chevron_left शल्य पर्व अध्याय ३२
सञ्जय़ उवाच:
एवं दुर्योधने राजन्गर्जमाने मुहुर्मुहुः |
१ क
सञ्जय़ उवाच:
युधिष्ठिरस्य सङ्क्रुद्धो वासुदेवोऽव्रवीदिदम् ||
१ ख
सञ्जय़ उवाच:
यदि नाम ह्ययं युद्धे वरय़ेत्त्वां युधिष्ठिर |
२ क
सञ्जय़ उवाच:
अर्जुनं नकुलं वापि सहदेवमथापि वा ||
२ ख
सञ्जय़ उवाच:
किमिदं साहसं राजंस्त्वय़ा व्याहृतमीदृशम् |
३ क
सञ्जय़ उवाच:
एकमेव निहत्याजौ भव राजा कुरुष्विति ||
३ ख
सञ्जय़ उवाच:
एतेन हि कृता योग्या वर्षाणीह त्रय़ोदश |
४ क
सञ्जय़ उवाच:
आय़से पुरुषे राजन्भीमसेनजिघांसय़ा ||
४ ख
सञ्जय़ उवाच:
कथं नाम भवेत्कार्यमस्माभिर्भरतर्षभ |
५ क
सञ्जय़ उवाच:
साहसं कृतवांस्त्वं तु ह्यनुक्रोशान्नृपोत्तम ||
५ ख
सञ्जय़ उवाच:
नान्यमस्यानुपश्यामि प्रतिय़ोद्धारमाहवे |
६ क
सञ्जय़ उवाच:
ऋते वृकोदरात्पार्थात्स च नातिकृतश्रमः ||
६ ख
सञ्जय़ उवाच:
तदिदं द्यूतमारव्धं पुनरेव यथा पुरा |
७ क
सञ्जय़ उवाच:
विषमं शकुनेश्चैव तव चैव विशां पते ||
७ ख
सञ्जय़ उवाच:
वली भीमः समर्थश्च कृती राजा सुय़ोधनः |
८ क
सञ्जय़ उवाच:
वलवान्वा कृती वेति कृती राजन्विशिष्यते ||
८ ख
सञ्जय़ उवाच:
सोऽय़ं राजंस्त्वय़ा शत्रुः समे पथि निवेशितः |
९ क
सञ्जय़ उवाच:
न्यस्तश्चात्मा सुविषमे कृच्छ्रमापादिता वय़म् ||
९ ख
सञ्जय़ उवाच:
को नु सर्वान्विनिर्जित्य शत्रूनेकेन वैरिणा |
१० क
सञ्जय़ उवाच:
पणित्वा चैकपाणेन रोचय़ेदेवमाहवम् ||
१० ख
सञ्जय़ उवाच:
न हि पश्यामि तं लोके गदाहस्तं नरोत्तमम् |
११ क
सञ्जय़ उवाच:
युध्येद्दुर्योधनं सङ्ख्ये कृतित्वाद्धि विशेषय़ेत् ||
११ ख
सञ्जय़ उवाच:
फल्गुनं वा भवन्तं वा माद्रीपुत्रावथापि वा |
१२ क
सञ्जय़ उवाच:
न समर्थानहं मन्ये गदाहस्तस्य संय़ुगे ||
१२ ख
सञ्जय़ उवाच:
स कथं वदसे शत्रुं युध्यस्व गदय़ेति ह |
१३ क
सञ्जय़ उवाच:
एकं च नो निहत्याजौ भव राजेति भारत ||
१३ ख
सञ्जय़ उवाच:
वृकोदरं समासाद्य संशय़ो विजय़े हि नः |
१४ क
सञ्जय़ उवाच:
न्याय़तो युध्यमानानां कृती ह्येष महावलः ||
१४ ख
भीम उवाच:
मधुसूदन मा कार्षीर्विषादं यदुनन्दन |
१५ क
भीम उवाच:
अद्य पारं गमिष्यामि वैरस्य भृशदुर्गमम् ||
१५ ख
भीम उवाच:
अहं सुय़ोधनं सङ्ख्ये हनिष्यामि न संशय़ः |
१६ क
भीम उवाच:
विजय़ो वै ध्रुवं कृष्ण धर्मराजस्य दृश्यते ||
१६ ख
भीम उवाच:
अध्यर्धेन गुणेनेय़ं गदा गुरुतरी मम |
१७ क
भीम उवाच:
न तथा धार्तराष्ट्रस्य मा कार्षीर्माधव व्यथाम् ||
१७ ख
भीम उवाच:
सामरानपि लोकांस्त्रीन्नानाशस्त्रधरान्युधि |
१८ क
भीम उवाच:
योधय़ेय़ं रणे हृष्टः किमुताद्य सुय़ोधनम् ||
१८ ख
सञ्जय़ उवाच:
तथा सम्भाषमाणं तु वासुदेवो वृकोदरम् |
१९ क
सञ्जय़ उवाच:
हृष्टः सम्पूजय़ामास वचनं चेदमव्रवीत् ||
१९ ख
सञ्जय़ उवाच:
त्वामाश्रित्य महावाहो धर्मराजो युधिष्ठिरः |
२० क
सञ्जय़ उवाच:
निहतारिः स्वकां दीप्तां श्रिय़ं प्राप्तो न संशय़ः ||
२० ख
सञ्जय़ उवाच:
त्वय़ा विनिहताः सर्वे धृतराष्ट्रसुता रणे |
२१ क
सञ्जय़ उवाच:
राजानो राजपुत्राश्च नागाश्च विनिपातिताः ||
२१ ख
सञ्जय़ उवाच:
कलिङ्गा मागधाः प्राच्या गान्धाराः कुरवस्तथा |
२२ क
सञ्जय़ उवाच:
त्वामासाद्य महाय़ुद्धे निहताः पाण्डुनन्दन ||
२२ ख
सञ्जय़ उवाच:
हत्वा दुर्योधनं चापि प्रय़च्छोर्वीं ससागराम् |
२३ क
सञ्जय़ उवाच:
धर्मराजाय़ कौन्तेय़ यथा विष्णुः शचीपतेः ||
२३ ख
सञ्जय़ उवाच:
त्वां च प्राप्य रणे पापो धार्तराष्ट्रो विनङ्क्ष्यति |
२४ क
सञ्जय़ उवाच:
त्वमस्य सक्थिनी भङ्क्त्वा प्रतिज्ञां पारय़िष्यसि ||
२४ ख
सञ्जय़ उवाच:
यत्नेन तु सदा पार्थ योद्धव्यो धृतराष्ट्रजः |
२५ क
सञ्जय़ उवाच:
कृती च वलवांश्चैव युद्धशौण्डश्च नित्यदा ||
२५ ख
सञ्जय़ उवाच:
ततस्तु सात्यकी राजन्पूजय़ामास पाण्डवम् |
२६ क
सञ्जय़ उवाच:
विविधाभिश्च तां वाग्भिः पूजय़ामास माधवः ||
२६ ख
सञ्जय़ उवाच:
पाञ्चालाः पाण्डवेय़ाश्च धर्मराजपुरोगमाः |
२७ क
सञ्जय़ उवाच:
तद्वचो भीमसेनस्य सर्व एवाभ्यपूजय़न् ||
२७ ख
सञ्जय़ उवाच:
ततो भीमवलो भीमो युधिष्ठिरमथाव्रवीत् |
२८ क
सञ्जय़ उवाच:
सृञ्जय़ैः सह तिष्ठन्तं तपन्तमिव भास्करम् ||
२८ ख
सञ्जय़ उवाच:
अहमेतेन सङ्गम्य संय़ुगे योद्धुमुत्सहे |
२९ क
सञ्जय़ उवाच:
न हि शक्तो रणे जेतुं मामेष पुरुषाधमः ||
२९ ख
सञ्जय़ उवाच:
अद्य क्रोधं विमोक्ष्यामि निहितं हृदय़े भृशम् |
३० क
सञ्जय़ उवाच:
सुय़ोधने धार्तराष्ट्रे खाण्डवेऽग्निमिवार्जुनः ||
३० ख
सञ्जय़ उवाच:
शल्यमद्योद्धरिष्यामि तव पाण्डव हृच्छय़म् |
३१ क
सञ्जय़ उवाच:
निहत्य गदय़ा पापमद्य राजन्सुखी भव ||
३१ ख
सञ्जय़ उवाच:
अद्य कीर्तिमय़ीं मालां प्रतिमोक्ष्ये तवानघ |
३२ क
सञ्जय़ उवाच:
प्राणाञ्श्रिय़ं च राज्यं च मोक्ष्यतेऽद्य सुय़ोधनः ||
३२ ख
सञ्जय़ उवाच:
राजा च धृतराष्ट्रोऽद्य श्रुत्वा पुत्रं मय़ा हतम् |
३३ क
सञ्जय़ उवाच:
स्मरिष्यत्यशुभं कर्म यत्तच्छकुनिवुद्धिजम् ||
३३ ख
सञ्जय़ उवाच:
इत्युक्त्वा भरतश्रेष्ठो गदामुद्यम्य वीर्यवान् |
३४ क
सञ्जय़ उवाच:
उदतिष्ठत युद्धाय़ शक्रो वृत्रमिवाह्वय़न् ||
३४ ख
सञ्जय़ उवाच:
तमेकाकिनमासाद्य धार्तराष्ट्रं महावलम् |
३५ क
सञ्जय़ उवाच:
निर्यूथमिव मातङ्गं समहृष्यन्त पाण्डवाः ||
३५ ख
सञ्जय़ उवाच:
तमुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम् |
३६ क
सञ्जय़ उवाच:
भीमसेनस्तदा राजन्दुर्योधनमथाव्रवीत् ||
३६ ख
सञ्जय़ उवाच:
राज्ञापि धृतराष्ट्रेण त्वय़ा चास्मासु यत्कृतम् |
३७ क
सञ्जय़ उवाच:
स्मर तद्दुष्कृतं कर्म यद्वृत्तं वारणावते ||
३७ ख
सञ्जय़ उवाच:
द्रौपदी च परिक्लिष्टा सभामध्ये रजस्वला |
३८ क
सञ्जय़ उवाच:
द्यूते यद्विजितो राजा शकुनेर्वुद्धिनिश्चय़ात् ||
३८ ख
सञ्जय़ उवाच:
यानि चान्यानि दुष्टात्मन्पापानि कृतवानसि |
३९ क
सञ्जय़ उवाच:
अनागःसु च पार्थेषु तस्य पश्य महत्फलम् ||
३९ ख
सञ्जय़ उवाच:
त्वत्कृते निहतः शेते शरतल्पे महाय़शाः |
४० क
सञ्जय़ उवाच:
गाङ्गेय़ो भरतश्रेष्ठः सर्वेषां नः पितामहः ||
४० ख
सञ्जय़ उवाच:
हतो द्रोणश्च कर्णश्च हतः शल्यः प्रतापवान् |
४१ क
सञ्जय़ उवाच:
वैरस्य चादिकर्तासौ शकुनिर्निहतो युधि ||
४१ ख
सञ्जय़ उवाच:
भ्रातरस्ते हताः शूराः पुत्राश्च सहसैनिकाः |
४२ क
सञ्जय़ उवाच:
राजानश्च हताः शूराः समरेष्वनिवर्तिनः ||
४२ ख
सञ्जय़ उवाच:
एते चान्ये च निहता वहवः क्षत्रिय़र्षभाः |
४३ क
सञ्जय़ उवाच:
प्रातिकामी तथा पापो द्रौपद्याः क्लेशकृद्धतः ||
४३ ख
सञ्जय़ उवाच:
अवशिष्टस्त्वमेवैकः कुलघ्नोऽधमपूरुषः |
४४ क
सञ्जय़ उवाच:
त्वामप्यद्य हनिष्यामि गदय़ा नात्र संशय़ः ||
४४ ख
सञ्जय़ उवाच:
अद्य तेऽहं रणे दर्पं सर्वं नाशय़िता नृप |
४५ क
सञ्जय़ उवाच:
राज्याशां विपुलां राजन्पाण्डवेषु च दुष्कृतम् ||
४५ ख
दुर्योधन उवाच:
किं कत्थितेन वहुधा युध्यस्वाद्य मय़ा सह |
४६ क
दुर्योधन उवाच:
अद्य तेऽहं विनेष्यामि युद्धश्रद्धां वृकोदर ||
४६ ख
दुर्योधन उवाच:
किं न पश्यसि मां पाप गदाय़ुद्धे व्यवस्थितम् |
४७ क
दुर्योधन उवाच:
हिमवच्छिखराकारां प्रगृह्य महतीं गदाम् ||
४७ ख
दुर्योधन उवाच:
गदिनं कोऽद्य मां पाप जेतुमुत्सहते रिपुः |
४८ क
दुर्योधन उवाच:
न्याय़तो युध्यमानस्य देवेष्वपि पुरन्दरः ||
४८ ख
दुर्योधन उवाच:
मा वृथा गर्ज कौन्तेय़ शारदाभ्रमिवाजलम् |
४९ क
दुर्योधन उवाच:
दर्शय़स्व वलं युद्धे यावत्तत्तेऽद्य विद्यते ||
४९ ख
दुर्योधन उवाच:
तस्य तद्वचनं श्रुत्वा पाञ्चालाः सहसृञ्जय़ाः |
५० क
दुर्योधन उवाच:
सर्वे सम्पूजय़ामासुस्तद्वचो विजिगीषवः ||
५० ख