chevron_left द्रोण पर्व अध्याय ३२
सञ्जय़ उवाच:
पूर्वमस्मासु भग्नेषु फल्गुनेनामितौजसा |
१ क
सञ्जय़ उवाच:
द्रोणे च मोघसङ्कल्पे रक्षिते च युधिष्ठिरे ||
१ ख
सञ्जय़ उवाच:
सर्वे विध्वस्तकवचास्तावका युधि निर्जिताः |
२ क
सञ्जय़ उवाच:
रजस्वला भृशोद्विग्ना वीक्षमाणा दिशो दश ||
२ ख
सञ्जय़ उवाच:
अवहारं ततः कृत्वा भारद्वाजस्य संमते |
३ क
सञ्जय़ उवाच:
लव्धलक्ष्यैः परैर्दीना भृशावहसिता रणे ||
३ ख
सञ्जय़ उवाच:
श्लाघमानेषु भूतेषु फल्गुनस्यामितान्गुणान् |
४ क
सञ्जय़ उवाच:
केशवस्य च सौहार्दे कीर्त्यमानेऽर्जुनं प्रति |
४ ख
सञ्जय़ उवाच:
अभिशस्ता इवाभूवन्ध्यानमूकत्वमास्थिताः ||
४ ग
सञ्जय़ उवाच:
ततः प्रभातसमय़े द्रोणं दुर्योधनोऽव्रवीत् |
५ क
सञ्जय़ उवाच:
प्रणय़ादभिमानाच्च द्विषद्वृद्ध्या च दुर्मनाः |
५ ख
सञ्जय़ उवाच:
शृण्वतां सर्वभूतानां संरव्धो वाक्यकोविदः ||
५ ग
सञ्जय़ उवाच:
नूनं वय़ं वध्यपक्षे भवतो व्रह्मवित्तम |
६ क
सञ्जय़ उवाच:
तथा हि नाग्रहीः प्राप्तं समीपेऽद्य युधिष्ठिरम् ||
६ ख
सञ्जय़ उवाच:
इच्छतस्ते न मुच्येत चक्षुःप्राप्तो रणे रिपुः |
७ क
सञ्जय़ उवाच:
जिघृक्षतो रक्ष्यमाणः सामरैरपि पाण्डवैः ||
७ ख
सञ्जय़ उवाच:
वरं दत्त्वा मम प्रीतः पश्चाद्विकृतवानसि |
८ क
सञ्जय़ उवाच:
आशाभङ्गं न कुर्वन्ति भक्तस्यार्याः कथञ्चन ||
८ ख
सञ्जय़ उवाच:
ततोऽप्रीतस्तथोक्तः स भारद्वाजोऽव्रवीन्नृपम् |
९ क
सञ्जय़ उवाच:
नार्हसे मान्यथा ज्ञातुं घटमानं तव प्रिय़े ||
९ ख
सञ्जय़ उवाच:
ससुरासुरगन्धर्वाः सय़क्षोरगराक्षसाः |
१० क
सञ्जय़ उवाच:
नालं लोका रणे जेतुं पाल्यमानं किरीटिना ||
१० ख
सञ्जय़ उवाच:
विश्वसृग्यत्र गोविन्दः पृतनारिस्तहार्जुनः |
११ क
सञ्जय़ उवाच:
तत्र कस्य वलं क्रामेदन्यत्र त्र्यम्वकात्प्रभोः ||
११ ख
सञ्जय़ उवाच:
सत्यं तु ते व्रवीम्यद्य नैतज्जात्वन्यथा भवेत् |
१२ क
सञ्जय़ उवाच:
अद्यैषां प्रवरं वीरं पातय़िष्ये महारथम् ||
१२ ख
सञ्जय़ उवाच:
तं च व्यूहं विधास्यामि योऽभेद्यस्त्रिदशैरपि |
१३ क
सञ्जय़ उवाच:
योगेन केनचिद्राजन्नर्जुनस्त्वपनीय़ताम् ||
१३ ख
सञ्जय़ उवाच:
न ह्यज्ञातमसाध्यं वा तस्य सङ्ख्येऽस्ति किञ्चन |
१४ क
सञ्जय़ उवाच:
तेन ह्युपात्तं वलवत्सर्वज्ञानमितस्ततः ||
१४ ख
सञ्जय़ उवाच:
द्रोणेन व्याहृते त्वेवं संशप्तकगणाः पुनः |
१५ क
सञ्जय़ उवाच:
आह्वय़न्नर्जुनं सङ्ख्ये दक्षिणामभितो दिशम् ||
१५ ख
सञ्जय़ उवाच:
तत्रार्जुनस्याथ परैः सार्धं समभवद्रणः |
१६ क
सञ्जय़ उवाच:
तादृशो यादृशो नान्यः श्रुतो दृष्टोऽपि वा क्वचित् ||
१६ ख
सञ्जय़ उवाच:
ततो द्रोणेन विहितो राजन्व्यूहो व्यरोचत |
१७ क
सञ्जय़ उवाच:
चरन्मध्यन्दिने सूर्यः प्रतपन्निव दुर्दृशः ||
१७ ख
सञ्जय़ उवाच:
तं चाभिमन्युर्वचनात्पितुर्ज्येष्ठस्य भारत |
१८ क
सञ्जय़ उवाच:
विभेद दुर्भिदं सङ्ख्ये चक्रव्यूहमनेकधा ||
१८ ख
सञ्जय़ उवाच:
स कृत्वा दुष्करं कर्म हत्वा वीरान्सहस्रशः |
१९ क
सञ्जय़ उवाच:
षट्सु वीरेषु संसक्तो दौःशासनिवशं गतः ||
१९ ख
सञ्जय़ उवाच:
वय़ं परमसंहृष्टाः पाण्डवाः शोककर्शिताः |
२० क
सञ्जय़ उवाच:
सौभद्रे निहते राजन्नवहारमकुर्वत ||
२० ख
धृतराष्ट्र उवाच:
पुत्रं पुरुषसिंहस्य सञ्जय़ाप्राप्तय़ौवनम् |
२१ क
धृतराष्ट्र उवाच:
रणे विनिहतं श्रुत्वा भृशं मे दीर्यते मनः ||
२१ ख
धृतराष्ट्र उवाच:
दारुणः क्षत्रधर्मोऽय़ं विहितो धर्मकर्तृभिः |
२२ क
धृतराष्ट्र उवाच:
यत्र राज्येप्सवः शूरा वाले शस्त्रमपातय़न् ||
२२ ख
धृतराष्ट्र उवाच:
वालमत्यन्तसुखिनं विचरन्तमभीतवत् |
२३ क
धृतराष्ट्र उवाच:
कृतास्त्रा वहवो जघ्नुर्व्रूहि गावल्गणे कथम् ||
२३ ख
धृतराष्ट्र उवाच:
विभित्सता रथानीकं सौभद्रेणामितौजसा |
२४ क
धृतराष्ट्र उवाच:
विक्रीडितं यथा सङ्ख्ये तन्ममाचक्ष्व सञ्जय़ ||
२४ ख
सञ्जय़ उवाच:
यन्मां पृच्छसि राजेन्द्र सौभद्रस्य निपातनम् |
२५ क
सञ्जय़ उवाच:
तत्ते कार्त्स्न्येन वक्ष्यामि शृणु राजन्समाहितः |
२५ ख
सञ्जय़ उवाच:
विक्रीडितं कुमारेण यथानीकं विभित्सता ||
२५ ग
सञ्जय़ उवाच:
दावाग्न्यभिपरीतानां भूरिगुल्मतृणद्रुमे |
२६ क
सञ्जय़ उवाच:
वनौकसामिवारण्ये त्वदीय़ानामभूद्भय़म् ||
२६ ख