chevron_left शान्ति पर्व अध्याय ३२३
भीष्म उवाच:
ततोऽतीते महाकल्पे उत्पन्नेऽङ्गिरसः सुते |
१ क
भीष्म उवाच:
वभूवुर्निर्वृता देवा जाते देवपुरोहिते ||
१ ख
भीष्म उवाच:
वृहद्व्रह्म महच्चेति शव्दाः पर्याय़वाचकाः |
२ क
भीष्म उवाच:
एभिः समन्वितो राजन्गुणैर्विद्वान्वृहस्पतिः ||
२ ख
भीष्म उवाच:
तस्य शिष्यो वभूवाग्र्यो राजोपरिचरो वसुः |
३ क
भीष्म उवाच:
अधीतवांस्तदा शास्त्रं सम्यक्चित्रशिखण्डिजम् ||
३ ख
भीष्म उवाच:
स राजा भावितः पूर्वं दैवेन विधिना वसुः |
४ क
भीष्म उवाच:
पालय़ामास पृथिवीं दिवमाखण्डलो यथा ||
४ ख
भीष्म उवाच:
तस्य यज्ञो महानासीदश्वमेधो महात्मनः |
५ क
भीष्म उवाच:
वृहस्पतिरुपाध्याय़स्तत्र होता वभूव ह ||
५ ख
भीष्म उवाच:
प्रजापतिसुताश्चात्र सदस्यास्त्वभवंस्त्रय़ः |
६ क
भीष्म उवाच:
एकतश्च द्वितश्चैव त्रितश्चैव महर्षय़ः ||
६ ख
भीष्म उवाच:
धनुषाक्षोऽथ रैभ्यश्च अर्वावसुपरावसू |
७ क
भीष्म उवाच:
ऋषिर्मेधातिथिश्चैव ताण्ड्यश्चैव महानृषिः ||
७ ख
भीष्म उवाच:
ऋषिः शक्तिर्महाभागस्तथा वेदशिराश्च यः |
८ क
भीष्म उवाच:
कपिलश्च ऋषिश्रेष्ठः शालिहोत्रपितामहः ||
८ ख
भीष्म उवाच:
आद्यः कठस्तैत्तिरिश्च वैशम्पाय़नपूर्वजः |
९ क
भीष्म उवाच:
कण्वोऽथ देवहोत्रश्च एते षोडश कीर्तिताः |
९ ख
भीष्म उवाच:
सम्भृताः सर्वसम्भारास्तस्मिन्राजन्महाक्रतौ ||
९ ग
भीष्म उवाच:
न तत्र पशुघातोऽभूत्स राजैवं स्थितोऽभवत् |
१० क
भीष्म उवाच:
अहिंस्रः शुचिरक्षुद्रो निराशीः कर्मसंस्तुतः |
१० ख
भीष्म उवाच:
आरण्यकपदोद्गीता भागास्तत्रोपकल्पिताः ||
१० ग
भीष्म उवाच:
प्रीतस्ततोऽस्य भगवान्देवदेवः पुरातनः |
११ क
भीष्म उवाच:
साक्षात्तं दर्शय़ामास सोऽदृश्योऽन्येन केनचित् ||
११ ख
भीष्म उवाच:
स्वय़ं भागमुपाघ्राय़ पुरोडाशं गृहीतवान् |
१२ क
भीष्म उवाच:
अदृश्येन हृतो भागो देवेन हरिमेधसा ||
१२ ख
भीष्म उवाच:
वृहस्पतिस्ततः क्रुद्धः स्रुवमुद्यम्य वेगितः |
१३ क
भीष्म उवाच:
आकाशं घ्नन्स्रुवः पातै रोषादश्रूण्यवर्तय़त् ||
१३ ख
भीष्म उवाच:
उवाच चोपरिचरं मय़ा भागोऽय़मुद्यतः |
१४ क
भीष्म उवाच:
ग्राह्यः स्वय़ं हि देवेन मत्प्रत्यक्षं न संशय़ः ||
१४ ख
भीष्म उवाच:
उद्यता यज्ञभागा हि साक्षात्प्राप्ताः सुरैरिह |
१५ क
भीष्म उवाच:
किमर्थमिह न प्राप्तो दर्शनं स हरिर्विभुः ||
१५ ख
भीष्म उवाच:
ततः स तं समुद्धूतं भूमिपालो महान्वसुः |
१६ क
भीष्म उवाच:
प्रसादय़ामास मुनिं सदस्यास्ते च सर्वशः ||
१६ ख
भीष्म उवाच:
ऊचुश्चैनमसम्भ्रान्ता न रोषं कर्तुमर्हसि |
१७ क
भीष्म उवाच:
नैष धर्मः कृतय़ुगे यस्त्वं रोषमचीकृथाः ||
१७ ख
भीष्म उवाच:
अरोषणो ह्यसौ देवो यस्य भागोऽय़मुद्यतः |
१८ क
भीष्म उवाच:
न स शक्यस्त्वय़ा द्रष्टुमस्माभिर्वा वृहस्पते |
१८ ख
भीष्म उवाच:
यस्य प्रसादं कुरुते स वै तं द्रष्टुमर्हति ||
१८ ग
एकतद्वितत्रिता ऊचुः:
वय़ं हि व्रह्मणः पुत्रा मानसाः परिकीर्तिताः |
१९ क
एकतद्वितत्रिता ऊचुः:
गता निःश्रेय़सार्थं हि कदाचिद्दिशमुत्तराम् ||
१९ ख
एकतद्वितत्रिता ऊचुः:
तप्त्वा वर्षसहस्राणि चत्वारि तप उत्तमम् |
२० क
एकतद्वितत्रिता ऊचुः:
एकपादस्थिताः सम्यक्काष्ठभूताः समाहिताः ||
२० ख
एकतद्वितत्रिता ऊचुः:
मेरोरुत्तरभागे तु क्षीरोदस्यानुकूलतः |
२१ क
एकतद्वितत्रिता ऊचुः:
स देशो यत्र नस्तप्तं तपः परमदारुणम् |
२१ ख
एकतद्वितत्रिता ऊचुः:
कथं पश्येमहि वय़ं देवं नाराय़णं त्विति ||
२१ ग
एकतद्वितत्रिता ऊचुः:
ततो व्रतस्यावभृथे वागुवाचाशरीरिणी |
२२ क
एकतद्वितत्रिता ऊचुः:
सुतप्तं वस्तपो विप्राः प्रसन्नेनान्तरात्मना ||
२२ ख
एकतद्वितत्रिता ऊचुः:
यूय़ं जिज्ञासवो भक्ताः कथं द्रक्ष्यथ तं प्रभुम् |
२३ क
एकतद्वितत्रिता ऊचुः:
क्षीरोदधेरुत्तरतः श्वेतद्वीपो महाप्रभः ||
२३ ख
एकतद्वितत्रिता ऊचुः:
तत्र नाराय़णपरा मानवाश्चन्द्रवर्चसः |
२४ क
एकतद्वितत्रिता ऊचुः:
एकान्तभावोपगतास्ते भक्ताः पुरुषोत्तमम् ||
२४ ख
एकतद्वितत्रिता ऊचुः:
ते सहस्रार्चिषं देवं प्रविशन्ति सनातनम् |
२५ क
एकतद्वितत्रिता ऊचुः:
अतीन्द्रिय़ा निराहारा अनिष्पन्दाः सुगन्धिनः ||
२५ ख
एकतद्वितत्रिता ऊचुः:
एकान्तिनस्ते पुरुषाः श्वेतद्वीपनिवासिनः |
२६ क
एकतद्वितत्रिता ऊचुः:
गच्छध्वं तत्र मुनय़स्तत्रात्मा मे प्रकाशितः ||
२६ ख
एकतद्वितत्रिता ऊचुः:
अथ श्रुत्वा वय़ं सर्वे वाचं तामशरीरिणीम् |
२७ क
एकतद्वितत्रिता ऊचुः:
यथाख्यातेन मार्गेण तं देशं प्रतिपेदिरे ||
२७ ख
एकतद्वितत्रिता ऊचुः:
प्राप्य श्वेतं महाद्वीपं तच्चित्तास्तद्दिदृक्षवः |
२८ क
एकतद्वितत्रिता ऊचुः:
ततो नो दृष्टिविषय़स्तदा प्रतिहतोऽभवत् ||
२८ ख
एकतद्वितत्रिता ऊचुः:
न च पश्याम पुरुषं तत्तेजोहृतदर्शनाः |
२९ क
एकतद्वितत्रिता ऊचुः:
ततो नः प्रादुरभवद्विज्ञानं देवय़ोगजम् ||
२९ ख
एकतद्वितत्रिता ऊचुः:
न किलातप्ततपसा शक्यते द्रष्टुमञ्जसा |
३० क
एकतद्वितत्रिता ऊचुः:
ततः पुनर्वर्षशतं तप्त्वा तात्कालिकं महत् ||
३० ख
एकतद्वितत्रिता ऊचुः:
व्रतावसाने सुशुभान्नरान्ददृशिरे वय़म् |
३१ क
एकतद्वितत्रिता ऊचुः:
श्वेतांश्चन्द्रप्रतीकाशान्सर्वलक्षणलक्षितान् ||
३१ ख
एकतद्वितत्रिता ऊचुः:
नित्याञ्जलिकृतान्व्रह्म जपतः प्रागुदङ्मुखान् |
३२ क
एकतद्वितत्रिता ऊचुः:
मानसो नाम स जपो जप्यते तैर्महात्मभिः |
३२ ख
एकतद्वितत्रिता ऊचुः:
तेनैकाग्रमनस्त्वेन प्रीतो भवति वै हरिः ||
३२ ग
एकतद्वितत्रिता ऊचुः:
या भवेन्मुनिशार्दूल भाः सूर्यस्य युगक्षय़े |
३३ क
एकतद्वितत्रिता ऊचुः:
एकैकस्य प्रभा तादृक्साभवन्मानवस्य ह ||
३३ ख
एकतद्वितत्रिता ऊचुः:
तेजोनिवासः स द्वीप इति वै मेनिरे वय़म् |
३४ क
एकतद्वितत्रिता ऊचुः:
न तत्राभ्यधिकः कश्चित्सर्वे ते समतेजसः ||
३४ ख
एकतद्वितत्रिता ऊचुः:
अथ सूर्यसहस्रस्य प्रभां युगपदुत्थिताम् |
३५ क
एकतद्वितत्रिता ऊचुः:
सहसा दृष्टवन्तः स्म पुनरेव वृहस्पते ||
३५ ख
एकतद्वितत्रिता ऊचुः:
सहिताश्चाभ्यधावन्त ततस्ते मानवा द्रुतम् |
३६ क
एकतद्वितत्रिता ऊचुः:
कृताञ्जलिपुटा हृष्टा नम इत्येव वादिनः ||
३६ ख
एकतद्वितत्रिता ऊचुः:
ततोऽभिवदतां तेषामश्रौष्म विपुलं ध्वनिम् |
३७ क
एकतद्वितत्रिता ऊचुः:
वलिः किलोपह्रिय़ते तस्य देवस्य तैर्नरैः ||
३७ ख
एकतद्वितत्रिता ऊचुः:
वय़ं तु तेजसा तस्य सहसा हृतचेतसः |
३८ क
एकतद्वितत्रिता ऊचुः:
न किञ्चिदपि पश्यामो हृतदृष्टिवलेन्द्रिय़ाः ||
३८ ख
एकतद्वितत्रिता ऊचुः:
एकस्तु शव्दोऽविरतः श्रुतोऽस्माभिरुदीरितः |
३९ क
एकतद्वितत्रिता ऊचुः:
जितं ते पुण्डरीकाक्ष नमस्ते विश्वभावन ||
३९ ख
एकतद्वितत्रिता ऊचुः:
नमस्तेऽस्तु हृषीकेश महापुरुषपूर्वज |
४० क
एकतद्वितत्रिता ऊचुः:
इति शव्दः श्रुतोऽस्माभिः शिक्षाक्षरसमीरितः ||
४० ख
एकतद्वितत्रिता ऊचुः:
एतस्मिन्नन्तरे वाय़ुः सर्वगन्धवहः शुचिः |
४१ क
एकतद्वितत्रिता ऊचुः:
दिव्यान्युवाह पुष्पाणि कर्मण्याश्चौषधीस्तथा ||
४१ ख
एकतद्वितत्रिता ऊचुः:
तैरिष्टः पञ्चकालज्ञैर्हरिरेकान्तिभिर्नरैः |
४२ क
एकतद्वितत्रिता ऊचुः:
नूनं तत्रागतो देवो यथा तैर्वागुदीरिता |
४२ ख
एकतद्वितत्रिता ऊचुः:
वय़ं त्वेनं न पश्यामो मोहितास्तस्य माय़या ||
४२ ग
एकतद्वितत्रिता ऊचुः:
मारुते संनिवृत्ते च वलौ च प्रतिपादिते |
४३ क
एकतद्वितत्रिता ऊचुः:
चिन्ताव्याकुलितात्मानो जाताः स्मोऽङ्गिरसां वर ||
४३ ख
एकतद्वितत्रिता ऊचुः:
मानवानां सहस्रेषु तेषु वै शुद्धय़ोनिषु |
४४ क
एकतद्वितत्रिता ऊचुः:
अस्मान्न कश्चिन्मनसा चक्षुषा वाप्यपूजय़त् ||
४४ ख
एकतद्वितत्रिता ऊचुः:
तेऽपि स्वस्था मुनिगणा एकभावमनुव्रताः |
४५ क
एकतद्वितत्रिता ऊचुः:
नास्मासु दधिरे भावं व्रह्मभावमनुष्ठिताः ||
४५ ख
एकतद्वितत्रिता ऊचुः:
ततोऽस्मान्सुपरिश्रान्तांस्तपसा चापि कर्शितान् |
४६ क
एकतद्वितत्रिता ऊचुः:
उवाच खस्थं किमपि भूतं तत्राशरीरकम् ||
४६ ख
एकतद्वितत्रिता ऊचुः:
दृष्टा वः पुरुषाः श्वेताः सर्वेन्द्रिय़विवर्जिताः |
४७ क
एकतद्वितत्रिता ऊचुः:
दृष्टो भवति देवेश एभिर्दृष्टैर्द्विजोत्तमाः ||
४७ ख