युधिष्ठिर उवाच:
गृहस्थो व्रह्मचारी वा वानप्रस्थोऽथ भिक्षुकः |
१ क
युधिष्ठिर उवाच:
य इच्छेत्सिद्धिमास्थातुं देवतां कां यजेत सः ||
१ ख
युधिष्ठिर उवाच:
कुतो ह्यस्य ध्रुवः स्वर्गः कुतो निःश्रेय़सं परम् |
२ क
युधिष्ठिर उवाच:
विधिना केन जुहुय़ाद्दैवं पित्र्यं तथैव च ||
२ ख
युधिष्ठिर उवाच:
मुक्तश्च कां गतिं गच्छेन्मोक्षश्चैव किमात्मकः |
३ क
युधिष्ठिर उवाच:
स्वर्गतश्चैव किं कुर्याद्येन न च्यवते दिवः ||
३ ख
युधिष्ठिर उवाच:
देवतानां च को देवः पितॄणां च तथा पिता |
४ क
युधिष्ठिर उवाच:
तस्मात्परतरं यच्च तन्मे व्रूहि पितामह ||
४ ख
भीष्म उवाच:
गूढं मां प्रश्नवित्प्रश्नं पृच्छसे त्वमिहानघ |
५ क
भीष्म उवाच:
न ह्येष तर्कय़ा शक्यो वक्तुं वर्षशतैरपि ||
५ ख
भीष्म उवाच:
ऋते देवप्रसादाद्वा राजञ्ज्ञानागमेन वा |
६ क
भीष्म उवाच:
गहनं ह्येतदाख्यानं व्याख्यातव्यं तवारिहन् ||
६ ख
भीष्म उवाच:
अत्राप्युदाहरन्तीममितिहासं पुरातनम् |
७ क
भीष्म उवाच:
नारदस्य च संवादमृषेर्नाराय़णस्य च ||
७ ख
भीष्म उवाच:
नाराय़णो हि विश्वात्मा चतुर्मूर्तिः सनातनः |
८ क
भीष्म उवाच:
धर्मात्मजः सम्वभूव पितैवं मेऽभ्यभाषत ||
८ ख
भीष्म उवाच:
कृते युगे महाराज पुरा स्वाय़म्भुवेऽन्तरे |
९ क
भीष्म उवाच:
नरो नाराय़णश्चैव हरिः कृष्णस्तथैव च ||
९ ख
भीष्म उवाच:
तेभ्यो नाराय़णनरौ तपस्तेपतुरव्ययौ |
१० क
भीष्म उवाच:
वदर्याश्रममासाद्य शकटे कनकामय़े ||
१० ख
भीष्म उवाच:
अष्टचक्रं हि तद्यानं भूतय़ुक्तं मनोरमम् |
११ क
भीष्म उवाच:
तत्राद्यौ लोकनाथौ तौ कृशौ धमनिसन्ततौ ||
११ ख
भीष्म उवाच:
तपसा तेजसा चैव दुर्निरीक्षौ सुरैरपि |
१२ क
भीष्म उवाच:
यस्य प्रसादं कुर्वाते स देवौ द्रष्टुमर्हति ||
१२ ख
भीष्म उवाच:
नूनं तय़ोरनुमते हृदि हृच्छय़चोदितः |
१३ क
भीष्म उवाच:
महामेरोर्गिरेः शृङ्गात्प्रच्युतो गन्धमादनम् ||
१३ ख
भीष्म उवाच:
नारदः सुमहद्भूतं लोकान्सर्वानचीचरत् |
१४ क
भीष्म उवाच:
तं देशमगमद्राजन्वदर्याश्रममाशुगः ||
१४ ख
भीष्म उवाच:
तय़ोराह्निकवेलाय़ां तस्य कौतूहलं त्वभूत् |
१५ क
भीष्म उवाच:
इदं तदास्पदं कृत्स्नं यस्मिँल्लोकाः प्रतिष्ठिताः ||
१५ ख
भीष्म उवाच:
सदेवासुरगन्धर्वाः सर्षिकिंनरलेलिहाः |
१६ क
भीष्म उवाच:
एका मूर्तिरिय़ं पूर्वं जाता भूय़श्चतुर्विधा ||
१६ ख
भीष्म उवाच:
धर्मस्य कुलसन्तानो महानेभिर्विवर्धितः |
१७ क
भीष्म उवाच:
अहो ह्यनुगृहीतोऽद्य धर्म एभिः सुरैरिह |
१७ ख
भीष्म उवाच:
नरनाराय़णाभ्यां च कृष्णेन हरिणा तथा ||
१७ ग
भीष्म उवाच:
तत्र कृष्णो हरिश्चैव कस्मिंश्चित्कारणान्तरे |
१८ क
भीष्म उवाच:
स्थितौ धर्मोत्तरौ ह्येतौ तथा तपसि धिष्ठितौ ||
१८ ख
भीष्म उवाच:
एतौ हि परमं धाम कानय़ोराह्निकक्रिय़ा |
१९ क
भीष्म उवाच:
पितरौ सर्वभूतानां दैवतं च यशस्विनौ |
१९ ख
भीष्म उवाच:
कां देवतां नु यजतः पितॄन्वा कान्महामती ||
१९ ग
भीष्म उवाच:
इति सञ्चिन्त्य मनसा भक्त्या नाराय़णस्य ह |
२० क
भीष्म उवाच:
सहसा प्रादुरभवत्समीपे देवय़ोस्तदा ||
२० ख
भीष्म उवाच:
कृते दैवे च पित्र्ये च ततस्ताभ्यां निरीक्षितः |
२१ क
भीष्म उवाच:
पूजितश्चैव विधिना यथाप्रोक्तेन शास्त्रतः ||
२१ ख
भीष्म उवाच:
तं दृष्ट्वा महदाश्चर्यमपूर्वं विधिविस्तरम् |
२२ क
भीष्म उवाच:
उपोपविष्टः सुप्रीतो नारदो भगवानृषिः ||
२२ ख
भीष्म उवाच:
नाराय़णं संनिरीक्ष्य प्रसन्नेनान्तरात्मना |
२३ क
भीष्म उवाच:
नमस्कृत्वा महादेवमिदं वचनमव्रवीत् ||
२३ ख
भीष्म उवाच:
वेदेषु सपुराणेषु साङ्गोपाङ्गेषु गीय़से |
२४ क
भीष्म उवाच:
त्वमजः शाश्वतो धाता मतोऽमृतमनुत्तमम् |
२४ ख
भीष्म उवाच:
प्रतिष्ठितं भूतभव्यं त्वय़ि सर्वमिदं जगत् ||
२४ ग
भीष्म उवाच:
चत्वारो ह्याश्रमा देव सर्वे गार्हस्थ्यमूलकाः |
२५ क
भीष्म उवाच:
यजन्ते त्वामहरहर्नानामूर्तिसमास्थितम् ||
२५ ख
भीष्म उवाच:
पिता माता च सर्वस्य जगतः शाश्वतो गुरुः |
२६ क
भीष्म उवाच:
कं त्वद्य यजसे देवं पितरं कं न विद्महे ||
२६ ख
श्रीभगवानु उवाच:
अवाच्यमेतद्वक्तव्यमात्मगुह्यं सनातनम् |
२७ क
श्रीभगवानु उवाच:
तव भक्तिमतो व्रह्मन्वक्ष्यामि तु यथातथम् ||
२७ ख
श्रीभगवानु उवाच:
यत्तत्सूक्ष्ममविज्ञेय़मव्यक्तमचलं ध्रुवम् |
२८ क
श्रीभगवानु उवाच:
इन्द्रिय़ैरिन्द्रिय़ार्थैश्च सर्वभूतैश्च वर्जितम् ||
२८ ख
श्रीभगवानु उवाच:
स ह्यन्तरात्मा भूतानां क्षेत्रज्ञश्चेति कथ्यते |
२९ क
श्रीभगवानु उवाच:
त्रिगुणव्यतिरिक्तोऽसौ पुरुषश्चेति कल्पितः |
२९ ख
श्रीभगवानु उवाच:
तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तम ||
२९ ग
श्रीभगवानु उवाच:
अव्यक्ता व्यक्तभावस्था या सा प्रकृतिरव्यया |
३० क
श्रीभगवानु उवाच:
तां योनिमावय़ोर्विद्धि योऽसौ सदसदात्मकः |
३० ख
श्रीभगवानु उवाच:
आवाभ्यां पूज्यतेऽसौ हि दैवे पित्र्ये च कल्पिते ||
३० ग
श्रीभगवानु उवाच:
नास्ति तस्मात्परोऽन्यो हि पिता देवोऽथ वा द्विजः |
३१ क
श्रीभगवानु उवाच:
आत्मा हि नौ स विज्ञेय़स्ततस्तं पूजय़ावहे ||
३१ ख
श्रीभगवानु उवाच:
तेनैषा प्रथिता व्रह्मन्मर्यादा लोकभाविनी |
३२ क
श्रीभगवानु उवाच:
दैवं पित्र्यं च कर्तव्यमिति तस्यानुशासनम् ||
३२ ख
श्रीभगवानु उवाच:
व्रह्मा स्थाणुर्मनुर्दक्षो भृगुर्धर्मस्तपो दमः |
३३ क
श्रीभगवानु उवाच:
मरीचिरङ्गिरात्रिश्च पुलस्त्यः पुलहः क्रतुः ||
३३ ख
श्रीभगवानु उवाच:
वसिष्ठः परमेष्ठी च विवस्वान्सोम एव च |
३४ क
श्रीभगवानु उवाच:
कर्दमश्चापि यः प्रोक्तः क्रोधो विक्रीत एव च ||
३४ ख
श्रीभगवानु उवाच:
एकविंशतिरुत्पन्नास्ते प्रजापतय़ः स्मृताः |
३५ क
श्रीभगवानु उवाच:
तस्य देवस्य मर्यादां पूजय़न्ति सनातनीम् ||
३५ ख
श्रीभगवानु उवाच:
दैवं पित्र्यं च सततं तस्य विज्ञाय़ तत्त्वतः |
३६ क
श्रीभगवानु उवाच:
आत्मप्राप्तानि च ततो जानन्ति द्विजसत्तमाः ||
३६ ख
श्रीभगवानु उवाच:
स्वर्गस्था अपि ये केचित्तं नमस्यन्ति देहिनः |
३७ क
श्रीभगवानु उवाच:
ते तत्प्रसादाद्गच्छन्ति तेनादिष्टफलां गतिम् ||
३७ ख
श्रीभगवानु उवाच:
ये हीनाः सप्तदशभिर्गुणैः कर्मभिरेव च |
३८ क
श्रीभगवानु उवाच:
कलाः पञ्चदश त्यक्त्वा ते मुक्ता इति निश्चय़ः ||
३८ ख
श्रीभगवानु उवाच:
मुक्तानां तु गतिर्व्रह्मन्क्षेत्रज्ञ इति कल्पितः |
३९ क
श्रीभगवानु उवाच:
स हि सर्वगतश्चैव निर्गुणश्चैव कथ्यते ||
३९ ख
श्रीभगवानु उवाच:
दृश्यते ज्ञानय़ोगेन आवां च प्रसृतौ ततः |
४० क
श्रीभगवानु उवाच:
एवं ज्ञात्वा तमात्मानं पूजय़ावः सनातनम् ||
४० ख
श्रीभगवानु उवाच:
तं वेदाश्चाश्रमाश्चैव नानातनुसमास्थिताः |
४१ क
श्रीभगवानु उवाच:
भक्त्या सम्पूजय़न्त्याद्यं गतिं चैषां ददाति सः ||
४१ ख
श्रीभगवानु उवाच:
ये तु तद्भाविता लोके एकान्तित्वं समास्थिताः |
४२ क
श्रीभगवानु उवाच:
एतदभ्यधिकं तेषां यत्ते तं प्रविशन्त्युत ||
४२ ख
श्रीभगवानु उवाच:
इति गुह्यसमुद्देशस्तव नारद कीर्तितः |
४३ क
श्रीभगवानु उवाच:
भक्त्या प्रेम्णा च विप्रर्षे अस्मद्भक्त्या च ते श्रुतः ||
४३ ख