सङ्गम्य यत्ते संमतमाय़ुधम् |
२४ क
युधिष्ठिर उवाच:
तत्त्वमादाय़ युध्यस्व प्रेक्षकास्ते वय़ं स्थिताः ||
२४ ख
युधिष्ठिर उवाच:
अय़मिष्टं च ते कामं वीर भूय़ो ददाम्यहम् |
२५ क
युधिष्ठिर उवाच:
हत्वैकं भवतो राज्यं हतो वा स्वर्गमाप्नुहि ||
२५ ख
दुर्योधन उवाच:
एकश्चेद्योद्धुमाक्रन्दे वरोऽद्य मम दीय़ते |
२६ क
दुर्योधन उवाच:
आय़ुधानामिय़ं चापि वृता त्वत्संमते गदा ||
२६ ख
दुर्योधन उवाच:
भ्रातॄणां भवतामेकः शक्यं मां योऽभिमन्यते |
२७ क
दुर्योधन उवाच:
पदातिर्गदय़ा सङ्ख्ये स युध्यतु मय़ा सह ||
२७ ख
दुर्योधन उवाच:
वृत्तानि रथय़ुद्धानि विचित्राणि पदे पदे |
२८ क
दुर्योधन उवाच:
इदमेकं गदाय़ुद्धं भवत्वद्याद्भुतं महत् ||
२८ ख
दुर्योधन उवाच:
अन्नानामपि पर्याय़ं कर्तुमिच्छन्ति मानवाः |
२९ क
दुर्योधन उवाच:
युद्धानामपि पर्याय़ो भवत्वनुमते तव ||
२९ ख
दुर्योधन उवाच:
गदय़ा त्वां महावाहो विजेष्यामि सहानुजम् |
३० क
दुर्योधन उवाच:
पाञ्चालान्सृञ्जय़ांश्चैव ये चान्ये तव सैनिकाः ||
३० ख
युधिष्ठिर उवाच:
उत्तिष्ठोत्तिष्ठ गान्धारे मां योधय़ सुय़ोधन |
३१ क
युधिष्ठिर उवाच:
एक एकेन सङ्गम्य संय़ुगे गदय़ा वली ||
३१ ख
युधिष्ठिर उवाच:
पुरुषो भव गान्धारे युध्यस्व सुसमाहितः |
३२ क
युधिष्ठिर उवाच:
अद्य ते जीवितं नास्ति यद्यपि त्वं मनोजवः ||
३२ ख
सञ्जय़ उवाच:
एतत्स नरशार्दूलो नामृष्यत तवात्मजः |
३३ क
सञ्जय़ उवाच:
सलिलान्तर्गतः श्वभ्रे महानाग इव श्वसन् ||
३३ ख
सञ्जय़ उवाच:
तथासौ वाक्प्रतोदेन तुद्यमानः पुनः पुनः |
३४ क
सञ्जय़ उवाच:
वाचं न ममृषे धीमानुत्तमाश्वः कशामिव ||
३४ ख
सञ्जय़ उवाच:
सङ्क्षोभ्य सलिलं वेगाद्गदामादाय़ वीर्यवान् |
३५ क
सञ्जय़ उवाच:
अद्रिसारमय़ीं गुर्वीं काञ्चनाङ्गदभूषणाम् |
३५ ख
सञ्जय़ उवाच:
अन्तर्जलात्समुत्तस्थौ नागेन्द्र इव निःश्वसन् ||
३५ ग
सञ्जय़ उवाच:
स भित्त्वा स्तम्भितं तोय़ं स्कन्धे कृत्वाय़सीं गदाम् |
३६ क
सञ्जय़ उवाच:
उदतिष्ठत पुत्रस्ते प्रतपन्रश्मिमानिव ||
३६ ख
सञ्जय़ उवाच:
ततः शैक्याय़सीं गुर्वीं जातरूपपरिष्कृताम् |
३७ क
सञ्जय़ उवाच:
गदां परामृशद्धीमान्धार्तराष्ट्रो महावलः ||
३७ ख
सञ्जय़ उवाच:
गदाहस्तं तु तं दृष्ट्वा सशृङ्गमिव पर्वतम् |
३८ क
सञ्जय़ उवाच:
प्रजानामिव सङ्क्रुद्धं शूलपाणिमवस्थितम् |
३८ ख
सञ्जय़ उवाच:
सगदो भारतो भाति प्रतपन्भास्करो यथा ||
३८ ग
सञ्जय़ उवाच:
तमुत्तीर्णं महावाहुं गदाहस्तमरिन्दमम् |
३९ क
सञ्जय़ उवाच:
मेनिरे सर्वभूतानि दण्डहस्तमिवान्तकम् ||
३९ ख
सञ्जय़ उवाच:
वज्रहस्तं यथा शक्रं शूलहस्तं यथा हरम् |
४० क
सञ्जय़ उवाच:
ददृशुः सर्वपाञ्चालाः पुत्रं तव जनाधिप ||
४० ख
सञ्जय़ उवाच:
तमुत्तीर्णं तु सम्प्रेक्ष्य समहृष्यन्त सर्वशः |
४१ क
सञ्जय़ उवाच:
पाञ्चालाः पाण्डवेय़ाश्च तेऽन्योन्यस्य तलान्ददुः ||
४१ ख
सञ्जय़ उवाच:
अवहासं तु तं मत्वा पुत्रो दुर्योधनस्तव |
४२ क
सञ्जय़ उवाच:
उद्वृत्य नय़ने क्रुद्धो दिधक्षुरिव पाण्डवान् ||
४२ ख
सञ्जय़ उवाच:
त्रिशिखां भ्रुकुटीं कृत्वा सन्दष्टदशनच्छदः |
४३ क
सञ्जय़ उवाच:
प्रत्युवाच ततस्तान्वै पाण्डवान्सहकेशवान् ||
४३ ख
सञ्जय़ उवाच:
अवहासस्य वोऽस्याद्य प्रतिवक्तास्मि पाण्डवाः |
४४ क
सञ्जय़ उवाच:
गमिष्यथ हताः सद्यः सपाञ्चाला यमक्षय़म् ||
४४ ख
सञ्जय़ उवाच:
उत्थितस्तु जलात्तस्मात्पुत्रो दुर्योधनस्तव |
४५ क
सञ्जय़ उवाच:
अतिष्ठत गदापाणी रुधिरेण समुक्षितः ||
४५ ख
सञ्जय़ उवाच:
तस्य शोणितदिग्धस्य सलिलेन समुक्षितम् |
४६ क
सञ्जय़ उवाच:
शरीरं स्म तदा भाति स्रवन्निव महीधरः ||
४६ ख
सञ्जय़ उवाच:
तमुद्यतगदं वीरं मेनिरे तत्र पाण्डवाः |
४७ क
सञ्जय़ उवाच:
वैवस्वतमिव क्रुद्धं किङ्करोद्यतपाणिनम् ||
४७ ख
सञ्जय़ उवाच:
स मेघनिनदो हर्षान्नदन्निव च गोवृषः |
४८ क
सञ्जय़ उवाच:
आजुहाव ततः पार्थान्गदय़ा युधि वीर्यवान् ||
४८ ख
दुर्योधन उवाच:
एकैकेन च मां यूय़मासीदत युधिष्ठिर |
४९ क