chevron_left आश्रमवासिक पर्व अध्याय ३२
वैशम्पाय़न उवाच:
स तैः सह नरव्याघ्रैर्भ्रातृभिर्भरतर्षभ |
१ क
वैशम्पाय़न उवाच:
राजा रुचिरपद्माक्षैरासां चक्रे तदाश्रमे ||
१ ख
वैशम्पाय़न उवाच:
तापसैश्च महाभागैर्नानादेशसमागतैः |
२ क
वैशम्पाय़न उवाच:
द्रष्टुं कुरुपतेः पुत्रान्पाण्डवान्पृथुवक्षसः ||
२ ख
वैशम्पाय़न उवाच:
तेऽव्रुवञ्ज्ञातुमिच्छामः कतमोऽत्र युधिष्ठिरः |
३ क
वैशम्पाय़न उवाच:
भीमार्जुनय़माश्चैव द्रौपदी च यशस्विनी ||
३ ख
वैशम्पाय़न उवाच:
तानाचख्यौ तदा सूतः सर्वान्नामाभिनामतः |
४ क
वैशम्पाय़न उवाच:
सञ्जय़ो द्रौपदीं चैव सर्वाश्चान्याः कुरुस्त्रिय़ः ||
४ ख
वैशम्पाय़न उवाच:
य एष जाम्वूनदशुद्धगौर; तनुर्महासिंह इव प्रवृद्धः |
५ क
वैशम्पाय़न उवाच:
प्रचण्डघोणः पृथुदीर्घनेत्र; स्ताम्राय़तास्यः कुरुराज एषः ||
५ ख
वैशम्पाय़न उवाच:
अय़ं पुनर्मत्तगजेन्द्रगामी; प्रतप्तचामीकरशुद्धगौरः |
६ क
वैशम्पाय़न उवाच:
पृथ्वाय़तांसः पृथुदीर्घवाहु; र्वृकोदरः पश्यत पश्यतैनम् ||
६ ख
वैशम्पाय़न उवाच:
यस्त्वेष पार्श्वेऽस्य महाधनुष्मा; ञ्श्यामो युवा वारणय़ूथपाभः |
७ क
वैशम्पाय़न उवाच:
सिंहोन्नतांसो गजखेलगामी; पद्माय़ताक्षोऽर्जुन एष वीरः ||
७ ख
वैशम्पाय़न उवाच:
कुन्तीसमीपे पुरुषोत्तमौ तु; यमाविमौ विष्णुमहेन्द्रकल्पौ |
८ क
वैशम्पाय़न उवाच:
मनुष्यलोके सकले समोऽस्ति; यय़ोर्न रूपे न वले न शीले ||
८ ख
वैशम्पाय़न उवाच:
इय़ं पुनः पद्मदलाय़ताक्षी; मध्यं वय़ः किञ्चिदिव स्पृशन्ती |
९ क
वैशम्पाय़न उवाच:
नीलोत्पलाभा पुरदेवतेव; कृष्णा स्थिता मूर्तिमतीव लक्ष्मीः ||
९ ख
वैशम्पाय़न उवाच:
अस्यास्तु पार्श्वे कनकोत्तमाभा; यैषा प्रभा मूर्तिमतीव गौरी |
१० क
वैशम्पाय़न उवाच:
मध्ये स्थितैषा भगिनी द्विजाग्र्या; चक्राय़ुधस्याप्रतिमस्य तस्य ||
१० ख
वैशम्पाय़न उवाच:
इय़ं स्वसा राजचमूपतेस्तु; प्रवृद्धनीलोत्पलदामवर्णा |
११ क
वैशम्पाय़न उवाच:
पस्पर्ध कृष्णेन नृपः सदा यो; वृकोदरस्यैष परिग्रहोऽग्र्यः ||
११ ख
वैशम्पाय़न उवाच:
इय़ं च राज्ञो मगधाधिपस्य; सुता जरासन्ध इति श्रुतस्य |
१२ क
वैशम्पाय़न उवाच:
यवीय़सो माद्रवतीसुतस्य; भार्या मता चम्पकदामगौरी ||
१२ ख
वैशम्पाय़न उवाच:
इन्दीवरश्यामतनुः स्थिता तु; यैषापरासन्नमहीतले च |
१३ क
वैशम्पाय़न उवाच:
भार्या मता माद्रवतीसुतस्य; ज्येष्ठस्य सेय़ं कमलाय़ताक्षी ||
१३ ख
वैशम्पाय़न उवाच:
इय़ं तु निष्टप्तसुवर्णगौरी; राज्ञो विराटस्य सुता सपुत्रा |
१४ क
वैशम्पाय़न उवाच:
भार्याभिमन्योर्निहतो रणे यो; द्रोणादिभिस्तैर्विरथो रथस्थैः ||
१४ ख
वैशम्पाय़न उवाच:
एतास्तु सीमन्तशिरोरुहा याः; शुक्लोत्तरीय़ा नरराजपत्न्यः |
१५ क
वैशम्पाय़न उवाच:
राज्ञोऽस्य वृद्धस्य परंशताख्याः; स्नुषा विवीरा हतपुत्रनाथाः ||
१५ ख
वैशम्पाय़न उवाच:
एता यथामुख्यमुदाहृता वो; व्राह्मण्यभावादृजुवुद्धिसत्त्वाः |
१६ क
वैशम्पाय़न उवाच:
सर्वा भवद्भिः परिपृच्छ्यमाना; नरेन्द्रपत्न्यः सुविशुद्धसत्त्वाः ||
१६ ख
वैशम्पाय़न उवाच:
एवं स राजा कुरुवृद्धवर्यः; समागतस्तैर्नरदेवपुत्रैः |
१७ क
वैशम्पाय़न उवाच:
पप्रच्छ सर्वान्कुशलं तदानीं; गतेषु सर्वेष्वथ तापसेषु ||
१७ ख
वैशम्पाय़न उवाच:
योधेषु चाप्याश्रममण्डलं तं; मुक्त्वा निविष्टेषु विमुच्य पत्रम् |
१८ क
वैशम्पाय़न उवाच:
स्त्रीवृद्धवाले च सुसंनिविष्टे; यथार्हतः कुशलं पर्यपृच्छत् ||
१८ ख