chevron_left शान्ति पर्व अध्याय ३१३
भीष्म उवाच:
ततः स राजा जनको मन्त्रिभिः सह भारत |
१ क
भीष्म उवाच:
पुरः पुरोहितं कृत्वा सर्वाण्यन्तःपुराणि च ||
१ ख
भीष्म उवाच:
आसनं च पुरस्कृत्य रत्नानि विविधानि च |
२ क
भीष्म उवाच:
शिरसा चार्घ्यमादाय़ गुरुपुत्रं समभ्यगात् ||
२ ख
भीष्म उवाच:
स तदासनमादाय़ वहुरत्नविभूषितम् |
३ क
भीष्म उवाच:
स्पर्ध्यास्तरणसंस्तीर्णं सर्वतोभद्रमृद्धिमत् ||
३ ख
भीष्म उवाच:
पुरोधसा सङ्गृहीतं हस्तेनालभ्य पार्थिवः |
४ क
भीष्म उवाच:
प्रददौ गुरुपुत्राय़ शुकाय़ परमार्चितम् ||
४ ख
भीष्म उवाच:
तत्रोपविष्टं तं कार्ष्णिं शास्त्रतः प्रत्यपूजय़त् |
५ क
भीष्म उवाच:
पाद्यं निवेद्य प्रथममर्घ्यं गां च न्यवेदय़त् |
५ ख
भीष्म उवाच:
स च तां मन्त्रवत्पूजां प्रत्यगृह्णाद्यथाविधि ||
५ ग
भीष्म उवाच:
प्रतिगृह्य च तां पूजां जनकाद्द्विजसत्तमः |
६ क
भीष्म उवाच:
गां चैव समनुज्ञाय़ राजानमनुमान्य च ||
६ ख
भीष्म उवाच:
पर्यपृच्छन्महातेजा राज्ञः कुशलमव्ययम् |
७ क
भीष्म उवाच:
अनामय़ं च राजेन्द्र शुकः सानुचरस्य ह ||
७ ख
भीष्म उवाच:
अनुज्ञातः स तेनाथ निषसाद सहानुगः |
८ क
भीष्म उवाच:
उदारसत्त्वाभिजनो भूमौ राजा कृताञ्जलिः ||
८ ख
भीष्म उवाच:
कुशलं चाव्ययं चैव पृष्ट्वा वैय़ासकिं नृपः |
९ क
भीष्म उवाच:
किमागमनमित्येव पर्यपृच्छत पार्थिवः ||
९ ख
शुक उवाच:
पित्राहमुक्तो भद्रं ते मोक्षधर्मार्थकोविदः |
१० क
शुक उवाच:
विदेहराजो याज्यो मे जनको नाम विश्रुतः ||
१० ख
शुक उवाच:
तत्र गच्छस्व वै तूर्णं यदि ते हृदि संशय़ः |
११ क
शुक उवाच:
प्रवृत्तौ वा निवृत्तौ वा स ते छेत्स्यति संशय़म् ||
११ ख
शुक उवाच:
सोऽहं पितुर्निय़ोगात्त्वामुपप्रष्टुमिहागतः |
१२ क
शुक उवाच:
तन्मे धर्मभृतां श्रेष्ठ यथावद्वक्तुमर्हसि ||
१२ ख
शुक उवाच:
किं कार्यं व्राह्मणेनेह मोक्षार्थश्च किमात्मकः |
१३ क
शुक उवाच:
कथं च मोक्षः कर्तव्यो ज्ञानेन तपसापि वा ||
१३ ख
जनक उवाच:
यत्कार्यं व्राह्मणेनेह जन्मप्रभृति तच्छृणु |
१४ क
जनक उवाच:
कृतोपनय़नस्तात भवेद्वेदपराय़णः ||
१४ ख
जनक उवाच:
तपसा गुरुवृत्त्या च व्रह्मचर्येण चाभिभो |
१५ क
जनक उवाच:
देवतानां पितॄणां चाप्यनृणश्चानसूय़कः ||
१५ ख
जनक उवाच:
वेदानधीत्य निय़तो दक्षिणामपवर्ज्य च |
१६ क
जनक उवाच:
अभ्यनुज्ञामथ प्राप्य समावर्तेत वै द्विजः ||
१६ ख
जनक उवाच:
समावृत्तस्तु गार्हस्थ्ये सदारो निय़तो वसेत् |
१७ क
जनक उवाच:
अनसूय़ुर्यथान्याय़माहिताग्निस्तथैव च ||
१७ ख
जनक उवाच:
उत्पाद्य पुत्रपौत्रं तु वन्याश्रमपदे वसेत् |
१८ क
जनक उवाच:
तानेवाग्नीन्यथाशास्त्रमर्चय़न्नतिथिप्रिय़ः ||
१८ ख
जनक उवाच:
स वनेऽग्नीन्यथान्याय़मात्मन्यारोप्य धर्मवित् |
१९ क
जनक उवाच:
निर्द्वन्द्वो वीतरागात्मा व्रह्माश्रमपदे वसेत् ||
१९ ख
शुक उवाच:
उत्पन्ने ज्ञानविज्ञाने प्रत्यक्षे हृदि शाश्वते |
२० क
शुक उवाच:
किमवश्यं निवस्तव्यमाश्रमेषु वनेषु च ||
२० ख
शुक उवाच:
एतद्भवन्तं पृच्छामि तद्भवान्वक्तुमर्हति |
२१ क
शुक उवाच:
यथावेदार्थतत्त्वेन व्रूहि मे त्वं जनाधिप ||
२१ ख
जनक उवाच:
न विना ज्ञानविज्ञानं मोक्षस्याधिगमो भवेत् |
२२ क
जनक उवाच:
न विना गुरुसम्वन्धं ज्ञानस्याधिगमः स्मृतः ||
२२ ख
जनक उवाच:
आचार्यः प्लाविता तस्य ज्ञानं प्लव इहोच्यते |
२३ क
जनक उवाच:
विज्ञाय़ कृतकृत्यस्तु तीर्णस्तदुभय़ं त्यजेत् ||
२३ ख
जनक उवाच:
अनुच्छेदाय़ लोकानामनुच्छेदाय़ कर्मणाम् |
२४ क
जनक उवाच:
पूर्वैराचरितो धर्मश्चातुराश्रम्यसङ्कथः ||
२४ ख
जनक उवाच:
अनेन क्रमय़ोगेन वहुजातिषु कर्मणा |
२५ क
जनक उवाच:
कृत्वा शुभाशुभं कर्म मोक्षो नामेह लभ्यते ||
२५ ख
जनक उवाच:
भवितैः कारणैश्चाय़ं वहुसंसारय़ोनिषु |
२६ क
जनक उवाच:
आसादय़ति शुद्धात्मा मोक्षं वै प्रथमाश्रमे ||
२६ ख
जनक उवाच:
तमासाद्य तु मुक्तस्य दृष्टार्थस्य विपश्चितः |
२७ क
जनक उवाच:
त्रिष्वाश्रमेषु को न्वर्थो भवेत्परमभीप्सतः ||
२७ ख
जनक उवाच:
राजसांस्तामसांश्चैव नित्यं दोषान्विवर्जय़ेत् |
२८ क
जनक उवाच:
सात्त्विकं मार्गमास्थाय़ पश्येदात्मानमात्मना ||
२८ ख
जनक उवाच:
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि |
२९ क
जनक उवाच:
सम्पश्यन्नोपलिप्येत जले वारिचरो यथा ||
२९ ख
जनक उवाच:
पक्षीव प्लवनादूर्ध्वममुत्रानन्त्यमश्नुते |
३० क
जनक उवाच:
विहाय़ देहं निर्मुक्तो निर्द्वन्द्वः प्रशमं गतः ||
३० ख
जनक उवाच:
अत्र गाथाः पुरा गीताः शृणु राज्ञा यय़ातिना |
३१ क
जनक उवाच:
धार्यन्ते या द्विजैस्तात मोक्षशास्त्रविशारदैः ||
३१ ख
जनक उवाच:
ज्योतिरात्मनि नान्यत्र रतं तत्रैव चैव तत् |
३२ क
जनक उवाच:
स्वय़ं च शक्यं तद्द्रष्टुं सुसमाहितचेतसा ||
३२ ख
जनक उवाच:
न विभेति परो यस्मान्न विभेति पराच्च यः |
३३ क
जनक उवाच:
यश्च नेच्छति न द्वेष्टि व्रह्म सम्पद्यते तदा ||
३३ ख
जनक उवाच:
यदा भावं न कुरुते सर्वभूतेषु पापकम् |
३४ क
जनक उवाच:
कर्मणा मनसा वाचा व्रह्म सम्पद्यते तदा ||
३४ ख
जनक उवाच:
संय़ोज्य तपसात्मानमीर्ष्यामुत्सृज्य मोहिनीम् |
३५ क
जनक उवाच:
त्यक्त्वा कामं च लोभं च ततो व्रह्मत्वमश्नुते ||
३५ ख
जनक उवाच:
यदा श्रव्ये च दृश्ये च सर्वभूतेषु चाप्ययम् |
३६ क
जनक उवाच:
समो भवति निर्द्वन्द्वो व्रह्म सम्पद्यते तदा ||
३६ ख
जनक उवाच:
यदा स्तुतिं च निन्दां च समत्वेनैव पश्यति |
३७ क
जनक उवाच:
काञ्चनं चाय़सं चैव सुखदुःखे तथैव च ||
३७ ख
जनक उवाच:
शीतमुष्णं तथैवार्थमनर्थं प्रिय़मप्रिय़म् |
३८ क
जनक उवाच:
जीवितं मरणं चैव व्रह्म सम्पद्यते तदा ||
३८ ख
जनक उवाच:
प्रसार्येह यथाङ्गानि कूर्मः संहरते पुनः |
३९ क
जनक उवाच:
तथेन्द्रिय़ाणि मनसा संय़न्तव्यानि भिक्षुणा ||
३९ ख
जनक उवाच:
तमःपरिगतं वेश्म यथा दीपेन दृश्यते |
४० क
जनक उवाच:
तथा वुद्धिप्रदीपेन शक्य आत्मा निरीक्षितुम् ||
४० ख
जनक उवाच:
एतत्सर्वं प्रपश्यामि त्वय़ि वुद्धिमतां वर |
४१ क
जनक उवाच:
यच्चान्यदपि वेत्तव्यं तत्त्वतो वेद तद्भवान् ||
४१ ख
जनक उवाच:
व्रह्मर्षे विदितश्चासि विषय़ान्तमुपागतः |
४२ क
जनक उवाच:
गुरोस्तव प्रसादेन तव चैवोपशिक्षय़ा ||
४२ ख
जनक उवाच:
तस्यैव च प्रसादेन प्रादुर्भूतं महामुने |
४३ क
जनक उवाच:
ज्ञानं दिव्यं ममापीदं तेनासि विदितो मम ||
४३ ख
जनक उवाच:
अधिकं तव विज्ञानमधिका च गतिस्तव |
४४ क
जनक उवाच:
अधिकं च तवैश्वर्यं तच्च त्वं नाववुध्यसे ||
४४ ख
जनक उवाच:
वाल्याद्वा संशय़ाद्वापि भय़ाद्वाप्यविमोक्षजात् |
४५ क
जनक उवाच:
उत्पन्ने चापि विज्ञाने नाधिगच्छति तां गतिम् ||
४५ ख
जनक उवाच:
व्यवसाय़ेन शुद्धेन मद्विधैश्छिन्नसंशय़ः |
४६ क
जनक उवाच:
विमुच्य हृदय़ग्रन्थीनासादय़ति तां गतिम् ||
४६ ख
जनक उवाच:
भवांश्चोत्पन्नविज्ञानः स्थिरवुद्धिरलोलुपः |
४७ क
जनक उवाच:
व्यवसाय़ादृते व्रह्मन्नासादय़ति तत्परम् ||
४७ ख
जनक उवाच:
नास्ति ते सुखदुःखेषु विशेषो नास्ति लोलुपा |
४८ क
जनक उवाच:
नौत्सुक्यं नृत्तगीतेषु न राग उपजाय़ते ||
४८ ख
जनक उवाच:
न वन्धुषु निवन्धस्ते न भय़ेष्वस्ति ते भय़म् |
४९ क
जनक उवाच:
पश्यामि त्वां महाभाग तुल्यलोष्टाश्मकाञ्चनम् ||
४९ ख
जनक उवाच:
अहं च त्वानुपश्यामि ये चाप्यन्ये मनीषिणः |
५० क