chevron_left शान्ति पर्व अध्याय ३१७
नारद उवाच:
अशोकं शोकनाशार्थं शास्त्रं शान्तिकरं शिवम् |
१ क
नारद उवाच:
निशम्य लभते वुद्धिं तां लव्ध्वा सुखमेधते ||
१ ख
नारद उवाच:
शोकस्थानसहस्राणि भय़स्थानशतानि च |
२ क
नारद उवाच:
दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ||
२ ख
नारद उवाच:
तस्मादनिष्टनाशार्थमितिहासं निवोध मे |
३ क
नारद उवाच:
तिष्ठते चेद्वशे वुद्धिर्लभते शोकनाशनम् ||
३ ख
नारद उवाच:
अनिष्टसम्प्रय़ोगाच्च विप्रय़ोगात्प्रिय़स्य च |
४ क
नारद उवाच:
मनुष्या मानसैर्दुःखैर्युज्यन्ते अल्पवुद्धय़ः ||
४ ख
नारद उवाच:
द्रव्येषु समतीतेषु ये गुणास्तान्न चिन्तय़ेत् |
५ क
नारद उवाच:
ताननाद्रिय़माणस्य स्नेहवन्धः प्रमुच्यते ||
५ ख
नारद उवाच:
दोषदर्शी भवेत्तत्र यत्र रागः प्रवर्तते |
६ क
नारद उवाच:
अनिष्टवद्धितं पश्येत्तथा क्षिप्रं विरज्यते ||
६ ख
नारद उवाच:
नार्थो न धर्मो न यशो योऽतीतमनुशोचति |
७ क
नारद उवाच:
अप्यभावेन युज्येत तच्चास्य न निवर्तते ||
७ ख
नारद उवाच:
गुणैर्भूतानि युज्यन्ते विय़ुज्यन्ते तथैव च |
८ क
नारद उवाच:
सर्वाणि नैतदेकस्य शोकस्थानं हि विद्यते ||
८ ख
नारद उवाच:
मृतं वा यदि वा नष्टं योऽतीतमनुशोचति |
९ क
नारद उवाच:
दुःखेन लभते दुःखं द्वावनर्थौ प्रपद्यते ||
९ ख
नारद उवाच:
नाश्रु कुर्वन्ति ये वुद्ध्या दृष्ट्वा लोकेषु सन्ततिम् |
१० क
नारद उवाच:
सम्यक्प्रपश्यतः सर्वं नाश्रुकर्मोपपद्यते ||
१० ख
नारद उवाच:
दुःखोपघाते शारीरे मानसे वाप्युपस्थिते |
११ क
नारद उवाच:
यस्मिन्न शक्यते कर्तुं यत्नस्तन्नानुचिन्तय़ेत् ||
११ ख
नारद उवाच:
भैषज्यमेतद्दुःखस्य यदेतन्नानुचिन्तय़ेत् |
१२ क
नारद उवाच:
चिन्त्यमानं हि न व्येति भूय़श्चापि प्रवर्धते ||
१२ ख
नारद उवाच:
प्रज्ञय़ा मानसं दुःखं हन्याच्छारीरमौषधैः |
१३ क
नारद उवाच:
एतद्विज्ञानसामर्थ्यं न वालैः समतामिय़ात् ||
१३ ख
नारद उवाच:
अनित्यं यौवनं रूपं जीवितं द्रव्यसञ्चय़ः |
१४ क
नारद उवाच:
आरोग्यं प्रिय़संवासो गृध्येत्तत्र न पण्डितः ||
१४ ख
नारद उवाच:
न जानपदिकं दुःखमेकः शोचितुमर्हति |
१५ क
नारद उवाच:
अशोचन्प्रतिकुर्वीत यदि पश्येदुपक्रमम् ||
१५ ख
नारद उवाच:
सुखाद्वहुतरं दुःखं जीविते नात्र संशय़ः |
१६ क
नारद उवाच:
स्निग्धत्वं चेन्द्रिय़ार्थेषु मोहान्मरणमप्रिय़म् ||
१६ ख
नारद उवाच:
परित्यजति यो दुःखं सुखं वाप्युभय़ं नरः |
१७ क
नारद उवाच:
अभ्येति व्रह्म सोऽत्यन्तं न तं शोचन्ति पण्डिताः ||
१७ ख
नारद उवाच:
दुःखमर्था हि त्यज्यन्ते पालने न च ते सुखाः |
१८ क
नारद उवाच:
दुःखेन चाधिगम्यन्ते नाशमेषां न चिन्तय़ेत् ||
१८ ख
नारद उवाच:
अन्यामन्यां धनावस्थां प्राप्य वैशेषिकीं नराः |
१९ क
नारद उवाच:
अतृप्ता यान्ति विध्वंसं सन्तोषं यान्ति पण्डिताः ||
१९ ख
नारद उवाच:
सर्वे क्षय़ान्ता निचय़ाः पतनान्ताः समुच्छ्रय़ाः |
२० क
नारद उवाच:
संय़ोगा विप्रय़ोगान्ता मरणान्तं हि जीवितम् ||
२० ख
नारद उवाच:
अन्तो नास्ति पिपासाय़ास्तुष्टिस्तु परमं सुखम् |
२१ क
नारद उवाच:
तस्मात्सन्तोषमेवेह धनं पश्यन्ति पण्डिताः ||
२१ ख
नारद उवाच:
निमेषमात्रमपि हि वय़ो गच्छन्न तिष्ठति |
२२ क
नारद उवाच:
स्वशरीरेष्वनित्येषु नित्यं किमनुचिन्तय़ेत् ||
२२ ख
नारद उवाच:
भूतेष्वभावं सञ्चिन्त्य ये वुद्ध्वा तमसः परम् |
२३ क
नारद उवाच:
न शोचन्ति गताध्वानः पश्यन्तः परमां गतिम् ||
२३ ख
नारद उवाच:
सञ्चिन्वानकमेवैनं कामानामवितृप्तकम् |
२४ क
नारद उवाच:
व्याघ्रः पशुमिवासाद्य मृत्युरादाय़ गच्छति ||
२४ ख
नारद उवाच:
अथाप्युपाय़ं सम्पश्येद्दुःखस्य परिमोक्षणे |
२५ क
नारद उवाच:
अशोचन्नारभेतैव युक्तश्चाव्यसनी भवेत् ||
२५ ख
नारद उवाच:
शव्दे स्पर्शे च रूपे च गन्धेषु च रसेषु च |
२६ क
नारद उवाच:
नोपभोगात्परं किञ्चिद्धनिनो वाधनस्य वा ||
२६ ख
नारद उवाच:
प्राक्सम्प्रय़ोगाद्भूतानां नास्ति दुःखमनामय़म् |
२७ क
नारद उवाच:
विप्रय़ोगात्तु सर्वस्य न शोचेत्प्रकृतिस्थितः ||
२७ ख
नारद उवाच:
धृत्या शिश्नोदरं रक्षेत्पाणिपादं च चक्षुषा |
२८ क
नारद उवाच:
चक्षुःश्रोत्रे च मनसा मनो वाचं च विद्यया ||
२८ ख
नारद उवाच:
प्रणय़ं प्रतिसंहृत्य संस्तुतेष्वितरेषु च |
२९ क
नारद उवाच:
विचरेदसमुन्नद्धः स सुखी स च पण्डितः ||
२९ ख
नारद उवाच:
अध्यात्मरतिरासीनो निरपेक्षो निरामिषः |
३० क
नारद उवाच:
आत्मनैव सहाय़ेन यश्चरेत्स सुखी भवेत् ||
३० ख