श्रीभगवानु उवाच:
भूय़ एव महावाहो शृणु मे परमं वचः |
१ क
श्रीभगवानु उवाच:
यत्तेऽहं प्रीय़माणाय़ वक्ष्यामि हितकाम्यया ||
१ ख
श्रीभगवानु उवाच:
न मे विदुः सुरगणाः प्रभवं न महर्षय़ः |
२ क
श्रीभगवानु उवाच:
अहमादिर्हि देवानां महर्षीणां च सर्वशः ||
२ ख
श्रीभगवानु उवाच:
यो मामजमनादिं च वेत्ति लोकमहेश्वरम् |
३ क
श्रीभगवानु उवाच:
असंमूढः स मर्त्येषु सर्वपापैः प्रमुच्यते ||
३ ख
श्रीभगवानु उवाच:
वुद्धिर्ज्ञानमसंमोहः क्षमा सत्यं दमः शमः |
४ क
श्रीभगवानु उवाच:
सुखं दुःखं भवोऽभावो भय़ं चाभय़मेव च ||
४ ख
श्रीभगवानु उवाच:
अहिंसा समता तुष्टिस्तपो दानं यशोऽय़शः |
५ क
श्रीभगवानु उवाच:
भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ||
५ ख
श्रीभगवानु उवाच:
महर्षय़ः सप्त पूर्वे चत्वारो मनवस्तथा |
६ क
श्रीभगवानु उवाच:
मद्भावा मानसा जाता येषां लोक इमाः प्रजाः ||
६ ख
श्रीभगवानु उवाच:
एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः |
७ क
श्रीभगवानु उवाच:
सोऽविकम्पेन योगेन युज्यते नात्र संशय़ः ||
७ ख
श्रीभगवानु उवाच:
अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते |
८ क
श्रीभगवानु उवाच:
इति मत्वा भजन्ते मां वुधा भावसमन्विताः ||
८ ख
श्रीभगवानु उवाच:
मच्चित्ता मद्गतप्राणा वोधय़न्तः परस्परम् |
९ क
श्रीभगवानु उवाच:
कथय़न्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ||
९ ख
श्रीभगवानु उवाच:
तेषां सततय़ुक्तानां भजतां प्रीतिपूर्वकम् |
१० क
श्रीभगवानु उवाच:
ददामि वुद्धिय़ोगं तं येन मामुपय़ान्ति ते ||
१० ख
श्रीभगवानु उवाच:
तेषामेवानुकम्पार्थमहमज्ञानजं तमः |
११ क
श्रीभगवानु उवाच:
नाशय़ाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ||
११ ख
अर्जुन उवाच:
परं व्रह्म परं धाम पवित्रं परमं भवान् |
१२ क
अर्जुन उवाच:
पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् ||
१२ ख
अर्जुन उवाच:
आहुस्त्वामृषय़ः सर्वे देवर्षिर्नारदस्तथा |
१३ क
अर्जुन उवाच:
असितो देवलो व्यासः स्वय़ं चैव व्रवीषि मे ||
१३ ख
अर्जुन उवाच:
सर्वमेतदृतं मन्ये यन्मां वदसि केशव |
१४ क
अर्जुन उवाच:
न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवाः ||
१४ ख
अर्जुन उवाच:
स्वय़मेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम |
१५ क
अर्जुन उवाच:
भूतभावन भूतेश देवदेव जगत्पते ||
१५ ख
अर्जुन उवाच:
वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतय़ः |
१६ क
अर्जुन उवाच:
याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि ||
१६ ख
अर्जुन उवाच:
कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तय़न् |
१७ क
अर्जुन उवाच:
केषु केषु च भावेषु चिन्त्योऽसि भगवन्मय़ा ||
१७ ख
अर्जुन उवाच:
विस्तरेणात्मनो योगं विभूतिं च जनार्दन |
१८ क
अर्जुन उवाच:
भूय़ः कथय़ तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् ||
१८ ख
श्रीभगवानु उवाच:
हन्त ते कथय़िष्यामि दिव्या ह्यात्मविभूतय़ः |
१९ क
श्रीभगवानु उवाच:
प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे ||
१९ ख
श्रीभगवानु उवाच:
अहमात्मा गुडाकेश सर्वभूताशय़स्थितः |
२० क
श्रीभगवानु उवाच:
अहमादिश्च मध्यं च भूतानामन्त एव च ||
२० ख
श्रीभगवानु उवाच:
आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान् |
२१ क
श्रीभगवानु उवाच:
मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी ||
२१ ख
श्रीभगवानु उवाच:
वेदानां सामवेदोऽस्मि देवानामस्मि वासवः |
२२ क
श्रीभगवानु उवाच:
इन्द्रिय़ाणां मनश्चास्मि भूतानामस्मि चेतना ||
२२ ख
श्रीभगवानु उवाच:
रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम् |
२३ क
श्रीभगवानु उवाच:
वसूनां पावकश्चास्मि मेरुः शिखरिणामहम् ||
२३ ख
श्रीभगवानु उवाच:
पुरोधसां च मुख्यं मां विद्धि पार्थ वृहस्पतिम् |
२४ क
श्रीभगवानु उवाच:
सेनानीनामहं स्कन्दः सरसामस्मि सागरः ||
२४ ख
श्रीभगवानु उवाच:
महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् |
२५ क
श्रीभगवानु उवाच:
यज्ञानां जपय़ज्ञोऽस्मि स्थावराणां हिमालय़ः ||
२५ ख
श्रीभगवानु उवाच:
अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः |
२६ क
श्रीभगवानु उवाच:
गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ||
२६ ख
श्रीभगवानु उवाच:
उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम् |
२७ क
श्रीभगवानु उवाच:
ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ||
२७ ख
श्रीभगवानु उवाच:
आय़ुधानामहं वज्रं धेनूनामस्मि कामधुक् |
२८ क
श्रीभगवानु उवाच:
प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः ||
२८ ख
श्रीभगवानु उवाच:
अनन्तश्चास्मि नागानां वरुणो यादसामहम् |
२९ क
श्रीभगवानु उवाच:
पितॄणामर्यमा चास्मि यमः संय़मतामहम् ||
२९ ख
श्रीभगवानु उवाच:
प्रह्लादश्चास्मि दैत्यानां कालः कलय़तामहम् |
३० क
श्रीभगवानु उवाच:
मृगाणां च मृगेन्द्रोऽहं वैनतेय़श्च पक्षिणाम् ||
३० ख
श्रीभगवानु उवाच:
पवनः पवतामस्मि रामः शस्त्रभृतामहम् |
३१ क
श्रीभगवानु उवाच:
झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी ||
३१ ख
श्रीभगवानु उवाच:
सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन |
३२ क
श्रीभगवानु उवाच:
अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् ||
३२ ख
श्रीभगवानु उवाच:
अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च |
३३ क
श्रीभगवानु उवाच:
अहमेवाक्षय़ः कालो धाताहं विश्वतोमुखः ||
३३ ख
श्रीभगवानु उवाच:
मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम् |
३४ क
श्रीभगवानु उवाच:
कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा ||
३४ ख
श्रीभगवानु उवाच:
वृहत्साम तथा साम्नां गाय़त्री छन्दसामहम् |
३५ क
श्रीभगवानु उवाच:
मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः ||
३५ ख
श्रीभगवानु उवाच:
द्यूतं छलय़तामस्मि तेजस्तेजस्विनामहम् |
३६ क
श्रीभगवानु उवाच:
जय़ोऽस्मि व्यवसाय़ोऽस्मि सत्त्वं सत्त्ववतामहम् ||
३६ ख
श्रीभगवानु उवाच:
वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जय़ः |
३७ क
श्रीभगवानु उवाच:
मुनीनामप्यहं व्यासः कवीनामुशना कविः ||
३७ ख
श्रीभगवानु उवाच:
दण्डो दमय़तामस्मि नीतिरस्मि जिगीषताम् |
३८ क
श्रीभगवानु उवाच:
मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् ||
३८ ख
श्रीभगवानु उवाच:
यच्चापि सर्वभूतानां वीजं तदहमर्जुन |
३९ क
श्रीभगवानु उवाच:
न तदस्ति विना यत्स्यान्मय़ा भूतं चराचरम् ||
३९ ख
श्रीभगवानु उवाच:
नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप |
४० क
श्रीभगवानु उवाच:
एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मय़ा ||
४० ख
श्रीभगवानु उवाच:
यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा |
४१ क
श्रीभगवानु उवाच:
तत्तदेवावगच्छ त्वं मम तेजोंशसम्भवम् ||
४१ ख
श्रीभगवानु उवाच:
अथ वा वहुनैतेन किं ज्ञातेन तवार्जुन |
४२ क
श्रीभगवानु उवाच:
विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ||
४२ ख