chevron_left शान्ति पर्व अध्याय ३२
वैशम्पाय़न उवाच:
तूष्णीम्भूतं तु राजानं शोचमानं युधिष्ठिरम् |
१ क
वैशम्पाय़न उवाच:
तपस्वी धर्मतत्त्वज्ञः कृष्णद्वैपाय़नोऽव्रवीत् ||
१ ख
वैशम्पाय़न उवाच:
प्रजानां पालनं धर्मो राज्ञां राजीवलोचन |
२ क
वैशम्पाय़न उवाच:
धर्मः प्रमाणं लोकस्य नित्यं धर्मानुवर्तनम् ||
२ ख
वैशम्पाय़न उवाच:
अनुतिष्ठस्व वै राजन्पितृपैतामहं पदम् |
३ क
वैशम्पाय़न उवाच:
व्राह्मणेषु च यो धर्मः स नित्यो वेदनिश्चितः ||
३ ख
वैशम्पाय़न उवाच:
तत्प्रमाणं प्रमाणानां शाश्वतं भरतर्षभ |
४ क
वैशम्पाय़न उवाच:
तस्य धर्मस्य कृत्स्नस्य क्षत्रिय़ः परिरक्षिता ||
४ ख
वैशम्पाय़न उवाच:
तथा यः प्रतिहन्त्यस्य शासनं विषय़े नरः |
५ क
वैशम्पाय़न उवाच:
स वाहुभ्यां विनिग्राह्यो लोकय़ात्राविघातकः ||
५ ख
वैशम्पाय़न उवाच:
प्रमाणमप्रमाणं यः कुर्यान्मोहवशं गतः |
६ क
वैशम्पाय़न उवाच:
भृत्यो वा यदि वा पुत्रस्तपस्वी वापि कश्चन |
६ ख
वैशम्पाय़न उवाच:
पापान्सर्वैरुपाय़ैस्तान्निय़च्छेद्घातय़ेत वा ||
६ ग
वैशम्पाय़न उवाच:
अतोऽन्यथा वर्तमानो राजा प्राप्नोति किल्विषम् |
७ क
वैशम्पाय़न उवाच:
धर्मं विनश्यमानं हि यो न रक्षेत्स धर्महा ||
७ ख
वैशम्पाय़न उवाच:
ते त्वय़ा धर्महन्तारो निहताः सपदानुगाः |
८ क
वैशम्पाय़न उवाच:
स्वधर्मे वर्तमानस्त्वं किं नु शोचसि पाण्डव |
८ ख
वैशम्पाय़न उवाच:
राजा हि हन्याद्दद्याच्च प्रजा रक्षेच्च धर्मतः ||
८ ग
युधिष्ठिर उवाच:
न तेऽभिशङ्के वचनं यद्व्रवीषि तपोधन |
९ क
युधिष्ठिर उवाच:
अपरोक्षो हि ते धर्मः सर्वधर्मभृतां वर ||
९ ख
युधिष्ठिर उवाच:
मय़ा ह्यवध्या वहवो घातिता राज्यकारणात् |
१० क
युधिष्ठिर उवाच:
तान्यकार्याणि मे व्रह्मन्दहन्ति च तपन्ति च ||
१० ख
व्यास उवाच:
ईश्वरो वा भवेत्कर्ता पुरुषो वापि भारत |
११ क
व्यास उवाच:
हठो वा वर्तते लोके कर्मजं वा फलं स्मृतम् ||
११ ख
व्यास उवाच:
ईश्वरेण निय़ुक्ता हि साध्वसाधु च पार्थिव |
१२ क
व्यास उवाच:
कुर्वन्ति पुरुषाः कर्म फलमीश्वरगामि तत् ||
१२ ख
व्यास उवाच:
यथा हि पुरुषश्छिन्द्याद्वृक्षं परशुना वने |
१३ क
व्यास उवाच:
छेत्तुरेव भवेत्पापं परशोर्न कथञ्चन ||
१३ ख
व्यास उवाच:
अथ वा तदुपादानात्प्राप्नुय़ुः कर्मणः फलम् |
१४ क
व्यास उवाच:
दण्डशस्त्रकृतं पापं पुरुषे तन्न विद्यते ||
१४ ख
व्यास उवाच:
न चैतदिष्टं कौन्तेय़ यदन्येन फलं कृतम् |
१५ क
व्यास उवाच:
प्राप्नुय़ादिति तस्माच्च ईश्वरे तन्निवेशय़ ||
१५ ख
व्यास उवाच:
अथ वा पुरुषः कर्ता कर्मणोः शुभपापय़ोः |
१६ क
व्यास उवाच:
न परं विद्यते तस्मादेवमन्यच्छुभं कुरु ||
१६ ख
व्यास उवाच:
न हि कश्चित्क्वचिद्राजन्दिष्टात्प्रतिनिवर्तते |
१७ क
व्यास उवाच:
दण्डशस्त्रकृतं पापं पुरुषे तन्न विद्यते ||
१७ ख
व्यास उवाच:
यदि वा मन्यसे राजन्हठे लोकं प्रतिष्ठितम् |
१८ क
व्यास उवाच:
एवमप्यशुभं कर्म न भूतं न भविष्यति ||
१८ ख
व्यास उवाच:
अथाभिपत्तिर्लोकस्य कर्तव्या शुभपापय़ोः |
१९ क
व्यास उवाच:
अभिपन्नतमं लोके राज्ञामुद्यतदण्डनम् ||
१९ ख
व्यास उवाच:
अथापि लोके कर्माणि समावर्तन्त भारत |
२० क
व्यास उवाच:
शुभाशुभफलं चेमे प्राप्नुवन्तीति मे मतिः ||
२० ख
व्यास उवाच:
एवं सत्यं शुभादेशं कर्मणस्तत्फलं ध्रुवम् |
२१ क
व्यास उवाच:
त्यज तद्राजशार्दूल मैवं शोके मनः कृथाः ||
२१ ख
व्यास उवाच:
स्वधर्मे वर्तमानस्य सापवादेऽपि भारत |
२२ क
व्यास उवाच:
एवमात्मपरित्यागस्तव राजन्न शोभनः ||
२२ ख
व्यास उवाच:
विहितानीह कौन्तेय़ प्राय़श्चित्तानि कर्मिणाम् |
२३ क
व्यास उवाच:
शरीरवांस्तानि कुर्यादशरीरः पराभवेत् ||
२३ ख
व्यास उवाच:
तद्राजञ्जीवमानस्त्वं प्राय़श्चित्तं चरिष्यसि |
२४ क
व्यास उवाच:
प्राय़श्चित्तमकृत्वा तु प्रेत्य तप्तासि भारत ||
२४ ख