वैशम्पाय़न उवाच:
पितामहं गुरुं चैव प्रत्युद्गम्य युधिष्ठिरः |
१ क
वैशम्पाय़न उवाच:
अभिवाद्य ततो राजन्निदं वचनमव्रवीत् |
१ ख
वैशम्पाय़न उवाच:
भीष्मं द्रोणं कृपं द्रौणिं दुर्योधनविविंशती ||
१ ग
वैशम्पाय़न उवाच:
अस्मिन्यज्ञे भवन्तो मामनुगृह्णन्तु सर्वशः |
२ क
वैशम्पाय़न उवाच:
इदं वः स्वमहं चैव यदिहास्ति धनं मम |
२ ख
वैशम्पाय़न उवाच:
प्रीणय़न्तु भवन्तो मां यथेष्टमनिय़न्त्रिताः ||
२ ग
वैशम्पाय़न उवाच:
एवमुक्त्वा स तान्सर्वान्दीक्षितः पाण्डवाग्रजः |
३ क
वैशम्पाय़न उवाच:
युय़ोज ह यथाय़ोगमधिकारेष्वनन्तरम् ||
३ ख
वैशम्पाय़न उवाच:
भक्ष्यभोज्याधिकारेषु दुःशासनमय़ोजय़त् |
४ क
वैशम्पाय़न उवाच:
परिग्रहे व्राह्मणानामश्वत्थामानमुक्तवान् ||
४ ख
वैशम्पाय़न उवाच:
राज्ञां तु प्रतिपूजार्थं सञ्जय़ं संन्ययोजय़त् |
५ क
वैशम्पाय़न उवाच:
कृताकृतपरिज्ञाने भीष्मद्रोणौ महामती ||
५ ख
वैशम्पाय़न उवाच:
हिरण्यस्य सुवर्णस्य रत्नानां चान्ववेक्षणे |
६ क
वैशम्पाय़न उवाच:
दक्षिणानां च वै दाने कृपं राजा न्ययोजय़त् |
६ ख
वैशम्पाय़न उवाच:
तथान्यान्पुरुषव्याघ्रांस्तस्मिंस्तस्मिन्न्ययोजय़त् ||
६ ग
वैशम्पाय़न उवाच:
वाह्लिको धृतराष्ट्रश्च सोमदत्तो जय़द्रथः |
७ क
वैशम्पाय़न उवाच:
नकुलेन समानीताः स्वामिवत्तत्र रेमिरे ||
७ ख
वैशम्पाय़न उवाच:
क्षत्ता व्ययकरस्त्वासीद्विदुरः सर्वधर्मवित् |
८ क
वैशम्पाय़न उवाच:
दुर्योधनस्त्वर्हणानि प्रतिजग्राह सर्वशः ||
८ ख
वैशम्पाय़न उवाच:
सर्वलोकः समावृत्तः पिप्रीषुः फलमुत्तमम् |
९ क
वैशम्पाय़न उवाच:
द्रष्टुकामः सभां चैव धर्मराजं च पाण्डवम् ||
९ ख
वैशम्पाय़न उवाच:
न कश्चिदाहरत्तत्र सहस्रावरमर्हणम् |
१० क
वैशम्पाय़न उवाच:
रत्नैश्च वहुभिस्तत्र धर्मराजमवर्धय़न् ||
१० ख
वैशम्पाय़न उवाच:
कथं नु मम कौरव्यो रत्नदानैः समाप्नुय़ात् |
११ क
वैशम्पाय़न उवाच:
यज्ञमित्येव राजानः स्पर्धमाना ददुर्धनम् ||
११ ख
वैशम्पाय़न उवाच:
भवनैः सविमानाग्रैः सोदर्कैर्वलसंवृतैः |
१२ क
वैशम्पाय़न उवाच:
लोकराजविमानैश्च व्राह्मणावसथैः सह ||
१२ ख
वैशम्पाय़न उवाच:
कृतैरावसथैर्दिव्यैर्विमानप्रतिमैस्तथा |
१३ क
वैशम्पाय़न उवाच:
विचित्रै रत्नवद्भिश्च ऋद्ध्या परमय़ा युतैः ||
१३ ख
वैशम्पाय़न उवाच:
राजभिश्च समावृत्तैरतीवश्रीसमृद्धिभिः |
१४ क
वैशम्पाय़न उवाच:
अशोभत सदो राजन्कौन्तेय़स्य महात्मनः ||
१४ ख
वैशम्पाय़न उवाच:
ऋद्ध्या च वरुणं देवं स्पर्धमानो युधिष्ठिरः |
१५ क
वैशम्पाय़न उवाच:
षडग्निनाथ यज्ञेन सोऽय़जद्दक्षिणावता |
१५ ख
वैशम्पाय़न उवाच:
सर्वाञ्जनान्सर्वकामैः समृद्धैः समतर्पय़त् ||
१५ ग
वैशम्पाय़न उवाच:
अन्नवान्वहुभक्ष्यश्च भुक्तवज्जनसंवृतः |
१६ क
वैशम्पाय़न उवाच:
रत्नोपहारकर्मण्यो वभूव स समागमः ||
१६ ख
वैशम्पाय़न उवाच:
इडाज्यहोमाहुतिभिर्मन्त्रशिक्षासमन्वितैः |
१७ क
वैशम्पाय़न उवाच:
तस्मिन्हि ततृपुर्देवास्तते यज्ञे महर्षिभिः ||
१७ ख
वैशम्पाय़न उवाच:
यथा देवास्तथा विप्रा दक्षिणान्नमहाधनैः |
१८ क
वैशम्पाय़न उवाच:
ततृपुः सर्ववर्णाश्च तस्मिन्यज्ञे मुदान्विताः ||
१८ ख