chevron_left शान्ति पर्व अध्याय ३१५
भीष्म उवाच:
यं समासाद्य वेगेन दिशामन्तं प्रपेदिरे |
५१ क
भीष्म उवाच:
दक्षस्य दश पुत्राणां सहस्राणि प्रजापतेः ||
५१ ख
भीष्म उवाच:
येन सृष्टः पराभूतो यात्येव न निवर्तते |
५२ क
भीष्म उवाच:
परावहो नाम परो वाय़ुः स दुरतिक्रमः ||
५२ ख
भीष्म उवाच:
एवमेतेऽदितेः पुत्रा मारुताः परमाद्भुताः |
५३ क
भीष्म उवाच:
अनारमन्तः संवान्ति सर्वगाः सर्वधारिणः ||
५३ ख
भीष्म उवाच:
एतत्तु महदाश्चर्यं यदय़ं पर्वतोत्तमः |
५४ क
भीष्म उवाच:
कम्पितः सहसा तेन वाय़ुनाभिप्रवाय़ता ||
५४ ख
भीष्म उवाच:
विष्णोर्निःश्वासवातोऽय़ं यदा वेगसमीरितः |
५५ क
भीष्म उवाच:
सहसोदीर्यते तात जगत्प्रव्यथते तदा ||
५५ ख
भीष्म उवाच:
तस्माद्व्रह्मविदो व्रह्म नाधीय़न्तेऽतिवाय़ति |
५६ क
भीष्म उवाच:
वाय़ोर्वाय़ुभय़ं ह्युक्तं व्रह्म तत्पीडितं भवेत् ||
५६ ख
भीष्म उवाच:
एतावदुक्त्वा वचनं पराशरसुतः प्रभुः |
५७ क
भीष्म उवाच:
उक्त्वा पुत्रमधीष्वेति व्योमगङ्गामय़ात्तदा ||
५७ ख