chevron_left शान्ति पर्व अध्याय ३२२
भीष्म उवाच:
स एवमुक्तो द्विपदां वरिष्ठो; नाराय़णेनोत्तमपूरुषेण |
१ क
भीष्म उवाच:
जगाद वाक्यं द्विपदां वरिष्ठं; नाराय़णं लोकहिताधिवासम् ||
१ ख
भीष्म उवाच:
यदर्थमात्मप्रभवेह जन्म; तवोत्तमं धर्मगृहे चतुर्धा |
२ क
भीष्म उवाच:
तत्साध्यतां लोकहितार्थमद्य; गच्छामि द्रष्टुं प्रकृतिं तवाद्याम् ||
२ ख
भीष्म उवाच:
वेदाः स्वधीता मम लोकनाथ; तप्तं तपो नानृतमुक्तपूर्वम् |
३ क
भीष्म उवाच:
पूजां गुरूणां सततं करोमि; परस्य गुह्यं न च भिन्नपूर्वम् ||
३ ख
भीष्म उवाच:
गुप्तानि चत्वारि यथागमं मे; शत्रौ च मित्रे च समोऽस्मि नित्यम् |
४ क
भीष्म उवाच:
तं चादिदेवं सततं प्रपन्न; एकान्तभावेन वृणोम्यजस्रम् |
४ ख
भीष्म उवाच:
एभिर्विशेषैः परिशुद्धसत्त्वः; कस्मान्न पश्येय़मनन्तमीशम् ||
४ ग
भीष्म उवाच:
तत्पारमेष्ठ्यस्य वचो निशम्य; नाराय़णः सात्वतधर्मगोप्ता |
५ क
भीष्म उवाच:
गच्छेति तं नारदमुक्तवान्स; सम्पूजय़ित्वात्मविधिक्रिय़ाभिः ||
५ ख
भीष्म उवाच:
ततो विसृष्टः परमेष्ठिपुत्रः; सोऽभ्यर्चय़ित्वा तमृषिं पुराणम् |
६ क
भीष्म उवाच:
खमुत्पपातोत्तमवेगय़ुक्त; स्ततोऽधिमेरौ सहसा निलिल्ये ||
६ ख
भीष्म उवाच:
तत्रावतस्थे च मुनिर्मुहूर्त; मेकान्तमासाद्य गिरेः स शृङ्गे |
७ क
भीष्म उवाच:
आलोकय़न्नुत्तरपश्चिमेन; ददर्श चात्यद्भुतरूपय़ुक्तम् ||
७ ख
भीष्म उवाच:
क्षीरोदधेरुत्तरतो हि द्वीपः; श्वेतः स नाम्ना प्रथितो विशालः |
८ क
भीष्म उवाच:
मेरोः सहस्रैः स हि योजनानां; द्वात्रिंशतोर्ध्वं कविभिर्निरुक्तः ||
८ ख
भीष्म उवाच:
अतीन्द्रिय़ाश्चानशनाश्च तत्र; निष्पन्दहीनाः सुसुगन्धिनश्च |
९ क
भीष्म उवाच:
श्वेताः पुमांसो गतसर्वपापा; श्चक्षुर्मुषः पापकृतां नराणाम् ||
९ ख
भीष्म उवाच:
वज्रास्थिकाय़ाः सममानोन्माना; दिव्यान्वय़रूपाः शुभसारोपेताः |
१० क
भीष्म उवाच:
छत्राकृतिशीर्षा मेघौघनिनादाः; सत्पुष्करचतुष्का राजीवशतपादाः ||
१० ख
भीष्म उवाच:
षष्ट्या दन्तैर्युक्ताः शुक्लै; रष्टाभिर्दंष्ट्राभिर्ये |
११ क
भीष्म उवाच:
जिह्वाभिर्ये विष्वग्वक्त्रं; लेलिह्यन्ते सूर्यप्रख्यम् ||
११ ख
भीष्म उवाच:
भक्त्या देवं विश्वोत्पन्नं; यस्मात्सर्वे लोकाः सूताः |
१२ क
भीष्म उवाच:
वेदा धर्मा मुनय़ः शान्ता; देवाः सर्वे तस्य विसर्गाः ||
१२ ख
युधिष्ठिर उवाच:
अतीन्द्रिय़ा निराहारा अनिष्पन्दाः सुगन्धिनः |
१३ क
युधिष्ठिर उवाच:
कथं ते पुरुषा जाताः का तेषां गतिरुत्तमा ||
१३ ख
युधिष्ठिर उवाच:
ये विमुक्ता भवन्तीह नरा भरतसत्तम |
१४ क
युधिष्ठिर उवाच:
तेषां लक्षणमेतद्धि यच्छ्वेतद्वीपवासिनाम् ||
१४ ख
युधिष्ठिर उवाच:
तस्मान्मे संशय़ं छिन्धि परं कौतूहलं हि मे |
१५ क
युधिष्ठिर उवाच:
त्वं हि सर्वकथारामस्त्वां चैवोपाश्रिता वय़म् ||
१५ ख
भीष्म उवाच:
विस्तीर्णैषा कथा राजञ्श्रुता मे पितृसंनिधौ |
१६ क
भीष्म उवाच:
सैषा तव हि वक्तव्या कथासारो हि स स्मृतः ||
१६ ख
भीष्म उवाच:
राजोपरिचरो नाम वभूवाधिपतिर्भुवः |
१७ क
भीष्म उवाच:
आखण्डलसखः ख्यातो भक्तो नाराय़णं हरिम् ||
१७ ख
भीष्म उवाच:
धार्मिको नित्यभक्तश्च पितॄन्नित्यमतन्द्रितः |
१८ क
भीष्म उवाच:
साम्राज्यं तेन सम्प्राप्तं नाराय़णवरात्पुरा ||
१८ ख
भीष्म उवाच:
सात्वतं विधिमास्थाय़ प्राक्सूर्यमुखनिःसृतम् |
१९ क
भीष्म उवाच:
पूजय़ामास देवेशं तच्छेषेण पितामहान् ||
१९ ख
भीष्म उवाच:
पितृशेषेण विप्रांश्च संविभज्याश्रितांश्च सः |
२० क
भीष्म उवाच:
शेषान्नभुक्सत्यपरः सर्वभूतेष्वहिंसकः |
२० ख
भीष्म उवाच:
सर्वभावेन भक्तः स देवदेवं जनार्दनम् ||
२० ग
भीष्म उवाच:
तस्य नाराय़णे भक्तिं वहतोऽमित्रकर्शन |
२१ क
भीष्म उवाच:
एकशय़्यासनं शक्रो दत्तवान्देवराट्स्वय़म् ||
२१ ख
भीष्म उवाच:
आत्मा राज्यं धनं चैव कलत्रं वाहनानि च |
२२ क
भीष्म उवाच:
एतद्भगवते सर्वमिति तत्प्रेक्षितं सदा ||
२२ ख
भीष्म उवाच:
काम्यनैमित्तिकाजस्रं यज्ञिय़ाः परमक्रिय़ाः |
२३ क
भीष्म उवाच:
सर्वाः सात्वतमास्थाय़ विधिं चक्रे समाहितः ||
२३ ख
भीष्म उवाच:
पञ्चरात्रविदो मुख्यास्तस्य गेहे महात्मनः |
२४ क
भीष्म उवाच:
प्राय़णं भगवत्प्रोक्तं भुञ्जते चाग्रभोजनम् ||
२४ ख
भीष्म उवाच:
तस्य प्रशासतो राज्यं धर्मेणामित्रघातिनः |
२५ क
भीष्म उवाच:
नानृता वाक्समभवन्मनो दुष्टं न चाभवत् |
२५ ख
भीष्म उवाच:
न च काय़ेन कृतवान्स पापं परमण्वपि ||
२५ ग
भीष्म उवाच:
ये हि ते मुनय़ः ख्याताः सप्त चित्रशिखण्डिनः |
२६ क
भीष्म उवाच:
तैरेकमतिभिर्भूत्वा यत्प्रोक्तं शास्त्रमुत्तमम् ||
२६ ख
भीष्म उवाच:
मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः |
२७ क
भीष्म उवाच:
वसिष्ठश्च महातेजा एते चित्रशिखण्डिनः ||
२७ ख
भीष्म उवाच:
सप्त प्रकृतय़ो ह्येतास्तथा स्वाय़म्भुवोऽष्टमः |
२८ क
भीष्म उवाच:
एताभिर्धार्यते लोकस्ताभ्यः शास्त्रं विनिःसृतम् ||
२८ ख
भीष्म उवाच:
एकाग्रमनसो दान्ता मुनय़ः संय़मे रताः |
२९ क
भीष्म उवाच:
इदं श्रेय़ इदं व्रह्म इदं हितमनुत्तमम् |
२९ ख
भीष्म उवाच:
लोकान्सञ्चिन्त्य मनसा ततः शास्त्रं प्रचक्रिरे ||
२९ ग
भीष्म उवाच:
तत्र धर्मार्थकामा हि मोक्षः पश्चाच्च कीर्तितः |
३० क
भीष्म उवाच:
मर्यादा विविधाश्चैव दिवि भूमौ च संस्थिताः ||
३० ख
भीष्म उवाच:
आराध्य तपसा देवं हरिं नाराय़णं प्रभुम् |
३१ क
भीष्म उवाच:
दिव्यं वर्षसहस्रं वै सर्वे ते ऋषिभिः सह ||
३१ ख
भीष्म उवाच:
नाराय़णानुशास्ता हि तदा देवी सरस्वती |
३२ क
भीष्म उवाच:
विवेश तानृषीन्सर्वाँल्लोकानां हितकाम्यया ||
३२ ख
भीष्म उवाच:
ततः प्रवर्तिता सम्यक्तपोविद्भिर्द्विजातिभिः |
३३ क
भीष्म उवाच:
शव्दे चार्थे च हेतौ च एषा प्रथमसर्गजा ||
३३ ख
भीष्म उवाच:
आदावेव हि तच्छास्त्रमोङ्कारस्वरभूषितम् |
३४ क
भीष्म उवाच:
ऋषिभिर्भावितं तत्र यत्र कारुणिको ह्यसौ ||
३४ ख
भीष्म उवाच:
ततः प्रसन्नो भगवाननिर्दिष्टशरीरगः |
३५ क
भीष्म उवाच:
ऋषीनुवाच तान्सर्वानदृश्यः पुरुषोत्तमः ||
३५ ख
भीष्म उवाच:
कृतं शतसहस्रं हि श्लोकानामिदमुत्तमम् |
३६ क
भीष्म उवाच:
लोकतन्त्रस्य कृत्स्नस्य यस्माद्धर्मः प्रवर्तते ||
३६ ख
भीष्म उवाच:
प्रवृत्तौ च निवृत्तौ च योनिरेतद्भविष्यति |
३७ क
भीष्म उवाच:
ऋग्यजुःसामभिर्जुष्टमथर्वाङ्गिरसैस्तथा ||
३७ ख
भीष्म उवाच:
तथा प्रमाणं हि मय़ा कृतो व्रह्मा प्रसादजः |
३८ क
भीष्म उवाच:
रुद्रश्च क्रोधजो विप्रा यूय़ं प्रकृतय़स्तथा ||
३८ ख
भीष्म उवाच:
सूर्याचन्द्रमसौ वाय़ुर्भूमिरापोऽग्निरेव च |
३९ क
भीष्म उवाच:
सर्वे च नक्षत्रगणा यच्च भूताभिशव्दितम् ||
३९ ख
भीष्म उवाच:
अधिकारेषु वर्तन्ते यथास्वं व्रह्मवादिनः |
४० क
भीष्म उवाच:
सर्वे प्रमाणं हि यथा तथैतच्छास्त्रमुत्तमम् ||
४० ख
भीष्म उवाच:
भविष्यति प्रमाणं वै एतन्मदनुशासनम् |
४१ क
भीष्म उवाच:
अस्मात्प्रवक्ष्यते धर्मान्मनुः स्वाय़म्भुवः स्वय़म् ||
४१ ख
भीष्म उवाच:
उशना वृहस्पतिश्चैव यदोत्पन्नौ भविष्यतः |
४२ क
भीष्म उवाच:
तदा प्रवक्ष्यतः शास्त्रं युष्मन्मतिभिरुद्धृतम् ||
४२ ख
भीष्म उवाच:
स्वाय़म्भुवेषु धर्मेषु शास्त्रे चोशनसा कृते |
४३ क
भीष्म उवाच:
वृहस्पतिमते चैव लोकेषु प्रविचारिते ||
४३ ख
भीष्म उवाच:
युष्मत्कृतमिदं शास्त्रं प्रजापालो वसुस्ततः |
४४ क
भीष्म उवाच:
वृहस्पतिसकाशाद्वै प्राप्स्यते द्विजसत्तमाः ||
४४ ख
भीष्म उवाच:
स हि मद्भावितो राजा मद्भक्तश्च भविष्यति |
४५ क
भीष्म उवाच:
तेन शास्त्रेण लोकेषु क्रिय़ाः सर्वाः करिष्यति ||
४५ ख
भीष्म उवाच:
एतद्धि सर्वशास्त्राणां शास्त्रमुत्तमसञ्ज्ञितम् |
४६ क
भीष्म उवाच:
एतदर्थ्यं च धर्म्यं च यशस्यं चैतदुत्तमम् ||
४६ ख
भीष्म उवाच:
अस्य प्रवर्तनाच्चैव प्रजावन्तो भविष्यथ |
४७ क
भीष्म उवाच:
स च राजा श्रिय़ा युक्तो भविष्यति महान्वसुः ||
४७ ख
भीष्म उवाच:
संस्थिते तु नृपे तस्मिञ्शास्त्रमेतत्सनातनम् |
४८ क
भीष्म उवाच:
अन्तर्धास्यति तत्सत्यमेतद्वः कथितं मय़ा ||
४८ ख