chevron_left शान्ति पर्व अध्याय ३१८
नारद उवाच:
सुखदुःखविपर्यासो यदा समुपपद्यते |
१ क
नारद उवाच:
नैनं प्रज्ञा सुनीतं वा त्राय़ते नापि पौरुषम् ||
१ ख
नारद उवाच:
स्वभावाद्यत्नमातिष्ठेद्यत्नवान्नावसीदति |
२ क
नारद उवाच:
जरामरणरोगेभ्यः प्रिय़मात्मानमुद्धरेत् ||
२ ख
नारद उवाच:
रुजन्ति हि शरीराणि रोगाः शारीरमानसाः |
३ क
नारद उवाच:
साय़का इव तीक्ष्णाग्राः प्रय़ुक्ता दृढधन्विभिः ||
३ ख
नारद उवाच:
व्याधितस्य विवित्साभिस्त्रस्यतो जीवितैषिणः |
४ क
नारद उवाच:
अवशस्य विनाशाय़ शरीरमपकृष्यते ||
४ ख
नारद उवाच:
स्रवन्ति न निवर्तन्ते स्रोतांसि सरितामिव |
५ क
नारद उवाच:
आय़ुरादाय़ मर्त्यानां रात्र्यहानि पुनः पुनः ||
५ ख
नारद उवाच:
व्यत्ययो ह्ययमत्यन्तं पक्षय़ोः शुक्लकृष्णय़ोः |
६ क
नारद उवाच:
जातं मर्त्यं जरय़ति निमेषं नावतिष्ठते ||
६ ख
नारद उवाच:
सुखदुःखानि भूतानामजरो जरय़न्नसौ |
७ क
नारद उवाच:
आदित्यो ह्यस्तमभ्येति पुनः पुनरुदेति च ||
७ ख
नारद उवाच:
अदृष्टपूर्वानादाय़ भावानपरिशङ्कितान् |
८ क
नारद उवाच:
इष्टानिष्टान्मनुष्याणामस्तं गच्छन्ति रात्रय़ः ||
८ ख
नारद उवाच:
यो यमिच्छेद्यथाकामं कामानां तत्तदाप्नुय़ात् |
९ क
नारद उवाच:
यदि स्यान्न पराधीनं पुरुषस्य क्रिय़ाफलम् ||
९ ख
नारद उवाच:
संय़ताश्च हि दक्षाश्च मतिमन्तश्च मानवाः |
१० क
नारद उवाच:
दृश्यन्ते निष्फलाः सन्तः प्रहीणाश्च स्वकर्मभिः ||
१० ख
नारद उवाच:
अपरे वालिशाः सन्तो निर्गुणाः पुरुषाधमाः |
११ क
नारद उवाच:
आशीर्भिरप्यसंय़ुक्ता दृश्यन्ते सर्वकामिनः ||
११ ख
नारद उवाच:
भूतानामपरः कश्चिद्धिंसाय़ां सततोत्थितः |
१२ क
नारद उवाच:
वञ्चनाय़ां च लोकस्य स सुखेष्वेव जीर्यते ||
१२ ख
नारद उवाच:
अचेष्टमानमासीनं श्रीः कञ्चिदुपतिष्ठति |
१३ क
नारद उवाच:
कश्चित्कर्मानुसृत्यान्यो न प्राप्यमधिगच्छति ||
१३ ख
नारद उवाच:
अपराधं समाचक्ष्व पुरुषस्य स्वभावतः |
१४ क
नारद उवाच:
शुक्रमन्यत्र सम्भूतं पुनरन्यत्र गच्छति ||
१४ ख
नारद उवाच:
तस्य योनौ प्रसक्तस्य गर्भो भवति वा न वा |
१५ क
नारद उवाच:
आम्रपुष्पोपमा यस्य निवृत्तिरुपलभ्यते ||
१५ ख
नारद उवाच:
केषाञ्चित्पुत्रकामानामनुसन्तानमिच्छताम् |
१६ क
नारद उवाच:
सिद्धौ प्रय़तमानानां नैवाण्डमुपजाय़ते ||
१६ ख
नारद उवाच:
गर्भाच्चोद्विजमानानां क्रुद्धादाशीविषादिव |
१७ क
नारद उवाच:
आय़ुष्माञ्जाय़ते पुत्रः कथं प्रेतः पितैव सः ||
१७ ख
नारद उवाच:
देवानिष्ट्वा तपस्तप्त्वा कृपणैः पुत्रगृद्धिभिः |
१८ क
नारद उवाच:
दश मासान्परिधृता जाय़न्ते कुलपांसनाः ||
१८ ख
नारद उवाच:
अपरे धनधान्यानि भोगांश्च पितृसञ्चितान् |
१९ क
नारद उवाच:
विपुलानभिजाय़न्ते लव्धास्तैरेव मङ्गलैः ||
१९ ख
नारद उवाच:
अन्योन्यं समभिप्रेत्य मैथुनस्य समागमे |
२० क
नारद उवाच:
उपद्रव इवाविष्टो योनिं गर्भः प्रपद्यते ||
२० ख
नारद उवाच:
शीर्णं परशरीरेण निच्छवीकं शरीरिणम् |
२१ क
नारद उवाच:
प्राणिनां प्राणसंरोधे मांसश्लेष्मविचेष्टितम् ||
२१ ख
नारद उवाच:
निर्दग्धं परदेहेन परदेहं चलाचलम् |
२२ क
नारद उवाच:
विनश्यन्तं विनाशान्ते नावि नावमिवाहितम् ||
२२ ख
नारद उवाच:
सङ्गत्या जठरे न्यस्तं रेतोविन्दुमचेतनम् |
२३ क
नारद उवाच:
केन यत्नेन जीवन्तं गर्भं त्वमिह पश्यसि ||
२३ ख
नारद उवाच:
अन्नपानानि जीर्यन्ते यत्र भक्षाश्च भक्षिताः |
२४ क
नारद उवाच:
तस्मिन्नेवोदरे गर्भः किं नान्नमिव जीर्यते ||
२४ ख
नारद उवाच:
गर्भमूत्रपुरीषाणां स्वभावनिय़ता गतिः |
२५ क
नारद उवाच:
धारणे वा विसर्गे वा न कर्तुर्विद्यते वशः ||
२५ ख
नारद उवाच:
स्रवन्ति ह्युदराद्गर्भा जाय़मानास्तथापरे |
२६ क
नारद उवाच:
आगमेन सहान्येषां विनाश उपपद्यते ||
२६ ख
नारद उवाच:
एतस्माद्योनिसम्वन्धाद्यो जीवन्परिमुच्यते |
२७ क
नारद उवाच:
प्रजां च लभते काञ्चित्पुनर्द्वन्द्वेषु मज्जति ||
२७ ख
नारद उवाच:
शतस्य सहजातस्य सप्तमीं दशमीं दशाम् |
२८ क
नारद उवाच:
प्राप्नुवन्ति ततः पञ्च न भवन्ति शताय़ुषः ||
२८ ख
नारद उवाच:
नाभ्युत्थाने मनुष्याणां योगाः स्युर्नात्र संशय़ः |
२९ क
नारद उवाच:
व्याधिभिश्च विमथ्यन्ते व्यालैः क्षुद्रमृगा इव ||
२९ ख
नारद उवाच:
व्याधिभिर्भक्ष्यमाणानां त्यजतां विपुलं धनम् |
३० क
नारद उवाच:
वेदनां नापकर्षन्ति यतमानाश्चिकित्सकाः ||
३० ख
नारद उवाच:
ते चापि निपुणा वैद्याः कुशलाः सम्भृतौषधाः |
३१ क
नारद उवाच:
व्याधिभिः परिकृष्यन्ते मृगा व्याधैरिवार्दिताः ||
३१ ख
नारद उवाच:
ते पिवन्तः कषाय़ांश्च सर्पींषि विविधानि च |
३२ क
नारद उवाच:
दृश्यन्ते जरय़ा भग्ना नागा नागैरिवोत्तमैः ||
३२ ख
नारद उवाच:
के वा भुवि चिकित्सन्ते रोगार्तान्मृगपक्षिणः |
३३ क
नारद उवाच:
श्वापदानि दरिद्रांश्च प्राय़ो नार्ता भवन्ति ते ||
३३ ख
नारद उवाच:
घोरानपि दुराधर्षान्नृपतीनुग्रतेजसः |
३४ क
नारद उवाच:
आक्रम्य रोग आदत्ते पशून्पशुपचो यथा ||
३४ ख
नारद उवाच:
इति लोकमनाक्रन्दं मोहशोकपरिप्लुतम् |
३५ क
नारद उवाच:
स्रोतसा सहसा क्षिप्तं ह्रिय़माणं वलीय़सा ||
३५ ख
नारद उवाच:
न धनेन न राज्येन नोग्रेण तपसा तथा |
३६ क
नारद उवाच:
स्वभावा व्यतिवर्तन्ते ये निय़ुक्ताः शरीरिषु ||
३६ ख
नारद उवाच:
न म्रिय़ेरन्न जीर्येरन्सर्वे स्युः सर्वकामिकाः |
३७ क
नारद उवाच:
नाप्रिय़ं प्रतिपश्येय़ुरुत्थानस्य फलं प्रति ||
३७ ख
नारद उवाच:
उपर्युपरि लोकस्य सर्वो भवितुमिच्छति |
३८ क
नारद उवाच:
यतते च यथाशक्ति न च तद्वर्तते तथा ||
३८ ख
नारद उवाच:
ऐश्वर्यमदमत्तांश्च मत्तान्मद्यमदेन च |
३९ क
नारद उवाच:
अप्रमत्ताः शठाः क्रूरा विक्रान्ताः पर्युपासते ||
३९ ख
नारद उवाच:
क्लेशाः प्रतिनिवर्तन्ते केषाञ्चिदसमीक्षिताः |
४० क
नारद उवाच:
स्वं स्वं च पुनरन्येषां न किञ्चिदभिगम्यते ||
४० ख
नारद उवाच:
महच्च फलवैषम्यं दृश्यते कर्मसन्धिषु |
४१ क
नारद उवाच:
वहन्ति शिविकामन्ये यान्त्यन्ये शिविकागताः ||
४१ ख
नारद उवाच:
सर्वेषामृद्धिकामानामन्ये रथपुरःसराः |
४२ क
नारद उवाच:
मनुजाश्च शतस्त्रीकाः शतशो विधवाः स्त्रिय़ः ||
४२ ख
नारद उवाच:
द्वन्द्वारामेषु भूतेषु गच्छन्त्येकैकशो नराः |
४३ क
नारद उवाच:
इदमन्यत्परं पश्य मात्र मोहं करिष्यसि ||
४३ ख
नारद उवाच:
त्यज धर्ममधर्मं च उभे सत्यानृते त्यज |
४४ क
नारद उवाच:
उभे सत्यानृते त्यक्त्वा येन त्यजसि तं त्यज ||
४४ ख
नारद उवाच:
एतत्ते परमं गुह्यमाख्यातमृषिसत्तम |
४५ क
नारद उवाच:
येन देवाः परित्यज्य मर्त्यलोकं दिवं गताः ||
४५ ख
भीष्म उवाच:
नारदस्य वचः श्रुत्वा शुकः परमवुद्धिमान् |
४६ क
भीष्म उवाच:
सञ्चिन्त्य मनसा धीरो निश्चय़ं नाध्यगच्छत ||
४६ ख
भीष्म उवाच:
पुत्रदारैर्महान्क्लेशो विद्याम्नाय़े महाञ्श्रमः |
४७ क
भीष्म उवाच:
किं नु स्याच्छाश्वतं स्थानमल्पक्लेशं महोदय़म् ||
४७ ख
भीष्म उवाच:
ततो मुहूर्तं सञ्चिन्त्य निश्चितां गतिमात्मनः |
४८ क
भीष्म उवाच:
परावरज्ञो धर्मस्य परां नैःश्रेय़सीं गतिम् ||
४८ ख
भीष्म उवाच:
कथं त्वहमसङ्क्लिष्टो गच्छेय़ं परमां गतिम् |
४९ क
भीष्म उवाच:
नावर्तेय़ं यथा भूय़ो योनिसंसारसागरे ||
४९ ख
भीष्म उवाच:
परं भावं हि काङ्क्षामि यत्र नावर्तते पुनः |
५० क
भीष्म उवाच:
सर्वसङ्गान्परित्यज्य निश्चितां मनसो गतिम् ||
५० ख