सञ्जय़ उवाच:
हत्वा कर्णसुतं भीमस्तावकान्पुनरार्दय़त् |
५१ क
सञ्जय़ उवाच:
कृपहार्दिक्ययोश्छित्त्वा चापे तावप्यथार्दय़त् ||
५१ ख
सञ्जय़ उवाच:
दुःशासनं त्रिभिर्विद्ध्वा शकुनिं षड्भिराय़सैः |
५२ क
सञ्जय़ उवाच:
उलूकं च पतत्रिं च चकार विरथावुभौ ||
५२ ख
सञ्जय़ उवाच:
हे सुषेण हतोऽसीति व्रुवन्नादत्त साय़कम् |
५३ क
सञ्जय़ उवाच:
तमस्य कर्णश्चिच्छेद त्रिभिश्चैनमताडय़त् ||
५३ ख
सञ्जय़ उवाच:
अथान्यमपि जग्राह सुपर्वाणं सुतेजनम् |
५४ क
सञ्जय़ उवाच:
सुषेणाय़ासृजद्भीमस्तमप्यस्याच्छिनद्वृषः ||
५४ ख
सञ्जय़ उवाच:
पुनः कर्णस्त्रिसप्तत्या भीमसेनं रथेषुभिः |
५५ क
सञ्जय़ उवाच:
पुत्रं परीप्सन्विव्याध क्रूरं क्रूरैर्जिघांसय़ा ||
५५ ख
सञ्जय़ उवाच:
सुषेणस्तु धनुर्गृह्य भारसाधनमुत्तमम् |
५६ क
सञ्जय़ उवाच:
नकुलं पञ्चभिर्वाणैर्वाह्वोरुरसि चार्दय़त् ||
५६ ख
सञ्जय़ उवाच:
नकुलस्तं तु विंशत्या विद्ध्वा भारसहैर्दृढैः |
५७ क
सञ्जय़ उवाच:
ननाद वलवन्नादं कर्णस्य भय़मादधत् ||
५७ ख
सञ्जय़ उवाच:
तं सुषेणो महाराज विद्ध्वा दशभिराशुगैः |
५८ क
सञ्जय़ उवाच:
चिच्छेद च धनुः शीघ्रं क्षुरप्रेण महारथः ||
५८ ख
सञ्जय़ उवाच:
अथान्यद्धनुरादाय़ नकुलः क्रोधमूर्च्छितः |
५९ क
सञ्जय़ उवाच:
सुषेणं वहुभिर्वाणैर्वारय़ामास संय़ुगे ||
५९ ख
सञ्जय़ उवाच:
स तु वाणैर्दिशो राजन्नाच्छाद्य परवीरहा |
६० क
सञ्जय़ उवाच:
आजघ्ने सारथिं चास्य सुषेणं च ततस्त्रिभिः |
६० ख
सञ्जय़ उवाच:
चिच्छेद चास्य सुदृढं धनुर्भल्लैस्त्रिभिस्त्रिधा ||
६० ग
सञ्जय़ उवाच:
अथान्यद्धनुरादाय़ सुषेणः क्रोधमूर्छितः |
६१ क
सञ्जय़ उवाच:
अविध्यन्नकुलं षष्ट्या सहदेवं च सप्तभिः ||
६१ ख
सञ्जय़ उवाच:
तद्युद्धं सुमहद्घोरमासीद्देवासुरोपमम् |
६२ क
सञ्जय़ उवाच:
निघ्नतां साय़कैस्तूर्णमन्योन्यस्य वधं प्रति ||
६२ ख
सञ्जय़ उवाच:
सात्यकिर्वृषसेनस्य हत्वा सूतं त्रिभिः शरैः |
६३ क
सञ्जय़ उवाच:
धनुश्चिच्छेद भल्लेन जघानाश्वांश्च सप्तभिः |
६३ ख
सञ्जय़ उवाच:
ध्वजमेकेषुणोन्मथ्य त्रिभिस्तं हृद्यताडय़त् ||
६३ ग
सञ्जय़ उवाच:
अथावसन्नः स्वरथे मुहूर्तात्पुनरुत्थितः |
६४ क
सञ्जय़ उवाच:
अथो जिघांसुः शैनेय़ं खड्गचर्मभृदभ्ययात् ||
६४ ख
सञ्जय़ उवाच:
तस्य चाप्लवतः शीघ्रं वृषसेनस्य सात्यकिः |
६५ क
सञ्जय़ उवाच:
वराहकर्णैर्दशभिरविध्यदसिचर्मणी ||
६५ ख
सञ्जय़ उवाच:
दुःशासनस्तु तं दृष्ट्वा विरथं व्याय़ुधं कृतम् |
६६ क
सञ्जय़ उवाच:
आरोप्य स्वरथे तूर्णमपोवाह रथान्तरम् ||
६६ ख
सञ्जय़ उवाच:
अथान्यं रथमास्थाय़ वृषसेनो महारथः |
६७ क
सञ्जय़ उवाच:
कर्णस्य युधि दुर्धर्षः पुनः पृष्ठमपालय़त् ||
६७ ख
सञ्जय़ उवाच:
दुःशासनं तु शैनेय़ो नवैर्नवभिराशुगैः |
६८ क
सञ्जय़ उवाच:
विसूताश्वरथं कृत्वा ललाटे त्रिभिरार्पय़त् ||
६८ ख
सञ्जय़ उवाच:
स त्वन्यं रथमास्थाय़ विधिवत्कल्पितं पुनः |
६९ क
सञ्जय़ उवाच:
युय़ुधे पाण्डुभिः सार्धं कर्णस्याप्याय़यन्वलम् ||
६९ ख
सञ्जय़ उवाच:
धृष्टद्युम्नस्ततः कर्णमविध्यद्दशभिः शरैः |
७० क
सञ्जय़ उवाच:
द्रौपदेय़ास्त्रिसप्तत्या युय़ुधानस्तु सप्तभिः ||
७० ख
सञ्जय़ उवाच:
भीमसेनश्चतुःषष्ट्या सहदेवश्च पञ्चभिः |
७१ क
सञ्जय़ उवाच:
नकुलस्त्रिंशता वाणैः शतानीकश्च सप्तभिः |
७१ ख
सञ्जय़ उवाच:
शिखण्डी दशभिर्वीरो धर्मराजः शतेन तु ||
७१ ग
सञ्जय़ उवाच:
एते चान्ये च राजेन्द्र प्रवीरा जय़गृद्धिनः |
७२ क
सञ्जय़ उवाच:
अभ्यर्दय़न्महेष्वासं सूतपुत्रं महामृधे ||
७२ ख
सञ्जय़ उवाच:
तान्सूतपुत्रो विशिखैर्दशभिर्दशभिः शितैः |
७३ क
सञ्जय़ उवाच:
रथे चारु चरन्वीरः प्रत्यविध्यदरिन्दमः ||
७३ ख
सञ्जय़ उवाच:
तत्रास्त्रवीर्यं कर्णस्य लाघवं च महात्मनः |
७४ क
सञ्जय़ उवाच:
अपश्याम महाराज तदद्भुतमिवाभवत् ||
७४ ख
सञ्जय़ उवाच:
न ह्याददानं ददृशुः सन्दधानं च साय़कान् |
७५ क
सञ्जय़ उवाच:
विमुञ्चन्तं च संरम्भाद्ददृशुस्ते महारथम् ||
७५ ख
सञ्जय़ उवाच:
द्यौर्विय़द्भूर्दिशश्चाशु प्रणुन्ना निशितैः शरैः |
७६ क
सञ्जय़ उवाच:
अरुणाभ्रावृताकारं तस्मिन्देशे वभौ विय़त् ||
७६ ख
सञ्जय़ उवाच:
नृत्यन्निव हि राधेय़श्चापहस्तः प्रतापवान् |
७७ क
सञ्जय़ उवाच:
यैर्विद्धः प्रत्यविध्यत्तानेकैकं त्रिगुणैः शरैः ||
७७ ख
सञ्जय़ उवाच:
दशभिर्दशभिश्चैनान्पुनर्विद्ध्वा ननाद ह |
७८ क
सञ्जय़ उवाच:
साश्वसूतध्वजच्छत्रास्ततस्ते विवरं ददुः ||
७८ ख
सञ्जय़ उवाच:
तान्प्रमृद्नन्महेष्वासान्राधेय़ः शरवृष्टिभिः |
७९ क
सञ्जय़ उवाच:
राजानीकमसम्वाधं प्राविशच्छत्रुकर्शनः ||
७९ ख
सञ्जय़ उवाच:
स रथांस्त्रिशतान्हत्वा चेदीनामनिवर्तिनाम् |
८० क
सञ्जय़ उवाच:
राधेय़ो निशितैर्वाणैस्ततोऽभ्यार्च्छद्युधिष्ठिरम् ||
८० ख
सञ्जय़ उवाच:
ततस्ते पाण्डवा राजञ्शिखण्डी च ससात्यकिः |
८१ क
सञ्जय़ उवाच:
राधेय़ात्परिरक्षन्तो राजानं पर्यवारय़न् ||
८१ ख
सञ्जय़ उवाच:
तथैव तावकाः सर्वे कर्णं दुर्वारणं रणे |
८२ क
सञ्जय़ उवाच:
यत्ताः सेनामहेष्वासाः पर्यरक्षन्त सर्वशः ||
८२ ख
सञ्जय़ उवाच:
नानावादित्रघोषाश्च प्रादुरासन्विशां पते |
८३ क
सञ्जय़ उवाच:
सिंहनादश्च सञ्जज्ञे शूराणामनिवर्तिनाम् ||
८३ ख
सञ्जय़ उवाच:
ततः पुनः समाजग्मुरभीताः कुरुपाण्डवाः |
८४ क
सञ्जय़ उवाच:
युधिष्ठिरमुखाः पार्थाः सूतपुत्रमुखा वय़म् ||
८४ ख