chevron_left आश्वमेधिक पर्व अध्याय ३२
व्राह्मण उवाच:
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
१ क
व्राह्मण उवाच:
व्राह्मणस्य च संवादं जनकस्य च भामिनि ||
१ ख
व्राह्मण उवाच:
व्राह्मणं जनको राजा सन्नं कस्मिंश्चिदागमे |
२ क
व्राह्मण उवाच:
विषय़े मे न वस्तव्यमिति शिष्ट्यर्थमव्रवीत् ||
२ ख
व्राह्मण उवाच:
इत्युक्तः प्रत्युवाचाथ व्राह्मणो राजसत्तमम् |
३ क
व्राह्मण उवाच:
आचक्ष्व विषय़ं राजन्यावांस्तव वशे स्थितः ||
३ ख
व्राह्मण उवाच:
सोऽन्यस्य विषय़े राज्ञो वस्तुमिच्छाम्यहं विभो |
४ क
व्राह्मण उवाच:
वचस्ते कर्तुमिच्छामि यथाशास्त्रं महीपते ||
४ ख
व्राह्मण उवाच:
इत्युक्तः स तदा राजा व्राह्मणेन यशस्विना |
५ क
व्राह्मण उवाच:
मुहुरुष्णं च निःश्वस्य न स तं प्रत्यभाषत ||
५ ख
व्राह्मण उवाच:
तमासीनं ध्याय़मानं राजानममितौजसम् |
६ क
व्राह्मण उवाच:
कश्मलं सहसागच्छद्भानुमन्तमिव ग्रहः ||
६ ख
व्राह्मण उवाच:
समाश्वास्य ततो राजा व्यपेते कश्मले तदा |
७ क
व्राह्मण उवाच:
ततो मुहूर्तादिव तं व्राह्मणं वाक्यमव्रवीत् ||
७ ख
व्राह्मण उवाच:
पितृपैतामहे राज्ये वश्ये जनपदे सति |
८ क
व्राह्मण उवाच:
विषय़ं नाधिगच्छामि विचिन्वन्पृथिवीमिमाम् ||
८ ख
व्राह्मण उवाच:
नाध्यगच्छं यदा पृथ्व्यां मिथिला मार्गिता मय़ा |
९ क
व्राह्मण उवाच:
नाध्यगच्छं यदा तस्यां स्वप्रजा मार्गिता मय़ा ||
९ ख
व्राह्मण उवाच:
नाध्यगच्छं यदा तासु तदा मे कश्मलोऽभवत् |
१० क
व्राह्मण उवाच:
ततो मे कश्मलस्यान्ते मतिः पुनरुपस्थिता ||
१० ख
व्राह्मण उवाच:
तय़ा न विषय़ं मन्ये सर्वो वा विषय़ो मम |
११ क
व्राह्मण उवाच:
आत्मापि चाय़ं न मम सर्वा वा पृथिवी मम |
११ ख
व्राह्मण उवाच:
उष्यतां यावदुत्साहो भुज्यतां यावदिष्यते ||
११ ग
व्राह्मण उवाच:
पितृपैतामहे राज्ये वश्ये जनपदे सति |
१२ क
व्राह्मण उवाच:
व्रूहि कां वुद्धिमास्थाय़ ममत्वं वर्जितं त्वय़ा ||
१२ ख
व्राह्मण उवाच:
कां वा वुद्धिं विनिश्चित्य सर्वो वै विषय़स्तव |
१३ क
व्राह्मण उवाच:
नावैषि विषय़ं येन सर्वो वा विषय़स्तव ||
१३ ख
जनक उवाच:
अन्तवन्त इहारम्भा विदिताः सर्वकर्मसु |
१४ क
जनक उवाच:
नाध्यगच्छमहं यस्मान्ममेदमिति यद्भवेत् ||
१४ ख
जनक उवाच:
कस्येदमिति कस्य स्वमिति वेदवचस्तथा |
१५ क
जनक उवाच:
नाध्यगच्छमहं वुद्ध्या ममेदमिति यद्भवेत् ||
१५ ख
जनक उवाच:
एतां वुद्धिं विनिश्चित्य ममत्वं वर्जितं मय़ा |
१६ क
जनक उवाच:
शृणु वुद्धिं तु यां ज्ञात्वा सर्वत्र विषय़ो मम ||
१६ ख
जनक उवाच:
नाहमात्मार्थमिच्छामि गन्धान्घ्राणगतानपि |
१७ क
जनक उवाच:
तस्मान्मे निर्जिता भूमिर्वशे तिष्ठति नित्यदा ||
१७ ख
जनक उवाच:
नाहमात्मार्थमिच्छामि रसानास्येऽपि वर्ततः |
१८ क
जनक उवाच:
आपो मे निर्जितास्तस्माद्वशे तिष्ठन्ति नित्यदा ||
१८ ख
जनक उवाच:
नाहमात्मार्थमिच्छामि रूपं ज्योतिश्च चक्षुषा |
१९ क
जनक उवाच:
तस्मान्मे निर्जितं ज्योतिर्वशे तिष्ठति नित्यदा ||
१९ ख
जनक उवाच:
नाहमात्मार्थमिच्छामि स्पर्शांस्त्वचि गताश्च ये |
२० क
जनक उवाच:
तस्मान्मे निर्जितो वाय़ुर्वशे तिष्ठति नित्यदा ||
२० ख
जनक उवाच:
नाहमात्मार्थमिच्छामि शव्दाञ्श्रोत्रगतानपि |
२१ क
जनक उवाच:
तस्मान्मे निर्जिताः शव्दा वशे तिष्ठन्ति नित्यदा ||
२१ ख
जनक उवाच:
नाहमात्मार्थमिच्छामि मनो नित्यं मनोन्तरे |
२२ क
जनक उवाच:
मनो मे निर्जितं तस्माद्वशे तिष्ठति नित्यदा ||
२२ ख
जनक उवाच:
देवेभ्यश्च पितृभ्यश्च भूतेभ्योऽतिथिभिः सह |
२३ क
जनक उवाच:
इत्यर्थं सर्व एवेमे समारम्भा भवन्ति वै ||
२३ ख
जनक उवाच:
ततः प्रहस्य जनकं व्राह्मणः पुनरव्रवीत् |
२४ क
जनक उवाच:
त्वज्जिज्ञासार्थमद्येह विद्धि मां धर्ममागतम् ||
२४ ख
जनक उवाच:
त्वमस्य व्रह्मनाभस्य वुद्ध्यारस्यानिवर्तिनः |
२५ क
जनक उवाच:
सत्त्वनेमिनिरुद्धस्य चक्रस्यैकः प्रवर्तकः ||
२५ ख