chevron_left कर्ण पर्व अध्याय ३२
धृतराष्ट्र उवाच:
तथा व्यूढेष्वनीकेषु संसक्तेषु च सञ्जय़ |
१ क
धृतराष्ट्र उवाच:
संशप्तकान्कथं पार्थो गतः कर्णश्च पाण्डवान् ||
१ ख
धृतराष्ट्र उवाच:
एतद्विस्तरतो युद्धं प्रव्रूहि कुशलो ह्यसि |
२ क
धृतराष्ट्र उवाच:
न हि तृप्यामि वीराणां शृण्वानो विक्रमान्रणे ||
२ ख
सञ्जय़ उवाच:
तत्स्थाने समवस्थाप्य प्रत्यमित्रं महावलम् |
३ क
सञ्जय़ उवाच:
अव्यूहतार्जुनो व्यूहं पुत्रस्य तव दुर्नय़े ||
३ ख
सञ्जय़ उवाच:
तत्सादिनागकलिलं पदातिरथसङ्कुलम् |
४ क
सञ्जय़ उवाच:
धृष्टद्युम्नमुखैर्व्यूढमशोभत महद्वलम् ||
४ ख
सञ्जय़ उवाच:
पारावतसवर्णाश्वश्चन्द्रादित्यसमद्युतिः |
५ क
सञ्जय़ उवाच:
पार्षतः प्रवभौ धन्वी कालो विग्रहवानिव ||
५ ख
सञ्जय़ उवाच:
पार्षतं त्वभि सन्तस्थुर्द्रौपदेय़ा युय़ुत्सवः |
६ क
सञ्जय़ उवाच:
सानुगा भीमवपुषश्चन्द्रं तारागणा इव ||
६ ख
सञ्जय़ उवाच:
अथ व्यूढेष्वनीकेषु प्रेक्ष्य संशप्तकान्रणे |
७ क
सञ्जय़ उवाच:
क्रुद्धोऽर्जुनोऽभिदुद्राव व्याक्षिपन्गाण्डिवं धनुः ||
७ ख
सञ्जय़ उवाच:
अथ संशप्तकाः पार्थमभ्यधावन्वधैषिणः |
८ क
सञ्जय़ उवाच:
विजय़े कृतसङ्कल्पा मृत्युं कृत्वा निवर्तनम् ||
८ ख
सञ्जय़ उवाच:
तदश्वसङ्घवहुलं मत्तनागरथाकुलम् |
९ क
सञ्जय़ उवाच:
पत्तिमच्छूरवीरौघैर्द्रुतमर्जुनमाद्रवत् ||
९ ख
सञ्जय़ उवाच:
स सम्प्रहारस्तुमुलस्तेषामासीत्किरीटिना |
१० क
सञ्जय़ उवाच:
तस्यैव नः श्रुतो यादृङ्निवातकवचैः सह ||
१० ख
सञ्जय़ उवाच:
रथानश्वान्ध्वजान्नागान्पत्तीन्रथपतीनपि |
११ क
सञ्जय़ उवाच:
इषून्धनूंषि खड्गांश्च चक्राणि च परश्वधान् ||
११ ख
सञ्जय़ उवाच:
साय़ुधानुद्यतान्वाहूनुद्यतान्याय़ुधानि च |
१२ क
सञ्जय़ उवाच:
चिच्छेद द्विषतां पार्थः शिरांसि च सहस्रशः ||
१२ ख
सञ्जय़ उवाच:
तस्मिन्सैन्ये महावर्ते पातालावर्तसंनिभे |
१३ क
सञ्जय़ उवाच:
निमग्नं तं रथं मत्वा नेदुः संशप्तका मुदा ||
१३ ख
सञ्जय़ उवाच:
स पुरस्तादरीन्हत्वा पश्चार्धेनोत्तरेण च |
१४ क
सञ्जय़ उवाच:
दक्षिणेन च वीभत्सुः क्रुद्धो रुद्रः पशूनिव ||
१४ ख
सञ्जय़ उवाच:
अथ पाञ्चालचेदीनां सृञ्जय़ानां च मारिष |
१५ क
सञ्जय़ उवाच:
त्वदीय़ैः सह सङ्ग्राम आसीत्परमदारुणः ||
१५ ख
सञ्जय़ उवाच:
कृपश्च कृतवर्मा च शकुनिश्चापि सौवलः |
१६ क
सञ्जय़ उवाच:
हृष्टसेनाः सुसंरव्धा रथानीकैः प्रहारिणः ||
१६ ख
सञ्जय़ उवाच:
कोसलैः काशिमत्स्यैश्च कारूषैः केकय़ैरपि |
१७ क
सञ्जय़ उवाच:
शूरसेनैः शूरवीरैर्युय़ुधुर्युद्धदुर्मदाः ||
१७ ख
सञ्जय़ उवाच:
तेषामन्तकरं युद्धं देहपाप्मप्रणाशनम् |
१८ क
सञ्जय़ उवाच:
शूद्रविट्क्षत्रवीराणां धर्म्यं स्वर्ग्यं यशस्करम् ||
१८ ख
सञ्जय़ उवाच:
दुर्योधनोऽपि सहितो भ्रातृभिर्भरतर्षभ |
१९ क
सञ्जय़ उवाच:
गुप्तः कुरुप्रवीरैश्च मद्राणां च महारथैः ||
१९ ख
सञ्जय़ उवाच:
पाण्डवैः सहपाञ्चालैश्चेदिभिः सात्यकेन च |
२० क
सञ्जय़ उवाच:
युध्यमानं रणे कर्णं कुरुवीरोऽभ्यपालय़त् ||
२० ख
सञ्जय़ उवाच:
कर्णोऽपि निशितैर्वाणैर्विनिहत्य महाचमूम् |
२१ क
सञ्जय़ उवाच:
प्रमृद्य च रथश्रेष्ठान्युधिष्ठिरमपीडय़त् ||
२१ ख
सञ्जय़ उवाच:
विपत्राय़ुधदेहासून्कृत्वा शत्रून्सहस्रशः |
२२ क
सञ्जय़ उवाच:
युक्त्वा स्वर्गय़शोभ्यां च स्वेभ्यो मुदमुदावहत् ||
२२ ख
धृतराष्ट्र उवाच:
यत्तत्प्रविश्य पार्थानां सेनां कुर्वञ्जनक्षय़म् |
२३ क
धृतराष्ट्र उवाच:
कर्णो राजानमभ्यर्च्छत्तन्ममाचक्ष्व सञ्जय़ ||
२३ ख
धृतराष्ट्र उवाच:
के च प्रवीराः पार्थानां युधि कर्णमवारय़न् |
२४ क
धृतराष्ट्र उवाच:
कांश्च प्रमथ्याधिरथिर्युधिष्ठिरमपीडय़त् ||
२४ ख
सञ्जय़ उवाच:
धृष्टद्युम्नमुखान्पार्थान्दृष्ट्वा कर्णो व्यवस्थितान् |
२५ क
सञ्जय़ उवाच:
समभ्यधावत्त्वरितः पाञ्चालाञ्शत्रुकर्शनः ||
२५ ख
सञ्जय़ उवाच:
तं तूर्णमभिधावन्तं पाञ्चाला जितकाशिनः |
२६ क
सञ्जय़ उवाच:
प्रत्युद्ययुर्महाराज हंसा इव महार्णवम् ||
२६ ख
सञ्जय़ उवाच:
ततः शङ्खसहस्राणां निस्वनो हृदय़ङ्गमः |
२७ क
सञ्जय़ उवाच:
प्रादुरासीदुभय़तो भेरीशव्दश्च दारुणः ||
२७ ख
सञ्जय़ उवाच:
नानावादित्रनादश्च द्विपाश्वरथनिस्वनः |
२८ क
सञ्जय़ उवाच:
सिंहनादश्च वीराणामभवद्दारुणस्तदा ||
२८ ख
सञ्जय़ उवाच:
साद्रिद्रुमार्णवा भूमिः सवाताम्वुदमम्वरम् |
२९ क
सञ्जय़ उवाच:
सार्केन्दुग्रहनक्षत्रा द्यौश्च व्यक्तं व्यघूर्णत ||
२९ ख
सञ्जय़ उवाच:
अति भूतानि तं शव्दं मेनिरेऽति च विव्यथुः |
३० क
सञ्जय़ उवाच:
यानि चाप्लवसत्त्वानि प्राय़स्तानि मृतानि च ||
३० ख
सञ्जय़ उवाच:
अथ कर्णो भृशं क्रुद्धः शीघ्रमस्त्रमुदीरय़न् |
३१ क
सञ्जय़ उवाच:
जघान पाण्डवीं सेनामासुरीं मघवानिव ||
३१ ख
सञ्जय़ उवाच:
स पाण्डवरथांस्तूर्णं प्रविश्य विसृजञ्शरान् |
३२ क
सञ्जय़ उवाच:
प्रभद्रकाणां प्रवरानहनत्सप्तसप्ततिम् ||
३२ ख
सञ्जय़ उवाच:
ततः सुपुङ्खैर्निशितै रथश्रेष्ठो रथेषुभिः |
३३ क
सञ्जय़ उवाच:
अवधीत्पञ्चविंशत्या पाञ्चालान्पञ्चविंशतिम् ||
३३ ख
सञ्जय़ उवाच:
सुवर्णपुङ्खैर्नाराचैः परकाय़विदारणैः |
३४ क
सञ्जय़ उवाच:
चेदिकानवधीद्वीरः शतशोऽथ सहस्रशः ||
३४ ख
सञ्जय़ उवाच:
तं तथा समरे कर्म कुर्वाणमतिमानुषम् |
३५ क
सञ्जय़ उवाच:
परिवव्रुर्महाराज पाञ्चालानां रथव्रजाः ||
३५ ख
सञ्जय़ उवाच:
ततः सन्धाय़ विशिखान्पञ्च भारत दुःसहान् |
३६ क
सञ्जय़ उवाच:
पाञ्चालानवधीत्पञ्च कर्णो वैकर्तनो वृषः ||
३६ ख
सञ्जय़ उवाच:
भानुदेवं चित्रसेनं सेनाविन्दुं च भारत |
३७ क
सञ्जय़ उवाच:
तपनं शूरसेनं च पाञ्चालानवधीद्रणे ||
३७ ख
सञ्जय़ उवाच:
पाञ्चालेषु च शूरेषु वध्यमानेषु साय़कैः |
३८ क
सञ्जय़ उवाच:
हाहाकारो महानासीत्पाञ्चालानां महाहवे ||
३८ ख
सञ्जय़ उवाच:
तेषां सङ्कीर्यमाणानां हाहाकारकृता दिशः |
३९ क
सञ्जय़ उवाच:
पुनरेव च तान्कर्णो जघानाशु पतत्रिभिः ||
३९ ख
सञ्जय़ उवाच:
चक्ररक्षौ तु कर्णस्य पुत्रौ मारिष दुर्जय़ौ |
४० क
सञ्जय़ उवाच:
सुषेणः सत्यसेनश्च त्यक्त्वा प्राणानय़ुध्यताम् ||
४० ख
सञ्जय़ उवाच:
पृष्ठगोपस्तु कर्णस्य ज्येष्ठः पुत्रो महारथः |
४१ क
सञ्जय़ उवाच:
वृषसेनः स्वय़ं कर्णं पृष्ठतः पर्यपालय़त् ||
४१ ख
सञ्जय़ उवाच:
धृष्टद्युम्नः सात्यकिश्च द्रौपदेय़ा वृकोदरः |
४२ क
सञ्जय़ उवाच:
जनमेजय़ः शिखण्डी च प्रवीराश्च प्रभद्रकाः ||
४२ ख
सञ्जय़ उवाच:
चेदिकेकय़पाञ्चाला यमौ मत्स्याश्च दंशिताः |
४३ क
सञ्जय़ उवाच:
समभ्यधावन्राधेय़ं जिघांसन्तः प्रहारिणः ||
४३ ख
सञ्जय़ उवाच:
त एनं विविधैः शस्त्रैः शरधाराभिरेव च |
४४ क
सञ्जय़ उवाच:
अभ्यवर्षन्विमृद्नन्तः प्रावृषीवाम्वुदा गिरिम् ||
४४ ख
सञ्जय़ उवाच:
पितरं तु परीप्सन्तः कर्णपुत्राः प्रहारिणः |
४५ क
सञ्जय़ उवाच:
त्वदीय़ाश्चापरे राजन्वीरा वीरानवारय़न् ||
४५ ख
सञ्जय़ उवाच:
सुषेणो भीमसेनस्य छित्त्वा भल्लेन कार्मुकम् |
४६ क
सञ्जय़ उवाच:
नाराचैः सप्तभिर्विद्ध्वा हृदि भीमं ननाद ह ||
४६ ख
सञ्जय़ उवाच:
अथान्यद्धनुरादाय़ सुदृढं भीमविक्रमः |
४७ क
सञ्जय़ उवाच:
सज्यं वृकोदरः कृत्वा सुषेणस्याच्छिनद्धनुः ||
४७ ख
सञ्जय़ उवाच:
विव्याध चैनं नवभिः क्रुद्धो नृत्यन्निवेषुभिः |
४८ क
सञ्जय़ उवाच:
कर्णं च तूर्णं विव्याध त्रिसप्तत्या शितैः शरैः ||
४८ ख
सञ्जय़ उवाच:
सत्यसेनं च दशभिः साश्वसूतध्वजाय़ुधम् |
४९ क
सञ्जय़ उवाच:
पश्यतां सुहृदां मध्ये कर्णपुत्रमपातय़त् ||
४९ ख
सञ्जय़ उवाच:
क्षुरप्रणुन्नं तत्तस्य शिरश्चन्द्रनिभाननम् |
५० क
सञ्जय़ उवाच:
शुभदर्शनमेवासीन्नालभ्रष्टमिवाम्वुजम् ||
५० ख