chevron_left उद्योग पर्व अध्याय ३२
वैशम्पाय़न उवाच:
अनुज्ञातः पाण्डवेन प्रय़यौ सञ्जय़स्तदा |
१ क
वैशम्पाय़न उवाच:
शासनं धृतराष्ट्रस्य सर्वं कृत्वा महात्मनः ||
१ ख
वैशम्पाय़न उवाच:
सम्प्राप्य हास्तिनपुरं शीघ्रं च प्रविवेश ह |
२ क
वैशम्पाय़न उवाच:
अन्तःपुरमुपस्थाय़ द्वाःस्थं वचनमव्रवीत् ||
२ ख
वैशम्पाय़न उवाच:
आचक्ष्व मां धृतराष्ट्राय़ द्वाःस्थ; उपागतं पाण्डवानां सकाशात् |
३ क
वैशम्पाय़न उवाच:
जागर्ति चेदभिवदेस्त्वं हि क्षत्तः; प्रविशेय़ं विदितो भूमिपस्य ||
३ ख
द्वाःस्थ उवाच:
सञ्जय़ोऽय़ं भूमिपते नमस्ते; दिदृक्षय़ा द्वारमुपागतस्ते |
४ क
द्वाःस्थ उवाच:
प्राप्तो दूतः पाण्डवानां सकाशा; त्प्रशाधि राजन्किमय़ं करोतु ||
४ ख
धृतराष्ट्र उवाच:
आचक्ष्व मां सुखिनं काल्यमस्मै; प्रवेश्यतां स्वागतं सञ्जय़ाय़ |
५ क
धृतराष्ट्र उवाच:
न चाहमेतस्य भवाम्यकाल्यः; स मे कस्माद्द्वारि तिष्ठेत क्षत्तः ||
५ ख
वैशम्पाय़न उवाच:
ततः प्रविश्यानुमते नृपस्य; महद्वेश्म प्राज्ञशूरार्यगुप्तम् |
६ क
वैशम्पाय़न उवाच:
सिंहासनस्थं पार्थिवमाससाद; वैचित्रवीर्यं प्राञ्जलिः सूतपुत्रः ||
६ ख
सञ्जय़ उवाच:
सञ्जय़ोऽहं भूमिपते नमस्ते; प्राप्तोऽस्मि गत्वा नरदेव पाण्डवान् |
७ क
सञ्जय़ उवाच:
अभिवाद्य त्वां पाण्डुपुत्रो मनस्वी; युधिष्ठिरः कुशलं चान्वपृच्छत् ||
७ ख
सञ्जय़ उवाच:
स ते पुत्रान्पृच्छति प्रीय़माणः; कच्चित्पुत्रैः प्रीय़से नप्तृभिश्च |
८ क
सञ्जय़ उवाच:
तथा सुहृद्भिः सचिवैश्च राज; न्ये चापि त्वामुपजीवन्ति तैश्च ||
८ ख
धृतराष्ट्र उवाच:
अभ्येत्य त्वां तात वदामि सञ्जय़; अजातशत्रुं च सुखेन पार्थम् |
९ क
धृतराष्ट्र उवाच:
कच्चित्स राजा कुशली सपुत्रः; सहामात्यः सानुजः कौरवाणाम् ||
९ ख
सञ्जय़ उवाच:
सहामात्यः कुशली पाण्डुपुत्रो; भूय़श्चातो यच्च तेऽग्रे मनोऽभूत् |
१० क
सञ्जय़ उवाच:
निर्णिक्तधर्मार्थकरो मनस्वी; वहुश्रुतो दृष्टिमाञ्शीलवांश्च ||
१० ख
सञ्जय़ उवाच:
परं धर्मात्पाण्डवस्यानृशंस्यं; धर्मः परो वित्तचय़ान्मतोऽस्य |
११ क
सञ्जय़ उवाच:
सुखप्रिय़े धर्महीने न पार्थो; ऽनुरुध्यते भारत तस्य विद्धि ||
११ ख
सञ्जय़ उवाच:
परप्रय़ुक्तः पुरुषो विचेष्टते; सूत्रप्रोता दारुमय़ीव योषा |
१२ क
सञ्जय़ उवाच:
इमं दृष्ट्वा निय़मं पाण्डवस्य; मन्ये परं कर्म दैवं मनुष्यात् ||
१२ ख
सञ्जय़ उवाच:
इमं च दृष्ट्वा तव कर्मदोषं; पादोदर्कं घोरमवर्णरूपम् |
१३ क
सञ्जय़ उवाच:
यावन्नरः कामय़तेऽतिकाल्यं; तावन्नरोऽय़ं लभते प्रशंसाम् ||
१३ ख
सञ्जय़ उवाच:
अजातशत्रुस्तु विहाय़ पापं; जीर्णां त्वचं सर्प इवासमर्थाम् |
१४ क
सञ्जय़ उवाच:
विरोचतेऽहार्यवृत्तेन धीरो; युधिष्ठिरस्त्वय़ि पापं विसृज्य ||
१४ ख
सञ्जय़ उवाच:
अङ्गात्मनः कर्म निवोध राज; न्धर्मार्थय़ुक्तादार्यवृत्तादपेतम् |
१५ क
सञ्जय़ उवाच:
उपक्रोशं चेह गतोऽसि राज; न्नोहेश्च पापं प्रसजेदमुत्र ||
१५ ख
सञ्जय़ उवाच:
स त्वमर्थं संशय़ितं विना तै; राशंससे पुत्रवशानुगोऽद्य |
१६ क
सञ्जय़ उवाच:
अधर्मशव्दश्च महान्पृथिव्यां; नेदं कर्म त्वत्समं भारताग्र्य ||
१६ ख
सञ्जय़ उवाच:
हीनप्रज्ञो दौष्कुलेय़ो नृशंसो; दीर्घवैरी क्षत्रविद्यास्वधीरः |
१७ क
सञ्जय़ उवाच:
एवन्धर्मा नापदः सन्तितीर्षे; द्धीनवीर्यो यश्च भवेदशिष्टः ||
१७ ख
सञ्जय़ उवाच:
कुले जातो धर्मवान्यो यशस्वी; वहुश्रुतः सुखजीवी यतात्मा |
१८ क
सञ्जय़ उवाच:
धर्मार्थय़ोर्ग्रथितय़ोर्विभर्ति; नान्यत्र दिष्टस्य वशादुपैति ||
१८ ख
सञ्जय़ उवाच:
कथं हि मन्त्राग्र्यधरो मनीषी; धर्मार्थय़ोरापदि सम्प्रणेता |
१९ क
सञ्जय़ उवाच:
एवंय़ुक्तः सर्वमन्त्रैरहीनो; अनानृशंस्यं कर्म कुर्यादमूढः ||
१९ ख
सञ्जय़ उवाच:
तवापीमे मन्त्रविदः समेत्य; समासते कर्मसु नित्ययुक्ताः |
२० क
सञ्जय़ उवाच:
तेषामय़ं वलवान्निश्चय़श्च; कुरुक्षय़ार्थे निरय़ो व्यपादि ||
२० ख
सञ्जय़ उवाच:
अकालिकं कुरवो नाभविष्य; न्पापेन चेत्पापमजातशत्रुः |
२१ क
सञ्जय़ उवाच:
इच्छेज्जातु त्वय़ि पापं विसृज्य; निन्दा चेय़ं तव लोकेऽभविष्यत् ||
२१ ख
सञ्जय़ उवाच:
किमन्यत्र विषय़ादीश्वराणां; यत्र पार्थः परलोकं ददर्श |
२२ क
सञ्जय़ उवाच:
अत्यक्रामत्स तथा संमतः स्या; न्न संशय़ो नास्ति मनुष्यकारः ||
२२ ख
सञ्जय़ उवाच:
एतान्गुणान्कर्मकृतानवेक्ष्य; भावाभावौ वर्तमानावनित्यौ |
२३ क
सञ्जय़ उवाच:
वलिर्हि राजा पारमविन्दमानो; नान्यत्कालात्कारणं तत्र मेने ||
२३ ख
सञ्जय़ उवाच:
चक्षुः श्रोत्रे नासिका त्वक्च जिह्वा; ज्ञानस्यैतान्याय़तनानि जन्तोः |
२४ क
सञ्जय़ उवाच:
तानि प्रीतान्येव तृष्णाक्षय़ान्ते; तान्यव्यथो दुःखहीनः प्रणुद्यात् ||
२४ ख
सञ्जय़ उवाच:
न त्वेव मन्ये पुरुषस्य कर्म; संवर्तते सुप्रय़ुक्तं यथावत् |
२५ क
सञ्जय़ उवाच:
मातुः पितुः कर्मणाभिप्रसूतः; संवर्धते विधिवद्भोजनेन ||
२५ ख
सञ्जय़ उवाच:
प्रिय़ाप्रिय़े सुखदुःखे च राज; न्निन्दाप्रशंसे च भजेत एनम् |
२६ क
सञ्जय़ उवाच:
परस्त्वेनं गर्हय़तेऽपराधे; प्रशंसते साधुवृत्तं तमेव ||
२६ ख
सञ्जय़ उवाच:
स त्वा गर्हे भारतानां विरोधा; दन्तो नूनं भविताय़ं प्रजानाम् |
२७ क
सञ्जय़ उवाच:
नो चेदिदं तव कर्मापराधा; त्कुरून्दहेत्कृष्णवर्त्मेव कक्षम् ||
२७ ख
सञ्जय़ उवाच:
त्वमेवैको जातपुत्रेषु राज; न्वशं गन्ता सर्वलोके नरेन्द्र |
२८ क
सञ्जय़ उवाच:
कामात्मनां श्लाघसे द्यूतकाले; नान्यच्छमात्पश्य विपाकमस्य ||
२८ ख
सञ्जय़ उवाच:
अनाप्तानां प्रग्रहात्त्वं नरेन्द्र; तथाप्तानां निग्रहाच्चैव राजन् |
२९ क
सञ्जय़ उवाच:
भूमिं स्फीतां दुर्वलत्वादनन्तां; न शक्तस्त्वं रक्षितुं कौरवेय़ ||
२९ ख
सञ्जय़ उवाच:
अनुज्ञातो रथवेगावधूतः; श्रान्तो निपद्ये शय़नं नृसिंह |
३० क
सञ्जय़ उवाच:
प्रातः श्रोतारः कुरवः सभाय़ा; मजातशत्रोर्वचनं समेताः ||
३० ख