chevron_left वन पर्व अध्याय ३२
युधिष्ठिर उवाच:
वल्गु चित्रपदं श्लक्ष्णं याज्ञसेनि त्वय़ा वचः |
१ क
युधिष्ठिर उवाच:
उक्तं तच्छ्रुतमस्माभिर्नास्तिक्यं तु प्रभाषसे ||
१ ख
युधिष्ठिर उवाच:
नाहं धर्मफलान्वेषी राजपुत्रि चराम्युत |
२ क
युधिष्ठिर उवाच:
ददामि देय़मित्येव यजे यष्टव्यमित्युत ||
२ ख
युधिष्ठिर उवाच:
अस्तु वात्र फलं मा वा कर्तव्यं पुरुषेण यत् |
३ क
युधिष्ठिर उवाच:
गृहानावसता कृष्णे यथाशक्ति करोमि तत् ||
३ ख
युधिष्ठिर उवाच:
धर्मं चरामि सुश्रोणि न धर्मफलकारणात् |
४ क
युधिष्ठिर उवाच:
आगमाननतिक्रम्य सतां वृत्तमवेक्ष्य च |
४ ख
युधिष्ठिर उवाच:
धर्म एव मनः कृष्णे स्वभावाच्चैव मे धृतम् ||
४ ग
युधिष्ठिर उवाच:
न धर्मफलमाप्नोति यो धर्मं दोग्धुमिच्छति |
५ क
युधिष्ठिर उवाच:
यश्चैनं शङ्कते कृत्वा नास्तिक्यात्पापचेतनः ||
५ ख
युधिष्ठिर उवाच:
अतिवादान्मदाच्चैव मा धर्ममतिशङ्किथाः |
६ क
युधिष्ठिर उवाच:
धर्मातिशङ्की पुरुषस्तिर्यग्गतिपराय़णः ||
६ ख
युधिष्ठिर उवाच:
धर्मो यस्यातिशङ्क्यः स्यादार्षं वा दुर्वलात्मनः |
७ क
युधिष्ठिर उवाच:
वेदाच्छूद्र इवापेय़ात्स लोकादजरामरात् ||
७ ख
युधिष्ठिर उवाच:
वेदाध्याय़ी धर्मपरः कुले जातो यशस्विनि |
८ क
युधिष्ठिर उवाच:
स्थविरेषु स योक्तव्यो राजभिर्धर्मचारिभिः ||
८ ख
युधिष्ठिर उवाच:
पापीय़ान्हि स शूद्रेभ्यस्तस्करेभ्यो विशेषतः |
९ क
युधिष्ठिर उवाच:
शास्त्रातिगो मन्दवुद्धिर्यो धर्ममतिशङ्कते ||
९ ख
युधिष्ठिर उवाच:
प्रत्यक्षं हि त्वय़ा दृष्ट ऋषिर्गच्छन्महातपाः |
१० क
युधिष्ठिर उवाच:
मार्कण्डेय़ोऽप्रमेय़ात्मा धर्मेण चिरजीविताम् ||
१० ख
युधिष्ठिर उवाच:
व्यासो वसिष्ठो मैत्रेय़ो नारदो लोमशः शुकः |
११ क
युधिष्ठिर उवाच:
अन्ये च ऋषय़ः सिद्धा धर्मेणैव सुचेतसः ||
११ ख
युधिष्ठिर उवाच:
प्रत्यक्षं पश्यसि ह्येतान्दिव्ययोगसमन्वितान् |
१२ क
युधिष्ठिर उवाच:
शापानुग्रहणे शक्तान्देवैरपि गरीय़सः ||
१२ ख
युधिष्ठिर उवाच:
एते हि धर्ममेवादौ वर्णय़न्ति सदा मम |
१३ क
युधिष्ठिर उवाच:
कर्तव्यममरप्रख्याः प्रत्यक्षागमवुद्धय़ः ||
१३ ख
युधिष्ठिर उवाच:
अतो नार्हसि कल्याणि धातारं धर्ममेव च |
१४ क
युधिष्ठिर उवाच:
रजोमूढेन मनसा क्षेप्तुं शङ्कितुमेव च ||
१४ ख
युधिष्ठिर उवाच:
धर्मातिशङ्की नान्यस्मिन्प्रमाणमधिगच्छति |
१५ क
युधिष्ठिर उवाच:
आत्मप्रमाण उन्नद्धः श्रेय़सो ह्यवमन्यकः ||
१५ ख
युधिष्ठिर उवाच:
इन्द्रिय़प्रीतिसम्वद्धं यदिदं लोकसाक्षिकम् |
१६ क
युधिष्ठिर उवाच:
एतावान्मन्यते वालो मोहमन्यत्र गच्छति ||
१६ ख
युधिष्ठिर उवाच:
प्राय़श्चित्तं न तस्यास्ति यो धर्ममतिशङ्कते |
१७ क
युधिष्ठिर उवाच:
ध्याय़न्स कृपणः पापो न लोकान्प्रतिपद्यते ||
१७ ख
युधिष्ठिर उवाच:
प्रमाणान्यतिवृत्तो हि वेदशास्त्रार्थनिन्दकः |
१८ क
युधिष्ठिर उवाच:
कामलोभानुगो मूढो नरकं प्रतिपद्यते ||
१८ ख
युधिष्ठिर उवाच:
यस्तु नित्यं कृतमतिर्धर्ममेवाभिपद्यते |
१९ क
युधिष्ठिर उवाच:
अशङ्कमानः कल्याणि सोऽमुत्रानन्त्यमश्नुते ||
१९ ख
युधिष्ठिर उवाच:
आर्षं प्रमाणमुत्क्रम्य धर्मानपरिपालय़न् |
२० क
युधिष्ठिर उवाच:
सर्वशास्त्रातिगो मूढः शं जन्मसु न विन्दति ||
२० ख
युधिष्ठिर उवाच:
शिष्टैराचरितं धर्मं कृष्णे मा स्मातिशङ्किथाः |
२१ क
युधिष्ठिर उवाच:
पुराणमृषिभिः प्रोक्तं सर्वज्ञैः सर्वदर्शिभिः ||
२१ ख
युधिष्ठिर उवाच:
धर्म एव प्लवो नान्यः स्वर्गं द्रौपदि गच्छताम् |
२२ क
युधिष्ठिर उवाच:
सैव नौः सागरस्येव वणिजः पारमृच्छतः ||
२२ ख
युधिष्ठिर उवाच:
अफालो यदि धर्मः स्याच्चरितो धर्मचारिभिः |
२३ क
युधिष्ठिर उवाच:
अप्रतिष्ठे तमस्येतज्जगन्मज्जेदनिन्दिते ||
२३ ख
युधिष्ठिर उवाच:
निर्वाणं नाधिगच्छेय़ुर्जीवेय़ुः पशुजीविकाम् |
२४ क
युधिष्ठिर उवाच:
विघातेनैव युज्येय़ुर्न चार्थं किञ्चिदाप्नुय़ुः ||
२४ ख
युधिष्ठिर उवाच:
तपश्च व्रह्मचर्यं च यज्ञः स्वाध्याय़ एव च |
२५ क
युधिष्ठिर उवाच:
दानमार्जवमेतानि यदि स्युरफलानि वै ||
२५ ख
युधिष्ठिर उवाच:
नाचरिष्यन्परे धर्मं परे परतरे च ये |
२६ क
युधिष्ठिर उवाच:
विप्रलम्भोऽय़मत्यन्तं यदि स्युरफलाः क्रिय़ाः ||
२६ ख
युधिष्ठिर उवाच:
ऋषय़श्चैव देवाश्च गन्धर्वासुरराक्षसाः |
२७ क
युधिष्ठिर उवाच:
ईश्वराः कस्य हेतोस्ते चरेय़ुर्धर्ममादृताः ||
२७ ख
युधिष्ठिर उवाच:
फलदं त्विह विज्ञाय़ धातारं श्रेय़सि ध्रुवे |
२८ क
युधिष्ठिर उवाच:
धर्मं ते ह्याचरन्कृष्णे तद्धि धर्मसनातनम् ||
२८ ख
युधिष्ठिर उवाच:
स चाय़ं सफलो धर्मो न धर्मोऽफल उच्यते |
२९ क
युधिष्ठिर उवाच:
दृश्यन्तेऽपि हि विद्यानां फलानि तपसां तथा ||
२९ ख
युधिष्ठिर उवाच:
त्वय़्येतद्वै विजानीहि जन्म कृष्णे यथा श्रुतम् |
३० क
युधिष्ठिर उवाच:
वेत्थ चापि यथा जातो धृष्टद्युम्नः प्रतापवान् ||
३० ख
युधिष्ठिर उवाच:
एतावदेव पर्याप्तमुपमानं शुचिस्मिते |
३१ क
युधिष्ठिर उवाच:
कर्मणां फलमस्तीति धीरोऽल्पेनापि तुष्यति ||
३१ ख
युधिष्ठिर उवाच:
वहुनापि ह्यविद्वांसो नैव तुष्यन्त्यवुद्धय़ः |
३२ क
युधिष्ठिर उवाच:
तेषां न धर्मजं किञ्चित्प्रेत्य शर्मास्ति कर्म वा ||
३२ ख
युधिष्ठिर उवाच:
कर्मणामुत पुण्यानां पापानां च फलोदय़ः |
३३ क
युधिष्ठिर उवाच:
प्रभवश्चाप्ययश्चैव देवगुह्यानि भामिनि ||
३३ ख
युधिष्ठिर उवाच:
नैतानि वेद यः कश्चिन्मुह्यन्त्यत्र प्रजा इमाः |
३४ क
युधिष्ठिर उवाच:
रक्ष्याण्येतानि देवानां गूढमाय़ा हि देवताः ||
३४ ख
युधिष्ठिर उवाच:
कृशाङ्गाः सुव्रताश्चैव तपसा दग्धकिल्विषाः |
३५ क
युधिष्ठिर उवाच:
प्रसन्नैर्मानसैर्युक्ताः पश्यन्त्येतानि वै द्विजाः ||
३५ ख
युधिष्ठिर उवाच:
न फलादर्शनाद्धर्मः शङ्कितव्यो न देवताः |
३६ क
युधिष्ठिर उवाच:
यष्टव्यं चाप्रमत्तेन दातव्यं चानसूय़ता ||
३६ ख
युधिष्ठिर उवाच:
कर्मणां फलमस्तीति तथैतद्धर्म शाश्वतम् |
३७ क
युधिष्ठिर उवाच:
व्रह्मा प्रोवाच पुत्राणां यदृषिर्वेद कश्यपः ||
३७ ख
युधिष्ठिर उवाच:
तस्मात्ते संशय़ः कृष्णे नीहार इव नश्यतु |
३८ क
युधिष्ठिर उवाच:
व्यवस्य सर्वमस्तीति नास्तिक्यं भावमुत्सृज ||
३८ ख
युधिष्ठिर उवाच:
ईश्वरं चापि भूतानां धातारं मा विचिक्षिपः |
३९ क
युधिष्ठिर उवाच:
शिक्षस्वैनं नमस्वैनं मा ते भूद्वुद्धिरीदृशी ||
३९ ख
युधिष्ठिर उवाच:
यस्य प्रसादात्तद्भक्तो मर्त्यो गच्छत्यमर्त्यताम् |
४० क
युधिष्ठिर उवाच:
उत्तमं दैवतं कृष्णे मातिवोचः कथञ्चन ||
४० ख